ब्रह्मवैवर्तपुराणम्
तृतीयं गणपतिखण्डम् - पञ्चदशोऽध्यायः
नन्दिकार्तिकेयसंवादः -
नारायण उवाच
पुत्रस्य वार्तां संप्राप्य पार्वत्या सह शंकरः ।
प्रेरितो विष्णुना देवैर्मुनिभिः पर्वतैर्मुने ॥ १ ॥
दूतान्प्रस्थापयामास महाबलपराक्रमान् ।
वीरभद्रं विशालाक्षं शङ्कुकर्णं कबन्धकम् ॥ २ ॥
नन्दीश्वरं महाकालं वज्रदन्तं भगन्दरम् ।
गोधामुखं दधिमुखं ज्वलदग्निशिखोपमम् ॥ ३ ॥
लक्षं च क्षेत्रपालानां भूतानां च त्रिलक्षकम् ।
वेतालानां चतुर्लक्षं यक्षाणां पञ्चलक्षकम् ॥ ४ ॥
कूष्माण्डानां चतुर्लक्षं त्रिलक्षं ब्रह्मरक्षसाम् ।
डाकिनीनां चतुर्लक्षं योगिनीनां त्रिलक्षकम् ॥ ५ ॥
रुद्रांश्च भैरवांश्चैव शिवतुल्यपराक्रमान् ।
अन्यांश्च विकृताकारानसंख्यानपि नारद ॥ ६ ॥
ते सर्वे शिवदूताश्च नानाशस्त्रास्त्रपाणयः ।
कृत्तिकानां च भवनं वेष्टयामासुरुज्ज्वलम् ॥ ७ ॥
दृष्ट्वा तान्कृत्तिकाः सर्वाः भयविह्वलमानसाः ।
कार्तिकं कथयामासुर्ज्वलन्तं ब्रह्मतेजसा ॥ ८ ॥
कृत्तिका ऊचुः
वत्स सैन्यान्यसंख्यानि वेष्टयामासुरालयम् ।
न जानीमो वयं कस्य करालानि च बालक ॥ ९ ॥
कार्तिकेय उवाच
भयं त्यजत कल्याण्यो भयं किं वो मयि स्थिते ।
दुनिवार्यः कर्मपाको मातरः केन वार्यते ॥ १० ॥
एतस्मिन्नन्तरे तत्र सेनानीर्नन्दिकेश्वरः ।
पुरतः कार्तिकेयस्य तिष्ठंस्तासामुवाच ह ॥ ११ ॥
नन्दिकेश्वर उवाच
भ्रातः प्रवृत्तिं शृणु मे मातुश्चपि शुभावहम् ।
प्रेषितस्य सुरेन्द्रस्य संहर्तुः शंकरस्य च ॥ १२ ॥
कैलासे सर्वदेवाश्च ब्रह्मविष्णुशिवादयः ।
सभायां ते वसन्तश्च गणेशोत्सवमङ्गले ॥ १ ३ ॥
शैलेप्रन्द्रकन्या तं विष्णुं जगतां परिपालकम् ।
संबोध्य कथयामास तवान्वेषणकारणम् ॥ १४ ॥
पप्रच्छ देवान्विष्णुस्तान्क्रमेणाऽऽवाप्तिहेतवे ।
प्रत्युत्तरं ददुस्ते तु प्रत्येकं च यथोचितम् ॥ १५ ॥
त्वमत्र कृत्तिकास्थाने कथयामासुरीश्वरम् ।
सर्वे धर्मादयो देवा धर्माधर्मस्य साक्षिणः ॥ १६ ॥
या बभूव रहः क्रीडा पार्वतीशिवयोः पुरा ।
दृष्टस्य च सुरैः शंभोर्वीर्यं भूमौ पपात ह ॥ १७ ॥
भूमिस्तदक्षिपद्वह्नौ वह्निश्च शरकानने ।
ततो लब्धः कृत्तिकाभिरमूभिर्गच्छ सांप्रतम् ॥ १८ ॥
तवाभिषेकं विष्णुश्च करिष्यति सुरैः सह ।
शस्त्रं लब्ध्वाऽखिलं देव तारकं संहनिष्यसि ॥ १९ ॥
पुत्रस्त्वं विश्वसंहर्तुस्त्वां गोप्तुं न क्षमा इमाः ।
नाग्निं गोप्तुं यथा शक्तः शुष्कवृक्षः स्वकोटरे ॥ २० ॥
दीप्तिमांस्त्वं च विश्वेषु तासां गेहे न शोभसे ।
यथा पतन्महाकूपे द्विजराजो न राजते ॥ २ १ ॥
करोषि जगदालोकं नाच्छन्नोऽस्यङ्गतेजसा ।
यथा सूर्यः कराच्छन्नो न भवेत्पूरुषस्य च ॥ २२ ॥
विष्णस्त्वं च जगद्व्यापी नाऽऽसां व्याप्योऽसि शांभव ।
यथा न केषां व्याप्यं च तत्सर्वं व्यापकं नभः ॥ २३ ॥
योगीन्द्रो नानलिप्तस्त्वं भोगी च परिपोषणं ।
नैव लिप्तो यथाऽऽत्मा च कर्मभोगेषु जीविनाम् ॥ २४ ॥
विश्वाधारस्त्वमीशश्च नामृते संभवेत्स्थितिः ।
सागरस्य यथा नद्यां सरितामाश्रयस्य च ॥ २५ ॥
नहि सर्वेश्वरावासः संभवेत्कृत्तिकालये ।
गरुडस्य यथा वासः क्षुद्रे च चटकोदरे ॥ २६ ॥
त्वां च देवा न जानन्ति भक्तानुग्रहविग्रहम् ।
गुणानां तेजसां राशिं यथाऽऽत्मानमयोगिनः ॥ २७ ॥
त्वामनिर्वचनीयं च कथं जानन्ति कृत्तिकाः ।
यथा परां हरेर्भक्तिमभक्ता मूढचेतसः ॥ २८ ॥
भ्रातर्ये यं न जानन्ति ते तं कुर्वन्त्यनादरम् ।
नाऽऽद्रियन्ते यथा भेकास्त्वेकावासं च पङ्कजम् ॥ २९ ॥
कार्तिकेय उवाच
मातः सर्वं विजानामि ज्ञानं त्रैकालिकं च यत् ।
ज्ञानी त्वं का प्रशंसा ते यतो मृत्युंजयाश्रितः ॥ ३० ॥
कर्मणा जन्म येषां वा यासु यासु च योनिषु ।
तासु ते निर्वृ ति भ्रातर्नाऽऽप्नुवन्ति च संततम् ॥ ३१ ॥
ये यत्र सन्ति सन्तो वा मूढा वा कर्मभोगतः ।
तेऽपि तं बहु मन्यन्ते मोहिता विष्णुमायया ॥ ३२ ॥
सांप्रतं जगतां माता विष्णुमाया सनातनी ।
सर्वाद्या सर्वरूपा च सर्वदा सर्वमङ्गला ॥ ३३ ॥
शैलेन्द्रपत्नी गर्भे सा चालभज्जन्म भारते ।
दारुणं च तपस्तप्त्वा संप्राप च्छंकरं पतिम् ॥ ३४ ॥
ब्रह्मादितृणपर्यन्तं सर्वं मिथ्यैव कृत्रिमम् ।
सर्वे कृष्णोद्भवाः काले विलीनास्तत्र केवलम् ॥ ३५ ॥
कल्पे कल्पे जगन्माता माता मे प्रतिजन्मनि ।
यज्जन्ममायया बद्धो नित्यः सृष्टिविधावहम् ॥ ३६ ॥
प्रकृतेरुद्भवाः सर्वा जगत्यां सर्वयोषितः ।
काश्चिदंशाः कलाः काश्चित्कलाशांशेन काश्चन ॥ ३७ ॥
कृत्तिका ज्ञानवत्यश्च योगिन्यः प्रकृतेः कलाः ।
स्तन्येनाऽऽभिर्वर्धितोऽहमुपहारेण संततम् ॥ ३८ ॥
तासामहं पोष्यपुत्रो मदम्बाः पोषणादिमाः ।
तस्याश्च प्रकृतेः पुत्रो गतस्त्वक्त्यामिवीर्यतः ॥ ३९ ॥
न गर्भजोऽहं शैलेन्द्रकन्याया नन्दिकेश्वर ।
सा च मे धर्मतो माता तथेमा सर्वसंमताः ॥ ४० ॥
स्तनदात्री गर्भधात्री भक्ष्यदात्री गुरुप्रिया ।
अभीष्टदेवपत्नी च पितुः पत्नी च कन्यकाः ॥ ४१ ॥
सगर्भकन्या भगिनी पुत्रपत्नी प्रियाप्रसूः ।
मातुर्माता पितुर्माता सोदरस्य प्रिया तथा ॥ ४२ ॥
मातुः पितुश्च भगिनी मातुलानी तथैव च ।
जनानां वेदविहिता मातरः षोडश स्मृताः ॥ ४३ ॥
इमाश्च सर्वसिद्धिज्ञाः परमैश्वर्यसंयुताः ।
न क्षुद्रा ब्रह्मणः कन्यास्त्रिषु लोकेषु पूजिताः ॥ ४४ ॥
विष्णुना प्रेरितस्त्वं च शंभोः पुत्रसमो महान् ।
गच्छ यामि त्वया सार्धं द्रक्ष्यामि सुरसंचयम् ॥ ४५ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे नारदनारायणसंवादे
नन्दिकार्तिकेयसंवादो नाम पञ्चदशोऽध्यायः ॥ १५ ॥
GO TOP
|