ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - द्वादशोऽध्यायः

शनिकृतगणेशदर्शनतज्जातगणेशशिरःपतनविष्णुकृत-
गणेशशिरोयोजनशनिशापादिकथनम् -


नारायण उवाच
दुर्गा तद्वचनं श्रुत्वा सस्मार हरिमीश्वरम् ।
ईश्वरेच्छावशीभूतं जगदेवेत्युवाच ह ॥ १ ॥
सा च देवी दैववशात् शनिं प्रोवाच कौतुकात् ।
पश्य मां मच्छिशुमिति निषेकः केन वार्यते ॥ २ ॥
पार्वत्या वचनं श्रुत्वा शनिर्मेने हृदा स्वयम् ।
पश्यामि किं न पश्यामि पार्वतीसुतमित्यहो ॥ ३ ॥
यदि बालो मया दृष्टस्तस्य विघ्नो भवेद् ध्रुवम् ।
अन्यथा सुप्रशस्तं च पुरतः स्वात्मरक्षणम् ॥ ४ ॥
इत्येवमुक्त्वा धर्मिष्ठो धर्मं कृत्वा तु साक्षिणम् ।
बालं द्रष्टुं मनश्चक्रे न तु तन्मातरं शनिः ॥ ५ ॥
विषष्णमानसः पूर्वं शुष्ककण्ठौष्ठतालुकः ।
सव्यलोचनकोणेन ददर्श च शिशोर्मुखम् ॥ ६ ॥
शनेश्च दृष्टिमात्रेण चिच्छिदे मस्तकं मुने ।
चक्षुर्निमीलयामास तस्थौ नम्राननः शनिः ॥ ७ ॥
तस्थौ च पार्वतीक्रोडे तत्सर्वाङ्‌गं सलोहितम् ।
विवेश मस्तकं कृष्णे गत्वा गोलोकमीप्सितम् ॥ ८ ॥
मूर्च्छां संप्राप सा देवी विलप्य च भृशं मुहुः ।
मृतेव च पृथिव्यां तु कृत्वा वक्षसि बालकम् ॥ ९ ॥
विस्मितास्ते' सुराः सर्वे चित्रपुत्तलिका यथा ।
देव्यश्च शैला गन्धर्वाः सर्वे कैलासवासिनः ॥ १ ० ॥
तात्सर्वान्मूर्च्छितान्दृष्ट्‍वैवाऽऽरुह्य गरुडं हरिः ।
जगाम पुष्पभद्रां स चोत्तरस्यां दिशि स्थिताम् ॥ ११ ॥
पुष्पभद्रानदीतीरे ह्यपश्यत्कानने स्थितम् ।
गजेन्द्रं निद्रितं तत्र शयानं हस्तिनीयुतम् ॥ १२ ॥
तयोदक्छिरसं रम्यं मूर्च्छितं सुरतश्रमात् ।
परितः शावकान्कृत्वा परमानन्दमानसम् ॥ १३ ॥
शीघ्रं सुदर्शनेनैव चिच्छिदे तच्छिरो मुदा ।
स्थापयामास गरुडे रुधिराक्तं मनोहरम् ॥ १४ ॥
गजच्छिन्नाङ्‌गविक्षेपात्प्रबोधं प्राप्य हस्तिनी ।
शावकान्बोधयामास चाशुभं वदती तदा ॥ १५ ॥
रुरोद शावकैः सार्धं सा विलप्य शुचाऽऽतुरा ।
तुष्टाव कमलाकान्तं शान्तं सस्मितमीश्वरम् ॥ १६ ॥
शङ्‌खचक्रगदापद्मधरं पीताम्बरं परम् ।
गरुडस्थं जगत्कान्तं भ्रामयन्तं सुदर्शनम् ॥ १७ ॥
निषेकं खण्डितुं शक्तं निषेकजनकं विभुम् ।
निषेकभोगदातारं भोगनिस्तारकारणम् ॥ १८ ॥
प्रभुस्तत्स्तवनात्तुष्टस्तस्यै विप्र वरं ददौ ।
मुण्डात्तुण्डं पृथक्कृत्य युयुजेऽन्यगजस्य च ॥ १९ ॥
जीवयामास तं तत्र ब्रह्मज्ञानेन सर्ववित् ।
सर्वाङ्‌गे योजयामास गजस्य चरणाम्बुजम् ॥ २० ॥
त्वं जीवाऽकल्पपर्यन्तं परिवारैः समं गज ।
इत्युक्त्वा च मनोयायी कैलासं ह्याजगाम सः ॥ २१ ॥
आहृत्य पार्वतीहस्ताद्‌बालं कृत्वा स्ववक्षसि ।
रुचिरं तच्छिरः सम्यग्योजयामास बालके ॥ २२ ॥
ब्रह्मस्वरूपो भगवान्ब्रह्मज्ञानेन लीलया ।
जीवयामास तं शीघ्रं हुकारोच्चारणेन च ॥ २३ ॥
पार्वतीं बोधयित्वा तु कृत्वा क्रोडे च तं शिशुम् ।
बोधयामास तां कृष्ण आध्यात्मिकविबोधनैः ॥ २४ ॥
विष्णुरुवाच
ब्रह्मादिकीटपर्यन्त फलं भुङ्‍क्ते स्वकर्मणः ।
जगद्‌बुद्धिस्वरूपाऽसि त्वं न जानासि किं शिवे ॥ २५ ॥
कल्पकोटिशतं भोगी जीविना तत्स्वकर्मणा ।
उपस्थितो भवेन्नित्यं प्रतियोनौ शुभाशुभः ॥ २६ ॥
इन्द्रः स्वकर्मणा कीटयोनौ जन्म लभेत्सति ।
कीटश्चापि भवेदिन्द्रः पूर्वकर्मफलेन वै ॥ २७ ॥
सिंहोऽपि मक्षिकां हन्तुमक्षमः प्राक्तनं विना ।
मशको हस्तिनं हन्तुं क्षमः स्वप्राक्तनेन च ॥ २८ ॥
सुखं दुःखं भयं शोकमानन्दं कर्मणः फलम् ।
सुकर्मणः सुखं हर्षमितरे पापकर्मणः ॥ २९ ॥
इहैव कर्मणो भोगः परत्र च शुभाशुभः ।
कर्मोपार्जनयोग्यं च पुण्यक्षेत्रं च भारतम् ॥ ३० ॥
कर्मणः फलदाता च विधाता च विधेरपि ।
मृत्योर्मृत्युः कालकालो निषेकस्य निषेककृत् ॥ ३१ ॥
संहर्तुरपि संहर्ता पातुः पाता परात्परः ।
गोलोकनाथः श्रीकृष्णः परिपूर्णतमः स्वयम् ॥ ३२ ॥
वयं यस्य कलाः पुंसो ब्रह्मविष्णुमहेश्वराः ।
महाविराड्यदंशश्च यल्लोमविवरे जगत् ॥ ३३ ॥
कलांशाः केऽपि तद्‌दुर्गे कलांशांशाश्च केचन ।
चराचरं जगत्सर्वं तत्र तस्थौ विनायकः ॥ ३४ ॥
श्रीविष्णोर्वचनं श्रुत्वा परितुष्टा च पार्वती ।
स्तनं ददौ च शिशवे तं प्रणम्य गदाधरम् ॥ ३५ ॥
तुष्टाव पार्वती तुष्टा प्रेरिता शंकरेण च ।
कृताञ्जलिपुटा भक्त्या विष्णुं तं कमलापतिम् ॥ ३६ ॥
आशिषं यब्जे विष्णुः शिशुं च शिशुमातरम् ।
ददौ गले बालकस्य कौस्तुभं च सभूषणम् ॥ ३७ ॥
ब्रह्मा ददौ स्वमुकुटं धर्मो वै रत्‍नभूषणम् ।
क्रमेण देव्यो रत्‍नानि ददुः सर्वे यथोचितम् ॥ ३८ ॥
तुष्टाव तं महादेवश्चात्यन्तं हृष्टमानसः ।
देवाश्च मुनयः शैला गन्धर्वाः सर्वयोषितः ॥ ३९ ॥
दृष्ट्‍वा शिवः शिवा चैव बालकं मृतजीवितम् ।
ब्राह्मणेभ्यो ददौ तत्र कोटिरत्‍नानि नारद ॥ ४० ॥
अश्वानां च गजानां च सहस्राणि शतानि च ।
बन्दिभ्यः प्रददौ तत्र बालके मृतजीविते ॥ ४१ ॥
हिमालयश्च संतुष्टो हृष्टा देवाश्च तत्र वै ।
ददुर्दानानि विप्रेभ्यो बन्दिभ्यः सर्वयोषितः ॥ ४२ ॥
ब्राह्यणान्भोजयामास कारयामास मङ्‌गलम् ।
वेदांश्च पाठयामास पुराणानि रमापतिः ॥ ४३ ॥
शनिं संलज्जितं दृष्ट्‍वा पार्वती कोपशालिनी ।
शशाप च सभामध्येऽप्यङ्‌गहीनो भवेति च ॥ ४४ ॥
दृष्ट्‍वा शप्तं शनिं सूर्यः कश्यपश्च यमस्तथा ।
तेऽतिरुष्टाः समुत्तस्थुर्गामुकाः शंकरालयात् ॥ ४५ ॥
रक्ताक्षास्ते रक्तमखाः कोपप्रस्फुरिताधराः ।
तां धर्मसाक्षिणं कृत्वा विष्णुं संशप्तुमुद्यताः ॥ ४६ ॥
ब्रह्मा तान्बोधयामास विष्णुना प्रेरितः सुरैः ।
रक्तास्यां पार्वतीं चैव कोपप्रस्फुरिताधराम् ॥ ४७ ॥
ब्रह्माणमूचुस्ते तत्र क्रमेण समयोचितम् ।
भीरवो देवताः सर्वे मुनयः पर्वतास्तथा ॥ ४८ ॥
कश्यप उवाच
दुर्द्‌दृष्टोऽयं प्राक्तनेन पत्‍नीशापेन सर्वदा ।
बालं ददर्श यत्‍नेन तस्य वै मातुराज्ञया ॥ ४९ ॥
सूर्य उवाच
तं धर्मं साक्षिणं कृत्वा सूनोर्वै मातुराज्ञया ।
मत्पुत्रोऽतिप्रयत्‍नेन ह्यपश्यत्पार्वतीसुतम् ॥ ५० ॥
यथा निरपराधेन मत्पुत्र सा शशाप ह ।
तत्पुत्रस्याङ्‌गभङ्‌गश्च भविष्यति न संशयः ॥ ५१ ॥
यम उवाच
प्रदाय स्वयनत्यारन्तं च शशापेयं स्वयं कथम् ।
वयं शपामः को ऽधर्मो जिघांसोश्च विहिंसने ॥ ५२ ॥
ब्रह्मोवाच
शशाप पार्वती रुष्टा स्त्रीस्वभावाच्च चापलात् ।
सर्वेषां वचनेनैव क्षन्तुमर्हन्तु साधवः ॥ ५३ ॥
दुर्गे दत्त्वा त्वमाज्ञां च पुत्रदर्शनहेतवे ।
कथं शपसि निर्दोषमतिथिं त्वद्‌गृहागतम् ॥ ५४ ॥
इत्युक्त्वा शनिमादाय बोधयित्वा च पार्वतीम् ।
तां तं समर्पणं चक्रे शापमोचनहेतवे ॥ ५५ ॥
बभूव पार्वती तुष्टा ब्रह्मणो वचनान्मुने ।
शान्ता बभूवुस्ते तत्र दिनेशयमकश्यपाः ॥ ५६ ॥
उवाच पार्वती तत्र संतुष्टा तं शनैश्चरम् ।
प्रसादिता शिवेनैव ब्रह्मणा परिसेविता ॥ ५७ ॥
पार्वत्युवाच
ग्रहराजो भव शने मद्वरेण हरिप्रियः ।
चिरजीवी च योगीन्द्रो हरिभक्तस्य का विपत् ॥ ५८ ॥
अद्यप्रभृति निर्विघ्ना हरौ भक्तिर्दृढाऽस्तुते ।
शापोऽमोघस्ततो मेऽद्यकिंचित्खञ्जो भविष्यसि ॥ ५९ ॥
इत्युक्त्वा पार्वती तुष्टा बालं धृत्वा च वक्षसि ।
उवास योषितां मध्ये तस्मै दत्त्वा शुभाशिषः ॥ ६० ॥
शनिर्जगाम देवानां समीपं हृष्टमानसः ।
प्रणम्य भक्त्या तां ब्रह्मन्नम्बिकां जगदम्बिकाम् ॥ ६१ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे नारदनारायणसंवादे
शनिकृतगणेशदर्शनतज्जातगणेशशिरःपतनविष्णुकृत-
गणेशशिरोयोजनशनिशापादिकथनं नाम द्वादशोऽध्यायः ॥ १२ ॥


GO TOP