ब्रह्मवैवर्तपुराणम्
तृतीयं गणपतिखण्डम् - द्वात्रिंशोऽध्यायः
स्तवप्रदानम् -
भृगुरुवाच
संप्राप्तं कवचं नाथ शश्वत्सर्वाङ्गरक्षणम् ।
सुखदं मोक्षदं सारं शत्रुसंहारकारणम् ॥ १ ॥
अधुना भगवन्मन्त्रं स्तोत्रं पूजाविधिं प्रभो ।
देहि मह्यमनाथाय शरणागतपालक ॥ २ ॥
महादेव उवाच
ॐ श्रीं नमः श्रीकृष्णाय परिपूर्णतमाय च ।
स्वाहेत्यनेन मन्त्रेण भज गोपीश्वरं प्रभुम् ॥ ३ ॥
मन्त्रेषु मन्त्रराजोऽयं महान्सप्तदशाक्षरः ।
सिद्धोऽयं पञ्चलक्षेण जपेन मुनिपुंगव ॥ ४ ॥
तद्दशांशं च हवनं तद्दशांशाभिषेचनम् ।
तर्पणं तद्दशांशं च तद्दशांशं च मार्जनम् ॥ ५ ॥
सुवर्णानां च शतकं पुरश्चरणदक्षिणा ।
मन्त्रसिद्धस्य पुंसश्च विश्वं करतले मुने ॥ ६ ॥
शक्तः पातुं समुद्रांश्च विश्वं संहर्तुमीश्वरः ।
पाञ्चभौतिकदेहेन वैकुण्ठं गन्तुमीश्वरः ॥ ७ ॥
तस्य संस्पर्शमात्रेण पदपङ्कजरेणुना ।
पूतानि सर्वतीर्थानि सद्यः पूता वसुंधरा ॥ ८ ॥
ध्यानं च सामवेदोक्तं शृणु मन्मुखतो मुने ।
सर्वेश्वरस्य कृष्णस्य भक्तिमुक्तिप्रदायि च ॥ ९ ॥
नवीनजलदश्यामं नीलेन्दीवरलोचनम् ।
शरत्पार्वणचन्द्रास्यमीषद्धास्यं मनोहरम् ॥ १० ॥
कोटिकन्दर्पलावण्यं लीलाधाममनोहरम् ।
रत्नसिहासनस्थं तं रत्नभूषणभूषितम् ॥ ११ ॥
चन्दनोक्षितसर्वाङ्गं पीताम्बरधरं वरम् ।
वीक्ष्यमाणं च गोपीभिः सस्मिताभिश्च संततम् ॥ १२ ॥
प्रफुल्लमालतोमालावनमालाविभूषितम् ।
दधतं कुन्दपुष्पाढ्यां चूडां चन्द्रकचर्चिताम् ॥ १३ ॥
प्रभां क्षिपन्तीं नभसश्चन्द्रतारान्वितस्य च ।
रत्नभूषितसर्वाङ्गं राधावक्षःस्थलस्थितम् ॥ १४ ॥
सिद्धेन्द्रैश्च मुनीन्द्रैश्च देवेन्द्रैः परिसेवितम् ।
ब्रह्मविष्णुमहेशैश्च श्रुतिभिश्च स्तुतं भजे ॥ १५ ॥
ध्यानेनानेन तं ध्यात्वा चोपचारांस्तु षोडश ।
दत्त्वा भक्त्या च संपूज्य सर्वज्ञत्वं लभेत्पुमान् ॥ १६ ॥
अर्घ्यं पाद्यं चाऽऽसनं च वसनं भूषणं तथा ।
गामर्घ्यं मधुपर्कं च यज्ञसूत्रमनुत्तमम् ॥ १७ ॥
धूपदीपौ च नैवेद्यं पुनराचमनीयकम् ।
नानाप्रकारपुष्पाणि ताम्बूलं च सुवासितम् ॥ १८ ॥
मनोहर दिव्यतल्पं कस्तूर्यगुरुचन्दनैः ।
भक्त्या भगवते देयं माल्यं पुष्पाञ्जलित्रयम् ॥ १९ ॥
ततः षडङ्गं संपूज्य पश्चात्संपूजयेद्गणम् ।
श्रीदामानं सुदामानं वसुदामानमेव च ॥ २० ॥
हरिभानुं चन्द्रभानुं सूर्यभानुं सुभानुकम् ।
पार्षदप्रवरान्सप्त पूजयेद्भक्तिभावतः ॥ २१ ॥
गोपीश्वरीं राधिकां च मूलप्रकृतिमीश्वरीम् ।
कृष्णशक्ति कृष्णपूज्यां पूजयेद्भक्तिपूर्वकम् ॥ २२ ॥
गोपगोपीगणं शान्तं मां ब्रह्माणं च पार्वतीम् ।
लक्ष्मीं सरस्वतीं पृथ्वीं सर्वदेव सपार्षदम् ॥ २३ ॥
देवषट्कं समभ्यर्च्य पुनः पञ्चोपचारतः ।
पश्चादेवंक्रमेणैव श्रीकृष्ण पूजयेत्सुधीः ॥ २४ ॥
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।
देवषट्कं समभ्यर्च्य च इष्टदेवं च पूजयेत् ॥ २५ ॥
गणेशं विघ्ननाशाय व्याधिनाशाय भास्करम् ।
आत्मनः शुद्धये वह्निं श्रीविष्णुं मुक्तिहेतवे ॥ २६ ॥
ज्ञानाय शंकरं दुर्गां परमैश्वर्यहेतवे ।
संपूजने फलमिदं विपरीतमपूजने ॥ २७ ॥
ततः कृत्वा परीहारमिष्टदेवं च भक्तितः ।
स्तोत्रं च सामवेदोक्तं पठेद्भक्त्या च तच्छृणु ॥ २८ ॥
महादेव उवाच
परं ब्रह्म परं धाम परं ज्योतिः सनातनम् ।
निर्लिप्तं परमात्मानं नमाम्यखिलकारणम् ॥ २९ ॥
स्थूलात्स्थूलतमं देवं सूक्ष्मात्सूक्ष्मतमं परम् ।
सर्वदृश्यमदृश्य च स्वेच्छाचारं नमाम्यहम् ॥ ३० ॥
साकारं च निराकारं सगुणं निर्गुणं प्रभुम् ।
सर्वाधारं च सर्वं च स्वेच्छारूपं नमाम्यहम् ॥ ३१ ॥
अतीव कमनीयं च रूपं निरुपमं विभुम् ।
करालरूपमत्यन्तं बिभतं प्रणमाम्यहम् ॥ ३२ ॥
कर्मणः कर्मरूपं तं साक्षिणं सर्वकर्मणाम् ।
फलं च फलदातारं सर्वरूपं नमाम्यहम् ॥ ३३ ॥
स्रष्टा पाता च संहर्ता कलया मूर्तिभेदतः ।
नानामूर्तिः कलांशेन यः पुमांस्तं नमाम्यहम् ॥ ३४ ॥
स्वयं प्रकृतिरूपश्च मायया च स्वयं पुमान् ।
तयोः परः स्वयं शश्वत्तं नमामि परात्परम् ॥ ३५ ॥
स्त्रीपुंनपुंसकं रूपं यो बिभर्ति स्वमायया ।
स्वयं' माया स्वयं मायी यो देवस्तं नमाम्यहम् ॥ ३६ ॥
तारकं सर्वदुःखानां सर्वकारणकारणम् ।
धारकं सर्वविश्वानां सर्वबीजं नमाम्यहम् ॥ ३७ ॥
तेजस्विनां रविर्यो हि सर्वजातिषु वाडवः ।
नक्षत्राणां च यश्चन्द्रस्तं नमामि जगत्प्रभुम् ॥ ३८ ॥
रुद्राणां वैष्णवानां च ज्ञानिनां यो हि शंकरः ।
नागानां यो हि शेषश्च तं नमामि जगत्पतिम् ॥ ३९ ॥
प्रजापतीनां यो ब्रह्मा सिद्धानां कपिलः स्वयम् ।
सनत्कुमारो मुनिषु तं नमामि जगद्गुरुम् ॥ ४० ॥
देवानां यो हि विष्णुश्च देवीनां प्रकृतिः स्वयम् ।
स्वायंभुवो मनूनां यो मानवेषु च वैष्णवः ॥
नारीणां शतरूपा च बहुरूप नमाम्यहम् ॥ ४१ ॥
ऋतूनां यो वसन्तश्च मासानां मार्गशीर्षकः ।
एकादशी तिथीनां च नमाम्यखिलरूपिणम् ॥ ४२ ॥
सागरः सरितां यश्च पर्वतानां हिमालय ।
वसुंधरा सहिष्णूनां तं सर्वं प्रणमाम्यहम् ॥ ४३ ॥
पत्राणां तुलसीपत्रं दारुरूपेषु चन्दनम् ।
वृक्षाणां कल्पवृक्षो यस्तं नमामि जगत्पतिम् ॥ ४४ ॥
पुष्पाणां पारिजातश्च सस्यानां धान्यमेव च ।
अमृत भक्ष्यवस्तूनां नानारूपं नमाम्यहम् ॥ ४५ ॥
ऐरावतो गजेन्द्राणां वैनतेयश्च पक्षिणाम् ।
कामधेनुश्च धेनूनां सर्वरूपं नमाम्यहम् ॥ ४६ ॥
तैजसानां सुवर्णं च धान्यानां यव एव च ।
यः केसरी पशूनां च वररूपं नमाम्यहम् ॥ ४७ ॥
यक्षाणां च कुबेरो यो ग्रहाणां च बृहस्पतिः ।
दिक्पालानां महेन्द्रश्च तं नमामि परं वरम् ॥ ४८ ॥
वेदसंघश्च शास्त्राणां पण्डितानां सरस्वती ।
अक्षराणामकारो यस्तं प्रधानं नमाम्यहम् ॥ ४९ ॥
मन्त्राणां विष्णुमन्त्रश्च तीर्थानां जाह्नवी स्वयम् ।
इन्द्रियाणां मनो यो हि सर्वश्रेष्ठं नमाम्यहम् ॥ ५० ॥
सुदर्शनं च शस्त्राणां व्याधीनां वैष्णवो ज्वरः ।
तेजसां ब्रह्मतेजश्च वरेण्यं तं नमाम्यहम् ॥ ५१ ॥
बलं यो वै बलवतां मनो वै शीघ्रगामिनाम् ।
कालः कलयतां यो हि तं नमामि विचक्षणम् ॥ ५२ ॥
ज्ञानदाता गुरूणां च मातृरूपश्च बन्धुषु ।
मित्रेषु जन्मदाता यस्तं सारं प्रणमाम्यहम् ॥ ५३ ॥
शिल्पिनां विश्वकर्मा यः कामदेवश्च रूपिणाम् ।
पतिव्रता च पत्नीनां नमस्यं तं नमाम्यहम् ॥ ५४ ॥
प्रियेषु पुत्ररूपो यो नृपरूपो नरेषु च ।
शालग्रामश्च यन्त्राणां तं विशिष्टं नमाम्यहम् ॥ ५५ ॥
धर्मः कल्याणबीजानां वेदानां सामवेदकः ।
धर्माणां सत्यरूपो यो विशिष्टं तं नमाम्यहम् ॥ ५६ ॥
जले शैत्यस्वरूपो यो गन्धरूपश्च भूमिषु ।
शब्दरूपश्च गगने तं प्रणम्ये नमाम्यहम् ॥ ५७ ॥
क्रतूनां राजसूयो यो गायत्री छन्दसां च यः ।
गन्धर्वाणां चित्ररथस्तं गरिष्ठं नमाम्यहम् ॥ ५८ ॥
क्षीरस्वरूपो गव्यानां पवित्राणां च पावकः ।
पुण्यदानां च यः स्तोत्रं तं नमामि शुभप्रदम् ॥ ५९ ॥
तृणानां कुशरूपो यो व्याधिरूपश्च वैरिणाम् ।
गुणानां शान्तरूपो यश्चित्ररूपं नमाम्यहम् ॥ ६० ॥
तेजोरूपो ज्ञानरूपः सर्वरूपश्च यो महान् ।
सर्वानिर्वचनीयं च तं नमामि स्वयं विभुम् ॥ ६१ ॥
सर्वाधारेषु यो वायुर्यथाऽऽत्मा नित्यरूपिणाम् ।
आकाशो व्यापकानां यो व्यापकं तं नमाम्यहम् ॥ ६२ ॥
वेदानिवर्चनीयं यं न स्तोतुं पण्डितः क्षमः ।
यदनिर्वचनोयं च को वा तत्स्तोतुमीश्वरः ॥ ६३ ॥
वेदा न शक्ता यं स्तोतुं जडीभूता सरस्वती ।
तं च वाङ्त्मनसोः पारं को विद्वान्स्तोतुमीश्वरः ॥ ६४ ॥
शुद्धतेजः स्वरूपं च भक्तानुग्रहविग्रहम् ।
अतीव कमनीयं च श्यामरूपं नमाम्यहम् ॥ ६५ ॥
द्विभुजं मुरलीवक्त्रं किशोरं सस्मितं मुदा ।
शश्वद्गोपाङ्गनाभिश्च वक्ष्यमाणं नमाम्यहम् ॥ ६६ ॥
राधया दत्तताम्बूलं भुक्तवन्तं मनोहरम् ।
रत्नसिंहानस्थं च तमीशं प्रणमाम्यहम् ॥ ६७ ॥
रत्नभूषणभूषाढ्यं सेवितं श्वेतचामरैः ।
पार्षदप्रवरैर्गोपकुमारैस्तं नमाम्यहम् ॥ ६८ ॥
वृन्दावनान्तरे रम्ये रासोल्लाससमुत्सुकम् ।
रासमण्डलमध्यस्थं नमामि रसिकेश्वरम् ॥ ६९ ॥
शतशृङ्गे महाशैले गोलोके रत्नपर्वते ।
विरजापुलिने रम्ये प्रणमामि विहारिणम् ॥ ७० ॥
परिपूर्णतमं शान्तं राधाकान्तं मनोहरम् ।
सत्यं ब्रह्मस्वरूपं च नित्यं कृष्णं नमाम्यहम् ॥ ७१ ॥
श्रीकृष्णस्य स्तोत्रमिदं त्रिसंध्यं यः पठेन्नरः ।
धर्मार्थकाममोक्षाणां स दाता भारते भवेत् ॥ ७२ ॥
हरिदास्य हरौ भक्तिं लभेत्स्तोत्रप्रसादतः ।
इह लोके जगत्पूज्यो विष्णुतुल्यो भवेद्धृवम् ॥ ७३ ॥
सर्वसिद्धेश्वरः शान्तोऽप्यन्ते याति हरेः पदम् ।
तेजसा यशसा भाति यथा सूर्यो महीतले ॥ ७४ ॥
जीवन्मुक्तः कृष्णभक्तः स भवेन्नात्र संशयः ।
अरोगी गुणवान्विद्वान्पुत्रवान्धनवात्सदा ॥ ७५ ॥
षडभिज्ञो दशबलो मनोयायी भवेद्ध्रुवम् ।
सर्वज्ञः सर्वदश्चैव स दाता सर्वसंपदाम् ॥ ७६ ॥
कल्पवृक्षसमः शश्वद्भवेत्कृष्णप्रसादतः ।
इत्येवं कथितं स्तोत्रं वत्स त्वं गच्छ पुष्करम् ॥ ७७ ॥
तत्र कृत्वा मन्त्रसिद्धिं पश्चात्प्राप्स्यसि वाञ्छितम् ।
त्रिःसप्तकृत्वो निर्भूपां कुरु पृथ्वीं यथासुखम् ।
ममाऽऽशिषा मुनिश्रेष्ठ श्रीकृष्णस्य प्रसादतः ॥ ७८ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे स्तवप्रदानं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥
GO TOP
|