ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - सप्तदशोध्यायः

कुमारगणेशविवाहकुमाराभिषेककथनम् -


नारायण उवाच
अथ विष्णुर्जगत्कान्तो हृष्टः कृत्वा शुभेक्षणम् ।
रत्‍नसिंहासने रम्ये वासयामास षण्मुखम् ॥ १ ॥
नानाविधानि वाद्यानि कांस्यतालादिकानि च ।
नानाविधानि यन्त्राणि वादयामास कौतुकात् ॥ २ ॥
वेदमन्त्राभिषिक्तैश्च सर्वतीर्थोदपूर्णकैः ।
सद्‌रत्‍नकुम्भशतकैः स्नापयामास तं मुदा ॥ ३ ॥
सद्‌रत्‍नसारखचितं किरीटं मङ्‌गलाङ्‌गदे ।
अमूल्यरत्‍नखचितभूषणानि बहूनि च ॥ ४ ॥
वह्निशुद्धांशुके दिव्ये क्षीरोदार्णवसंभवम् ।
कौस्तुभं वनमालां च तस्मै चक्रं ददौ मुदा ॥ ५ ॥
ब्रह्मा ददौ यज्ञसूत्रं वेदा वै वेदमातरम् ।
संध्यामन्त्रं कृष्णमन्त्रं स्तोत्रं च कवचं हरेः ॥ ६ ॥
कमण्डलुं च ब्रह्मास्त्रं विद्यां वै वैरिमर्दिनीम् ।
धर्मो धर्ममतिं दिव्यां सर्वजीवे दयां ददौ ॥ ७ ॥
परं मृत्युंजयं ज्ञानं सर्वशास्त्रावबोधनम् ।
शश्वत्सुखप्रदं तत्त्वज्ञानं च सुमनोहरम् ॥ ८ ॥
योगतत्त्वं सिद्धितत्त्वं ब्रह्मज्ञानं सुदुर्लभम् ।
शूलं पिनाकं परशुं शक्तिं पाशुपतं धनुः ॥ ९ ॥
संहारास्त्रविनिक्षेपं तत्संहारं ददौ शिवः ।
श्वेतच्छत्रं रत्‍नमालां ददौ तस्मै जलेश्वरः ॥ १० ॥
गजेन्द्रं च हयेन्द्र च सुधाकुम्भं सुधानिधिः ।
मनोयायिरथं सूर्यः संनाहं च मनोरमम् ॥ ११ ॥
यमदण्डं यमश्चैव महाशक्तिं हुताशनः ।
नानाशस्त्राण्युपायानि सर्वे देवा ददुर्मुदा ॥ १२ ॥
कामशास्त्रं कामदेवो ददौ तस्मै मुदाऽन्वितः ।
क्षीरोदोऽमूल्यरत्‍नानि विशिष्टे रत्‍ननूपुरे ॥ १३ ॥
सावित्री सिद्धिविद्यां च सर्वास्ताः कौतुकाद्‌ददुः ।
हिमालयो मयूरं च वाहनार्थं च मूकुटम् ॥ १४ ॥
लक्ष्मीश्च परमैश्वर्यं भारती हारमुत्तमम् ।
पार्वती सस्मिता हृष्टा परमानन्दमानसा ॥ १५ ॥
महाविद्या सुशीलां च विद्यां मेधां दयां स्मृतिम् ।
बुद्धिं सुनिर्मला शान्तिं तुष्टिं पुष्टिं क्षमां धृतिम् ॥ १६ ॥
सुदृढां च हरौ भक्तिं हरिदास्यं ददौ मुदा ।
प्रजापतिर्देवसेनां रत्‍नभूषणभूषिताम् ॥ १७ ॥
सुविनीतां सुशीलां च सुन्दरीं सुमनोहराम् ।
ददौ तस्मै वेदमन्त्रैर्विवाहविधिना स्वयम् ॥ १८ ॥
यां वदन्ति महाषष्ठीं पण्डिताः शिशुपालिकाम् ।
अभिषिच्य कुमारं च सर्वे देवा ययुर्गृहम् ॥ १९ ॥
मुनयश्चैव गन्धर्वाः प्रणम्य जगदीश्वरान् ।
नारायणं च ब्रह्माणं धर्मं तुष्टाव शंकरः ॥ २० ॥
प्रणनाम हरिं तात धर्ममालिङ्‌ग्य नारद ।
प्रीत्या ययौ च शैलेन्द्रः सगणः शकरार्चितः ॥ २१ ॥
ये ये तत्राऽऽगताः सर्वे ययुरानन्दपूर्वकम् ।
परमानन्दसंयुक्तो देव्या सह महेश्वरः ॥ २२ ॥
कालान्तरे च तान्सर्वान्पुनरानीय शंकरः ।
पुष्टिं ददौ विवाहेन गणेशाय महात्मने ॥ २३ ॥
सुताभ्यां सगणैः सार्धं पार्वती हृष्टमानसा ।
सिषेवे स्वामिनः पादपद्मं सा सर्वकामदम् ॥ २४ ॥
इत्येवं कथितं सर्वं कुमारस्याभिषेचनम् ।
विवाहः पूजनं तस्य गणेशस्य विवाहकम् ॥ २५ ॥
पार्वतीपुत्रलाभश्च देवानां च समागमः ।
का ते मनसि वाच्छाऽस्ति किं भूयः श्रोतुमिच्छसि ॥ २६ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे नारदनारायणसंवादे
कुमारगणेशविवाहकुमाराभिषेककथनं नाम सप्तदशोऽध्यायः ॥ १७ ॥


GO TOP