ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - चतस्त्रिंशोऽध्यायः

युद्धारंभः -


नारायण उवाच
स प्रातराह्निकं कृत्वा समालोच्य च तैः सह ।
दूतं प्रस्थापयामास कार्तवीर्याश्रमं भृगुः ॥ १ ॥
स दूतः शीघमागत्य वसन्तं राजसंसदि ।
वेष्टितं सचिवैः सार्धमुवाच नृपतीश्वरम् ॥ २ ॥
रामदूत उवाच
नर्मदातीरसानिध्ये न्यग्रोधाक्षयमूलके ।
स भृगुर्भ्रातृभिः सार्धं त्व तत्राऽऽगन्तुमर्हसि ॥ ३ ॥
युद्धं कुरु महाराज जातिभिर्ज्ञातिभिः सह ।
त्रिःसप्तकृत्वो निर्भूपां करिष्यति महीमिति ॥ ४ ॥
इत्युक्त्वा रामदूतश्चाप्यगच्छद्‌रामसंनिधिम् ।
राजा विधाय संनाहं समरं गन्तुमुद्यतः ॥ ५ ॥
गच्छन्तं समरं दृष्ट्‍वा प्राणेशं सा मनोरमा ।
तमेव वारयामास वासयामास संनिधौ ॥ ६ ॥
राजा मनोरमां दृष्ट्‍वा प्रसन्नवदनेक्षणः ।
तामुवाच सभामध्ये वाक्यं मानसिकं मुने ॥ ७ ॥
कार्तवीर्यार्जुन उवाच
मामेवाह्वयते कान्ते जमदग्निसुतो महान् ।
स तिष्ठन्नर्मदातीरे रणाय भ्रतृभिः सह ॥ ८ ॥
संप्राप्य शंकराच्छस्त्रं मन्त्रं च कवचं हरेः ।
त्रिःसप्तकृत्वो निर्भूपां कर्तुमिच्छति मेदिनीम् ॥ ९ ॥
आन्दोलयन्ति मे प्राणा मनः संक्षुभितं मुहुः ।
शश्वत्स्फुरति वामाङ्‌गं दृष्टं स्वप्नं शृणु प्रिये ॥ १० ॥
तैलाभ्यङ्‌गितमात्मानपपश्य गर्दभोपरि ।
ओण्ढपुष्पस्य माल्यं च बिभ्रतं रक्तचन्दनम् ॥ ११ ॥
रक्तवस्त्रपरीधानं लोहालकारभूषितम् ।
क्रीडन्तं च हसन्तं च निर्वाणाङ्‌गारराशिना ॥ १२ ॥
भस्माच्छन्नां च पृथिवीं जपापुष्पान्वितां सति ।
रहितं चन्द्रसूर्याभ्यां रक्तसंध्यमित्तवतं नभः ॥ १३ ॥
मुक्तकेशां च नृत्यन्तीं विधवां छिन्ननासिकाम् ।
रक्तवस्त्रपरीधानामपश्यं चाट्टहासिनीम् ॥ १४ ॥
सशरामग्निरहितां चितां भस्मसमन्विताम् ।
भस्मवृष्टिमसृग्वृष्टिमग्निवृष्टिमपीश्वरि ॥ १५ ॥
पक्वतालफलाकीर्णां पृथिवीमस्थिसंयुताम् ।
अपश्यं कर्परौधं च च्छिन्नकेशनखन्वितम् ॥ १६ ॥
पर्वतं लवणानां च राशीभूतं कपर्दकम् ।
चूर्णानां चैव तैलानामदृशं कन्दरं निशि ॥ १७ ॥
अदृशं पुष्पितं वृक्षमशोककरवीरयोः ।
तालवृक्षं च फलितं तत्र चैव पतत्फलम् ॥ १८ ॥
स्वकरात्पूर्णकलशः पपात च बभञ्ज च ।
इत्यपश्यं च गगनात्संपतच्चन्द्रमण्डलम् ॥ १९ ॥
अपश्यमम्बरात्सूर्यमण्डलं संपतद्‌भुवि ।
उल्कापातं धूमकेतुं ग्रहणं चन्द्रसूर्ययोः ॥ २० ॥
विकृताकारपुरुषं विकटास्यं दिगम्बरम् ।
आगच्छन्तं चाग्रतस्तमपश्यं च भयानकम् ॥ २१ ॥
बाला द्वादशवर्षीया वस्त्रभूणभूषिता ।
संरुष्टा याति मद्‌गेहादित्यपश्यमहं निशि ॥ २२ ॥
आज्ञां त्वं देहि राजेन्द्र तद्‌गेहनद्यानि काननम् ।
वदसि त्वं माभिति च निश्वपश्यमहं शुचा ॥ २३ ॥
रुष्टो विप्रो मा शपते संन्यासो च तथा गुरुः ।
भित्तौ पुत्तेलिकाश्चित्रा नृत्यन्तीश्च ददर्श ह ॥ २४ ॥
चञ्चलानां च गृध्राणां काकानां निकरैः सदा ।
पीडितं महिषाणां च स्वमपश्यमहं निशि ॥ २५ ॥
पीडितं तैलयन्त्रैण भ्रमितं तैलकारिणा ।
दिगम्बरान्याशहस्तानपश्यमहमीश्वरि ॥ २६ ॥
नृत्यन्ति गायकाः सर्वे गानं गायन्ति मे गृहे ।
विवाहं परमानन्दमित्यपश्यमहं निशि ॥ २७ ॥
रमणं कुर्वतो लोकात्केशाकेशि च कुर्वतः ।
अदृशं समरं रात्रौ काकानां च शुनामपि ॥ २८ ॥
मोटकानि च पिण्डानि श्मशानं शवसंयुतम् ।
रक्तवस्त्रं शुक्लवस्त्रमपश्यं निशि कामिनि ॥ २९ ॥
कृष्णाम्बरा कृष्णवर्णा नग्ना वै मुक्तकेशिनी ।
विधवा श्लिष्यति च मामपश्यं निशि शोभने ॥ ३० ॥
नापितो मुण्डते मुण्डं श्मश्रुश्रेणीं च मे प्रिये ।
वक्षःस्थलं च नखरमित्यपश्यमहं निशि ॥ ३१ ॥
पादुकाचर्मरज्जूनामपश्यं राशिमुल्बणम् ।
चक्रं भ्रमन्तं भूमौ च कुलालस्येति सुन्दरि ॥ ३२ ॥
वात्यया घूर्णमान च शुष्कवृक्षं तमुत्थितम् ।
पूर्णमानं कबन्धं वै चापश्यं निशि सुव्रते ॥ ३३ ॥
ग्रथितां मुण्डमालां च चूर्णमानां च वात्यया ।
अतीव धोरदशनामप्यपश्यमहं वरे ॥ ३४ ॥
भूतप्रेता मुक्तकेशा वमन्तश्च हुताशनम् ।
मां भीषयन्ति सततमित्यपश्यमहं निशि ॥ ३५ ॥
दग्धजीवं दग्धवृक्षं व्याधिग्रस्तं नरं परम् ।
अङ्‌गहीनं च वृषलमप्यपश्यमहं निशि ॥ ३६ ॥
गेहपर्वतवृक्षाणां सहसा पततं परम् ।
मुहुर्मुहुर्वज्रपातमप्यपश्यमहं निशि ॥ ३७ ॥
कुक्कुराणां शृगालानां रोदनं च मुहुर्मुहुः ।
गृहे गृहे च नियतमपश्यं सर्वतो निशि ॥ ३८ ॥
अधःशिरस्तूर्ध्वपादं मुक्तकेशं दिगम्बरम् ।
भूमौ भ्रमन्तं गच्छन्तं चाप्यपश्यमहं नरम् ॥ ३९ ॥
विकृताकारशब्दं च ग्रामादौ देवरोदनम् ।
प्रातः श्रुत्वैवावबुद्धः क उपायो वदाधुना ॥ ४० ॥
नृपतेर्वचनं श्रुत्वा हृदयेन विदूयता ।
सगद्‌गदं च रुदती तमुवाच नृपेश्वरम् ॥ ४१ ॥
हे नाथ रमणश्रेष्ठ श्रेष्ठ सर्वमहीभृताम् ।
प्राणातिरेक प्राणेश शृणु वाक्यं शुभावहम् ॥ ४२ ॥
नारायणांशो भगवाञ्जामदन्यो महाबली ।
सृष्टिसंहर्तुरीशस्य शिष्योऽयं जगतः प्रभोः ॥ ४३ ॥
त्रिःसप्तकृत्वो निर्भूपां करिष्यामि महोमिति ।
प्रतिज्ञा यस्य रामस्य तेन सार्धं रणं त्यज ॥ ४४ ॥
पापिनं रावणं जित्वा शूरं त्वमपि मन्यसे ।
स त्वया न जितो नाथ स्वपापेन पराजितः ॥ ४५ ॥
यो न रक्षति धर्मं च तस्य को रक्षिता भुवि ।
स नश्यति स्वयं मूढो जीवन्नपि मृतोहि सः ॥ ४६ ॥
शुभाशुभस्य सततं साक्षी धर्मस्यकर्मणः ।
आत्मारामः स्थितः स्वान्तो मूढस्त्वं नहि पश्यसि ॥ ४७ ॥
पुत्रदारादिकं यद्यत्सर्वेश्वर्यं सुधर्मिणाम् ।
जलबुद्‌बुदवत्सर्वमनित्यं नश्वरं नृप ॥ ४८ ॥
संसारं स्वप्नसदृशं मत्वा सन्तोऽत्र भारते ।
ध्यायन्ति सततं धर्मं तपः कुर्वन्ति भक्तितः ॥ ४९ ॥
दत्तेन दत्तं यज्ज्ञानं तत्सर्वं विस्मृतं त्वया ।
अस्ति चेद्विप्रहिंसायां कुबुद्धे त्वन्मनः कथम् ॥ ५० ॥
सुखार्थे मृगयां गत्वा तत्रोपोष्य द्विजाश्रमे ।
भुक्त्वा मिष्टमपूर्वं च हतो विप्रो निरर्थकम् ॥ ५१ ॥
गुरुविप्रसुराणां च यः करोति पराभवम् ।
अभीष्टदेवस्तं रुष्टो विपत्तिस्तस्य संनिधौ ॥ ५२ ॥
स्मरणं कुरु राजेन्द्र दत्तात्रेयपदाम्बुजम् ।
गुरौ भक्तिश्च सर्वेषां सर्वविघ्नविनाशिनी ॥ ५३ ॥
गुरुदेवं समभ्यर्च्य तं भृगुं शरणं व्रज ।
विप्रे देवे प्रसन्ने च क्षत्रियाणां नहि क्षतिः ॥ ५४ ॥
विप्रस्य किंकरो भूपो वैश्यो भूपस्य भूमिप ।
सर्वेषां किंकराः शूद्रा ब्राह्मणस्य विशेषतः ॥ ५५ ॥
अयशः शरणं शश्वत्क्षत्रियस्य च क्षत्रिये ।
महद्यशस्तच्छरणं गुरुदेवद्विजेषु च ॥ ५६ ॥
ब्राह्मणं भज राजेन्द्र गरीयांसं सुरादपि ।
ब्राह्मणे परितुष्टे च संतुष्टाः सर्वदेवताः ॥ ५७ ॥
इत्येवमुक्त्वा राजेन्द्रं क्रोडे कृत्वा महासती ।
मुहुर्मुहुर्मुखं दृष्टा विललाप रुरोद च ॥ ५८ ॥
क्षणं तिष्ठ महाराज पुनरेवमुवाच सा ।
स्नानं कुरु महाराज भोजयिष्यामि वाञ्छितम् ॥ ५९ ॥
चन्दनागुरुकस्तृरीकर्पूरैः कुडत्कुमैर्युतम् ।
अनुलेपं करिष्यामि सर्वाङ्‌गे तव सुन्दर ॥ ६० ॥
क्षणं सिंहासने तिष्ठ क्षणं वक्षसि मे प्रभो ।
सभायां पुष्परचिते तल्पे पश्यामि शोभनम् ॥ ६ १ ॥
शतपुत्राधिकः प्रेम्णा सतीनां वै पतिनृप ।
निरूपितो भगवता वेदेषु हरिणा स्वयम् ॥ ६२ ॥
मनोरमावचः श्रुत्वा राजा परमपण्डितः ।
बोधयामास तां राज्ञीं ददौ प्रत्युत्तरं पुनः ॥ ६३ ॥
कार्तवीर्यार्जुन उवाच
शृणु कान्ते जःऽक्षताप्रण श्रुतं सर्वं त्वयेरितम् ।
शोकार्तानां च वचनं न प्रशंस्यं सभासु च ॥ ६४ ॥
सुखं दुःखं भय शोकः कलहः प्रीतिरेव च ।
कर्मभोगार्हकालेन सर्वं भजति सुन्दरि ॥ ६५ ॥
कालो ददाति राजत्वं कालो मृत्युं पुनर्भवम् ।
कालः सृजति संसारं कालः संहरते पुनः ॥ ६६ ॥
करोति पालनं कालः कालरूपी जनार्दनः ।
कालस्य कालः श्रीकृष्णो विधातुर्विधिरेव च ॥ ६७ ॥
संहर्तुर्वाऽपि संहर्ता पातुः पाता च कर्मकृत् ।
स कर्मणा कर्मरूपी ददाति तपसां फलम् ॥ ६८ ॥
कः केन हन्यते जन्तुः कर्मणा वै विना सति ।
स्रष्टा सृजति सृष्टिं च संहर्ता संहरेत्पुनः ॥ ६९ ॥
पाता पाति च भूतानि यस्याऽऽज्ञां परिपालयेत् ।
यस्याऽज्ञया वाति वातः संततं भयविह्वलः ॥ ७० ॥
शश्वत्संचरते मृत्युः सूर्यस्तपति संततम् ।
वर्षतीन्द्रो दहत्यग्निः कालो भ्रमति भीतवत् ॥ ७१ ॥
तिष्ठन्ति स्थावराः सर्वे चरन्ति सततं चराः ।
वृक्षाश्च पुष्पिताः काले फलिताः पल्लवान्विताः ॥ ७२ ॥
शुष्यन्ति कालतः काले वर्धन्ते च तदाज्ञया ।
आविर्भूता तिरोभूता सृष्टिरेव यदाज्ञया ॥
तस्याऽज्ञया भवेत्सर्वं न किंचित्स्वेच्छया नृणाम् ॥ ७३ ॥
नारायणांशो भगवाञ्जामदग्न्यो महाबलः ।
त्रिः सप्तकृत्वो निर्भूपां करिष्यति महीमिति ॥ ७४ ॥
प्रतिज्ञा विफला तस्य न भवेत्तु कदाचन ।
निश्चितं तस्य वध्योऽहमिति जानामि सुव्रते ॥ ७५ ॥
ज्ञात्वा सर्वं भविष्यं च शरणं यामि तत्कथम् ।
प्रतिष्ठितानां चाकीर्तिर्मरणादतिरिच्यते ॥ ७६ ॥
इत्येवमुक्त्वा राजेन्द्रः समरं गन्तुमुद्यतः ।
वाद्यं च वादयामास कारयामास मङ्‌गलम् ॥ ७७ ॥
शतकोटिनृपाणां च राजेन्द्राणां त्रिलक्षकम् ।
अक्षौहिणीनां शतकं महाबलपराक्रमम् ॥ ७८ ॥
अश्वानां च गजानां च पदातीनां तथैव च ।
असंख्यकं रथानां च गृहीत्वा गन्तुमुद्यतः ॥ ७९ ॥
बभूव स्तिमिता साध्वी दृष्ट्‍वा तं गमनोन्मुखम् ।
धृतवन्तं च सन्नाहमक्षयं सशरं धनुः ॥ ८० ॥
क्रीडागारे क्षणं तस्थौ कृत्वा कान्तं स्ववक्षसि ।
पश्यन्ती तन्मुखाम्भोजं चुचुम्ब च मुहुर्मुहुः ॥ ८१ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे चतुस्त्रिंशोध्यायः ॥ ३४ ॥


GO TOP