ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - त्रयस्त्रिंशोऽध्यायः

भृगुः स्वप्नम् -


नारायण उवाच
शिवं प्रणम्य स य भृगुर्दुर्गां कालीं मुदाऽन्वितः ।
गत्वा पुष्करतीर्थं च मन्त्रसिद्धिं चकार ह ॥ १ ॥
स बभूव निराहारो मासं भक्तिसमन्वितः ।
ध्यायन्कृष्णपवाम्भोजं वायुरोधं चकार सः ॥ २ ॥
ददर्श चक्षुरुन्मील्य गगनं तेजसाऽऽवृतम् ।
दिशो दश द्योतयन्तं सभाच्छन्नदिवाकरम् ॥ ३ ॥
तेजोमण्डलमध्यस्थं रत्‍नयानं ददर्श ह ।
ददर्श तत्र पुरुषमत्यन्तं सुन्दरं वरम् ॥ ४ ॥
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकारकम् ।
प्रणम्य दण्डवन्मूर्ध्ना वरं वव्रे तमीश्वरम् ॥ ५ ॥
त्रिःसप्तकृत्वो निर्भूपां करिष्यामि महीमिति ।
पादारविंदे सुदृढां तां भक्तिमनपायिनीम् ॥ ६ ॥
दास्यं सुदुर्लभं शश्वत्त्वत्पादाब्जेजे च देहि मे ।
कृष्णस्तस्मै वरं दत्त्वा तत्रैवान्तरधीयत ॥ ७ ॥
भृगुः प्रणम्य भवनं तज्जगाम परात्परम् ।
पस्पन्द दक्षिणाङ्‌गं च परं मङ्‌गच्चसूचकम् ॥ ८ ॥
वाच्छाप्रतीतिजननं सुस्वप्नं च ददर्श ह ।
मनः प्रसन्नं स्फीतं च तद्‌बभूव दिवानिशम् ॥
संभाष्य स्वजनं सर्वं गृहे तस्थौ मुवाऽन्वितः ॥ ९ ॥
स्वशिष्यान्पितृशिष्याश्च भ्रातृवर्गांश्चबान्धवान् ।
आनीयाऽऽनीयविविधान् मन्त्रांश्च स चकार ह ॥ १० ॥
पौर्वापर्यं स्ववृत्तान्तं तानेवोक्त्वा शुभक्षणे ।
तैरेव सार्धं बलवान्बभूव गमनोन्मुखः ॥ ११ ॥
ददर्श मङ्‌गलं रामः शुश्राव जयसूचकम् ।
बुबुधे मनसा सवं स्यजयं वैरिसंक्षयम् ॥ १२ ॥
यात्राकाले च पुरतः शुश्राव सहसा मुनिः ।
हरिशब्दं शङ्‌खरवं घण्टादुंदुभिवादनम् ॥ १३ ॥
आकाशवाणीसंगीतं जयस्ते भवितेति च ।
नवेङ्‍‍गितं च कल्याणं मेघशब्दं जयावहम् ॥ १४ ॥
चकार यात्रां भगवाच्छ्रुत्वैवं विविधं शुभम् ।
ददर्शं पुरतो विप्रवह्निदैवज्ञभिक्षुकान् ॥ १५ ॥
ज्वलत्प्रदीपं दधतीं पतिपुत्रवतीं सतीम् ।
पुरो ददर्श स्मेरास्यां नानाभूषणभूषिताम् ॥ १६ ॥
शिवं शिवां पूर्णकुम्भं चाषं च नकुलं तथा ।
गच्छन्ददर्श रामश्च यात्रामङ्‌गलसूचकम् ॥ १७ ॥
कृष्णसारं गजं सिंहं तुरङ्‌गं गण्डकं द्विपम् ।
चमरीं राजहंसं च चक्रवाकं शुकं पिकम् ॥ १८ ॥
मयूरं खञ्जनं चैव शङ्‌खचिल्ल चकोरकम् ।
पारावतं बलाकं च कारण्डं चातकं चटम् ॥ १९ ॥
सौदामनीं शक्रचापं सूर्यं सूर्यप्रभां शुभाम् ।
सद्योमांसं सजीवं च मत्स्ये शंखं सुवर्णकम् ॥ २० ॥
माणिक्यं रजतं मुक्तां मणीन्द्रं च प्रवालकम् ।
दधि लाजाच्छुक्लधान्यं शुक्लपुष्पं च कुङ्‌कुमम् ॥ २१ ॥
पर्णं पताकां छत्रं च दर्पणं श्वेतचामरम् ।
धेनुं वत्सप्रयुक्तां च रथस्थं भूमिपं तथा ॥ २२ ॥
दुग्धमाज्यं तथा पूगममृतं पायसं तथा ।
शालग्रामं पक्वफलं स्वस्तिकं शर्करां मधु ॥ २३ ॥
मार्जारं च वृषेन्द्रं च मेषं पर्वतमूषिकम् ।
मेघाच्छन्नस्य च रवेरुदयं चन्द्रमण्डलम् ॥ २४ ॥
कस्तूरीं व्यजनं तोयं हरिद्रां तीर्थमृत्तिकाम् ।
सिद्धार्थ सर्षपं दूर्वां विप्रबालं च बालिकाम् ॥ २५ ॥
मृगं वेश्यां षट्पदं च कर्पूरं पीतवाससम् ।
गोमूत्रं गोपुरीषं च गोधूलिं गोपदाङ्‌कितम् ॥ २६ ॥
गोष्ठं गवां वर्त्म रम्यां गोशालां गोगतिं शुभाम् ।
भूषणं देवमूर्तिं च ज्वलदग्निं महोत्सवम् ॥ २७ ॥
ताम्रं व स्फटिकं वन्द्यं सिन्दुरं माल्यचन्दनम् ।
गन्धं व हीरकं रत्‍नं ददर्शं दक्षिणे शुभम् ॥ २८ ॥
सुगन्धिवायोराघ्राणं प्राप विप्राशिषं शुभाम् ॥ २९ ॥
इत्येवं मङ्‌गलं ज्ञात्वा प्रययौ स मुदाऽन्वितः ।
अस्तं गते दिनकरे नर्मदातीरसंनिधौ ॥ ३० ॥
तत्राक्षयवटं दिव्यं ददर्श सुमनोहरम् ।
अत्यूर्ध्वं विस्तृतमतिपुण्याश्रमपदं परम् ॥ ३१ ॥
पौलस्त्यतपसः स्थानं सुगन्धिमरुदन्वितम् ।
कार्तवीर्यार्जुनाभ्याशे तत्र तस्थौ गणैः सह ॥ ३२ ॥
सुष्वाप पुष्पशय्यायां किंकरैः परिसेवितः ।
निद्रां ययौ परिश्रान्तः परमानन्दसंयुतः ॥ ३३ ॥
निशातीते च स भृगुश्चारु स्वप्नं ददर्श ह ।
न चिन्तितं यन्मनसा वायुपित्तकफं विना ॥ ३४ ॥
गजाश्वशैलप्रासादगोवृक्षफलितेषु च ।
आरुह्यमाणमात्मानं रुदन्तं कृमिभक्षितम् ॥ ३५ ॥
आरुह्यमाणमात्मानं नौकायां चन्दनोक्षितम् ।
धृतवन्तं पुष्पमालां शोभितं पीतवाससा ॥ ३६ ॥
विष्मूत्रोक्षितसर्वाङ्‌गं वसापूयसमन्वितम् ।
वीणां वरां वादयन्तमात्मानं च ददर्श ह ॥ ३७ ॥
विस्तीर्णपद्मपत्रैश्च स्वं ददर्श सरित्तटे ।
दध्याज्यमधुसंयुक्तं भुक्तवन्तं च पायसम् ॥ ३८ ॥
भुक्तवन्तं च ताम्बूलं लभन्तं ब्राह्मणाशिवम् ।
फलपुष्पप्रदीपं च पश्यन्तं स्वं ददर्श ह ॥ ३९ ॥
परिपक्वफलं क्षीरमुष्णान्नं शर्करान्वितम् ।
स्वस्तिकं भुक्तवन्तं त्वं ददर्श च पुनः पुनः ॥ ४० ॥
जलोकसा वृश्चिकेन मीनेन भुजगेन च ।
भक्षितं भीतमात्मानं पलायन्तं ददर्श सः ॥ ४१ ॥
ततो ददर्श चाऽऽत्मानं मण्डलं चन्द्रसूर्ययोः ।
पतिपुत्रवतीं नारीं पश्यन्तं सस्मितं द्विजम् ॥ ४२ ॥
सुवेषया कन्यकया सस्मितेन द्विजेन च ।
ददर्श श्लिष्टमात्मानं तुष्टेन परितुष्टया ॥ ४३ ॥
फलितं पुष्पितं वृक्षं देवताप्रतिमां नृपम् ।
गजस्थं च रथस्थं च पश्यन्तं स्वं ददर्श सः ॥ ४४ ॥
पीतवस्त्रपरिधानां रत्‍नालंकारभूषिताम् ।
विशन्तीं ब्राह्मणीं गेहं पश्यन्तं स्वं ददर्श सः ॥ ४५ ॥
शंखं च स्फटिकं श्वेतमालां मुक्तां च चन्दनम् ।
सुवर्णं रजतं रत्‍नं पश्यन्तं स्वं ददर्श सः ॥ ४६ ॥
गजं वृषं च सर्पं च श्वेतं च श्वेतचामरम् ।
नीलोत्पलं दर्पणं च भार्गवो वै ददर्श सः ॥ ४७ ॥
रथस्थं नवरत्‍नाढ्यं मालतीमाल्यभूषितम् ।
रत्‍नसिंहासनस्थं स्वं भृगुः स्वप्ने ददर्श सः ॥ ४८ ॥
पद्मश्रेणीं पूर्णकुम्भं दधिलाजान्घृतं मधु ।
पर्णच्छत्रं छत्रिणं च भृगुः स्वप्ने ददर्श सः ॥ ४९ ॥
बकपङ्‌क्तिं हसपङ्‌क्तिं कन्यापङ्‌क्तिं व्रतान्विताम् ।
पूजयन्तीं धट शुभ्रं भृगुः स्वप्ने ददर्श सः ॥ ५० ॥
मण्डपस्थं द्विजगणं पूजयन्तं हरं हरिम् ।
जयोऽस्त्वित्युक्तवन्तं तं भृगुः स्वप्ने ददर्श सः ॥ ५१ ॥
सुधावृष्टिं पर्णवृष्टिं फलवृष्टिं च शाश्वतीम् ।
पुष्पचन्दनवृष्टिं च भृगुः स्वप्ने ददर्शसः ॥ ५२ ॥
सद्योमांसं जीवमत्स्य मयूरं श्वेतखञ्जनम् ।
सरोवरं च तीर्थानि भृगुः स्वप्ने ददर्श सः ॥ ५३ ॥
पारावतं शुकं चाषं शङ्‌खं चिल्लं च चातकम् ।
व्याघ्रं सिंहं च सुरभीं भृगुः स्वप्ने ददर्श सः ॥ ५४ ॥
गोरोचनां हरिद्रां च शुक्लधान्याचलं वरम् ।
ज्वलदग्निं तथा दूर्वां भृगुः स्वप्ने ददर्श सः ॥ ५५ ॥
देवालयसमूहं च शिवलिङ्‌गं च पूजितम् ।
अर्चितां मृण्मयीं शैवां भृगुः स्वप्ने ददर्श सः ॥ ५६ ॥
यवगोधूमचूर्णानां भक्ष्याणि विविधानि च ।
भृगुर्ददर्श स्वप्ने च बुभुजे च पुनः पुनः ॥ ५७ ॥
दिव्यवस्त्रपरिधानो रत्‍नभूषणभूषितः ।
अगम्यागमनं स्वप्ने चकार भृगुनन्दनः ॥ ५८ ॥
ददर्श नर्तकीं वेश्यां रुधिरं च सुरां पपौ ।
रुधिरोक्षितसर्वाङ्‌गः स्वप्ने चैव भृगुनन्दनः ॥ ५९ ॥
पक्षिणां पीतवर्णानां मानुषाणां च नारद ।
मांसानि बुभुजे रामो हृष्टः स्वप्नेऽरुणोदये ॥ ६० ॥
अकस्मान्निगडैर्बद्धं क्षतं शस्त्रेण स्वं पुनः ।
दृष्ट्‍वा च बुबुधे प्रातः समुत्तस्थौ हरिं स्मरन् ॥ ६१ ॥
अतीव हृष्टः स्वप्नेन प्रातःकृत्यं चकार सः ।
मनसा बुबुधे सर्वं विजेष्यामि रिपुं ध्रुवम् ॥ ६२ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥


GO TOP