ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - षोडशोऽध्यायः

कार्तिकेयागमनम् -


नारायण उवाच
इत्येवमुक्त्वा तं शीघ्रं बोधयित्वा च कृत्तिकाः ।
उवाच नीतियुस्त च वचनं शंकरात्मजः ॥ १ ॥
कार्तिकेय उवाच
यास्यामि शंकरस्थानं द्रक्ष्यामि सुरसंचयम् ।
मातरं बन्धुवर्गांश्चाप्याऽऽज्ञा मे दत्त मातरः ॥ २ ॥
दैवाधीनं जगत्सर्वं जन्म कर्म शुभाशुभम् ।
संयोगश्च वियोगश्च न च दैवात्परं बलम् ॥ ३ ॥
कृष्णायत्तं च तद्‌दैवं स च दैवात्परस्ततः ।
भजन्ति सततं सन्तः परमात्मनमीश्वरम् ॥ ४ ॥
दैवं वर्धयितुं शक्तः क्षयं कतु स्वलीलया ।
न दैवबद्धस्तद्‌भक्तश्चाविनाशीति निर्णयः ॥ ५ ॥
तस्माद्‌भजत गोविन्दं मोहं त्यजत दुःखदम् ।
सुखदं मोक्षदं सारं जन्ममृत्युभयापहम् ॥ ६ ॥
परमानन्दजनकं मोहजालनिकृन्तनम् ।
शश्वद्‌भजन्ति यत्सर्वे ब्रह्मविष्णुशिवादयः ॥ ७ ॥
कोऽहं भवाब्धौ युष्माकं का वा यूयं ममाम्बिका ।
तत्कर्मस्रोतसां सर्वं पुञ्जीभूतं च फेनवत् ॥ ८ ॥
संश्लेषं वा वियोगं वा सर्वमीश्वरचिन्तया ।
ब्रह्माण्डमीश्वराधीनं न स्वतन्त्रं विदुर्बुधाः ॥ ९ ॥
जलबुद्‌बुदवत्सर्वमनित्यं च जगत्‌त्रयम् ।
मायामनित्ये कुर्वन्ति मायया मूढचेतसः ॥ १० ॥
सन्तस्तत्र न लिप्यन्ते वायुवत्कृष्णचेतसः ।
तस्मान्मोहं परित्यज्य चाऽज्ञप्तिं दत्त मातरः ॥ ११ ॥
इत्येवमुक्त्वा ता नत्वा सार्धं शंकरपार्षदैः ।
यात्रां चकार भगवान्मनसा श्रीहरिं स्मरन् ॥ १२ ॥
एतस्मिन्नन्तरे तत्र ददर्श रथमुत्तमम् ।
विश्वकर्मकृतं रम्यं हीरकेण विराजितम् ॥ १३ ॥
सद्‌रत्‍नसाररचितं माणिक्येन विराजितम् ।
पारिजातप्रसूनानां मालाजालैश्च शोभितम् ॥ १४ ॥
मणीन्द्रदर्पणैः श्वेतचामरैरतिदीपितम् ।
क्रीडार्हमन्दिरैरम्यैश्चित्रितैश्चित्रितं वरम् ॥ १५ ॥
शतचक्रं सुविस्तीर्णं मनोयायि मनोहरम् ।
प्रस्थापितं च पार्वत्या वेष्टितं पार्षदैर्वरैः ॥ १६ ॥
तमारुहन्तं यानं ता हृदयेन विदूयता ।
सहसा चेतनां प्राप्य मुक्तकेश्यः शुचाऽऽतुराः ॥ १७ ॥
दृष्ट्‍वा च स्वपुरः स्कन्दं स्तम्भिताश्चातिशोकतः ।
उन्मत्ता इव तत्रैव वक्तुमारेभिरे भिया ॥ १८ ॥
कृत्तिका ऊचुः
किं कुर्मः क्व च यास्यामो वयं वत्स त्वदाश्रयाः ।
विहायास्मान् क्व यासित्वं नायं धर्मस्तवाधुना ॥ १९ ॥
स्नेहेन वर्धितोऽस्माभिः पुत्रोऽस्माकं स्वधर्मतः ।
नायं धर्मो मातृवर्गाननुरक्तः सुतस्त्यजेत् ॥ २० ॥
इत्युक्त्वा कृत्तिकाः सर्वाः कृत्वा वक्षसि तं सुतम् ।
पुनर्मुच्छामवापुस्ताः सुतविच्छेददारुणम् ॥ २१ ॥
कुमारो बोधयित्वा ता अध्यात्मवचनेन वै ।
ताभिश्च पार्षदैः सार्धमारुरोह रथं मुने ॥ २२ ॥
पूर्णकुम्भं द्विजं वेश्यां शुक्लधान्यानि दर्पणम् ।
दध्याज्यं मधु लाजांश्च पुष्पं दूर्वाक्षतान्सितान् ॥ २३ ॥
वृषं गजेन्द्रं तुरगं ज्वलदग्निं सुवर्णकम् ।
पूर्णं च परिपक्वानि फलानि विविधानि च ॥ २४ ॥
पतिपुत्रवतीं नारीं प्रदीपं मणिमुत्तमम् ।
मुक्तां प्रसूनमालां च सद्योमांसं च चन्दनम् ॥ २५ ॥
ददर्शेतानि वस्तूनि मङ्‌गलानि पुरो मुने ।
शृगालं नकुलं कुम्भं शवं वामे शुभावहम् ॥ २६ ॥
राजहंसं मयूरं च खञ्जनं च शकं पिकम् ।
पारावतं शङ्‍खचिल्लं चक्रवाकं च मङ्‌गलम् ॥ २७ ॥
कृष्णसारं च सुरभिं चमरीं श्वेतचामरम् ।
धेनुं च वत्ससंयुक्तां पताकां दक्षिणे शुभाम् ॥ २८ ॥
नानाप्रकारवाद्यं चाप्यश्रौषीन्मङ्‌गलध्वनिम् ।
मनोहरं च संगीतं घण्टाशङ्‌खध्वनिं तथा ॥ २९ ॥
दृष्ट्‍वा श्रुत्वा मङ्‌गलं स ह्यगमत्तातमन्दिरम् ।
क्षणेनाऽऽनन्दयुक्तश्च मनोयायिरथेन च ॥ ३ ० ॥
कुमारः प्राप्य कैलासं न्यग्रोधाक्षयमूलके ।
क्षणं तस्थौ कृत्तिकाभिः पार्षदप्रवरैः सह ॥ ३१ ॥
पार्वती मङ्‌गलं कृत्वा राजमार्गं मनोहरम् ।
पद्मरागैरिन्द्रनीलैः संस्कृतं परितः पुरम् ॥ ३२ ॥
रम्भास्तम्भसमूहैश्च पट्टसूत्रांशुकैस्तथा ।
श्रीखण्डपल्लवैर्युक्तं पूर्णकुम्भैः सुशोभितम् ॥ ३३ ॥
पूर्णकुम्भजलैर्व्याप्त सिक्तं चन्दनवारिभिः ।
असंख्यरत्‍नदीपैश्च मणिराजैर्विराजितम् ॥ ३४ ॥
नटनर्तकवेश्यानामुत्सवैः संकुलं सदा ।
वन्दिभिर्विप्रवर्गैश्च दूर्वापुष्पकरैर्युतम् ॥ ३५ ॥
पतिपुत्रवतीभिश्च साध्वीभिश्च समन्वितम् ।
लक्ष्मीं सरस्वतीं गङ्‌गां सावित्रीं तुलसीं रतिम् ॥ ३६ ॥
अरुन्धतीमहल्या च दितिं तारां मनोरमाम् ।
अदितिं शतरूपां च शचीं संध्यां च रोहिणीम् ॥ ३७ ॥
अनसूयां तथा स्वाहां संज्ञां वरुणकामिनीम् ।
आकूतिं च प्रसूतिं च देवहूतिं च मेनकाम् ॥ ३८ ॥
तामेकपाटलामेकपर्णां मैनाककामिनीम् ।
वसुंधरां च मनसां पुरस्कृत्य समाययौ ॥ ३९ ॥
रम्भा तिलोत्तमा मेना घृताची मोहिनी शुभा ।
उर्वशी रत्‍नमाला च सुशीला ललिता कला ॥ ४० ॥
कदम्बमाला सुरसा वनमाला च सुन्दरी ।
एताश्चान्याश्च बहवो विप्रेन्द्राप्सरसां गणाः ॥ ४१ ॥
संगीतनर्तनपराः सस्मिता वेषसंयुताः ।
करतालकराः सर्वा जग्मुरानन्दपूर्वकम् ॥ ४२ ॥
देवाश्च मुनयः शैला गन्धर्वाः किन्नरास्तथा ।
सर्वे ययुः प्रमुदिताः कुमारस्यानुमज्जने ॥ ४३ ॥
नानाप्रकारवाद्यैश्च रुद्रैर्वा पार्षदैः सह ।
भैरवैः क्षेत्रपालैश्च ययौ सार्धं महेश्वरः ॥ ४४ ॥
अथ शक्तिधरो हृष्टो दृष्ट्‍वाऽऽरात्पार्वतीं तदा ।
अवरुह्य रथात्तूर्णं शिरसा प्रणनाम ह ॥ ४५ ॥
तं पद्माप्रमुखं देवीगण च मुनिकामिनीः ।
शिवं च परया भक्त्या सर्वात्संभाष्य यत्‍नतः ॥ ४६ ॥
कार्तिकेयं शिवा दृष्ट्‍वा क्रोडे कृत्वाचुचुम्ब च ।
शंकरश्च सुराः शैला देव्यो वै शैलयोषितः ॥ ४७ ॥
पार्वतीप्रमुखा देव्यस्तथा देवश्च शंकरः ।
शैलाश्च मुनयः सर्वे ददुस्तस्मै शुभाशिषः ॥ ४८ ॥
कुमारः सगणैः सार्धमागत्य च शिवालयम् ।
ददर्श तं सभामध्ये विष्णुं क्षीरोदशायिनम् ॥ ४९ ॥
रत्‍नसिंहासनस्थं च रत्‍नभूषणभूषितम् ।
धर्मब्रह्मेन्द्रचन्द्रार्कवह्निवाय्वादिभिर्युतम् ॥ ५० ॥
ईषद्धास्यं प्रसन्नास्यं भक्तानुग्रहकारकम् ।
स्तुतं मुनीन्द्रैर्देवेन्द्रैः सेवितं श्वेतचामरैः ॥ ५१ ॥
तं दृष्ट्‍वा जगतां नाथं भक्तिनम्रात्मकंधरः ।
पुलकान्वितसर्वाङ्‌गः शिरसा प्रणनाम ह ॥ ५२ ॥
विधिं धर्मं च देवांश्च मुनीन्द्रांश्च मुदाऽन्वितान् ।
प्रणनाम पृथक्तत्र प्राप तेभ्यः शुभाशिषः ॥ ५३ ॥
पृथक्संभाष्य सर्वांश्चाप्युवास कनकासने ।
ददौ धनानि विप्रेभ्यः पार्वत्या सह शंकरः ॥ ५४ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे कार्तिकेयागमनं नामषोडशोऽध्यायः ॥ १६ ॥


GO TOP