ब्रह्मवैवर्तपुराणम्
तृतीयं गणपतिखण्डम् - त्रयोदशोऽध्यायः
गणेशपूजास्तवकवचकथनम् -
नारायण उवाच
अथ विष्णुः शुभे काले देवैश्च मुनिभिः सह ।
पूजयामास तं बालमुपहारैरनुत्तमैः ॥ १ ॥
सर्वाग्रे तव पूजा च मया दत्ता सुरोत्तम ।
सर्वपूज्यश्च योगीन्द्रो भव वत्सेत्युवाच तम् ॥ २ ॥
वनमालां ददौ तस्मै ब्रह्मज्ञानं च मुक्तिदम् ।
सर्वसिद्धिं प्रदायैव चकाराऽऽत्मसमं हरिः ॥ ३ ॥
ददौ द्रव्याणि चारूणि चोपचारांश्च षोडश ।
नामभिः स्तवनं चक्रे मुनिभिश्च समं सुरैः ॥ ४ ॥
विध्नेशश्च गणेशश्च हेरम्बश्च गजाननः ।
लम्बोदरश्चैकदन्तः शूर्पकर्णो विनायकः ॥ ५ ॥
एतान्यष्टौ च नामानि सर्वसिद्धिप्रदानि च ।
आशिषं दापयामास चाऽऽनयामास तान्मुनीन् ॥ ६ ॥
सिद्धासनं ददौ धर्मस्तस्मै ब्रह्मा कमण्डलुम् ।
शंकरो योगपट्टं च तत्त्वज्ञानं सुदुर्लभम् ॥ ७ ॥
रत्नसिंहासनं शक्रः सूर्यश्च मणिकुण्डले ।
माणिक्यमालां चन्द्रश्च कुबेरश्च किरीटकम् ॥ ८ ॥
वह्निशुद्धं च वसनं ददौ तस्मै हुताशनः ।
रत्नच्छत्रं च वरुणो वायू रत्नाङ्गुलीयकम् ॥ ९ ॥
क्षीरोदोद्भवसद्रत्नरचितं वलयं वरम् ।
मञ्जीरं चापि केयूरं ददौ पद्मालया मुने ॥ १० ॥
कण्ठभूषां च सावित्री भारती हारमुज्ज्वलम् ।
क्रमेण सर्वदेवाश्च देव्यश्च यौतुकं ददुः ॥ ११ ॥
मुनयः पर्वताश्चैव रत्नानि विविधानि च ।
वसुंधरा ददौ तस्मै वाहनाय च मूषकम् ॥ १२ ॥
क्रमेण देवा देव्यश्च मुनयः पर्वतादयः ।
गन्धर्वाः किन्नरा यक्षा मनवो मानवास्तथा ॥ १३ ॥
नानाविधानि द्रव्याणि स्वादूनि मधुराणि च ।
पूजां चक्रुश्च ते सर्वे क्रमाद्वै भक्तिपूर्वकम् ॥ १४ ॥
पार्वती जगतां माता स्मेराननसरोरुहा ।
रत्नसिंहासने पुत्रं वासयामास नारद ॥ १५ ॥
सर्वतीर्थोदकै रत्नकलशावर्जितैस्तु तैः ।
स्नापयामास वेदोक्तमन्त्रेण मुनिभिः सह ॥ १६ ॥
अग्निशुद्धे च वसने ददौ तस्मै सती मुदा ।
गोदावर्युदकैः पाद्यमर्घ्यं गङ्गोदकेन च ॥ १७ ॥
दूर्वाभिरक्षतापुष्पैश्चन्दनेन समन्वितम् ।
पुष्करोदकमानीय पुनराचमनीयकम् ॥ १८ ॥
मधुपर्कं रत्नपात्रैरासवं शर्करान्वितम् ।
स्नानीयं विष्णुतैलं च स्वर्वैद्याभ्यां विनिर्मितम् ॥ १९ ॥
अमूल्यरत्नरचितचारुभूषाकदम्बकम् ।
पारिजातप्रसूनानामन्येषां शतकानि च ॥ २० ॥
मालतीचम्पकादीनां पुष्पाणि विविधानि च ।
पूजार्हाणि च पत्राणि तुलसीसहितानि च ॥ २१ ॥
चन्दनागुरुकस्तूरीउङ्कुमानि च सादरम् ।
रत्नप्रदीपनिकरं धूपं च परितो ददौ ॥ २२ ॥
नैवेद्यं तत्प्रियं चव तिललड्डुकपर्वतान् ।
यवगोधूमचूर्णानां लड्डुकानां च पर्वतान् ॥ २३ ॥
पक्वान्नानां पर्वतांश्च सुस्वादुसुमनोहरान् ।
पर्वतान्स्वस्तिकानां च सुस्वादुशर्करान्वितान् ॥ २४ ॥
गुडाक्तानां च लाजानां पृथुकानां च पर्वतान् ।
शाल्यन्नानां पिष्टकानां पर्वतान्व्यञ्जनैः सह । २५ ॥
पयोभृत्कलशानां च लक्षाणि प्रददौ मुदा ।
लक्षाणि दधिपूर्णानां कलशानां च पूजने ॥ २६ ॥
मधुभृत्कलशानां च त्रिलक्षाणि च सुन्दरी ।
सर्पिःसुवर्णकुम्भानां पञ्च लक्षाणि सादरम् ॥ २७ ॥
दाडिमानां श्रीफलानामसंख्यानि फलानि च ।
खर्जूराणां कपित्थानां जम्बूनां विविधानि च ॥ २८ ॥
आम्राणां पनसानां च कदलीनां च नारद ।
फलानि नारिकेलानामसंख्यानि ददौ मुदा ॥ २९ ॥
अन्यानि परिपक्वानि कालदेशोद्भवानि च ।
ददौ तानि महाभाग स्वादूनि मधुराणि च ॥ ३० ॥
स्वच्छं सुनिर्मलं चैव कर्पूरादिसुवासितम् ।
गङ्गाजलं च पानार्थं पुनराचमनीयकम् ॥ ३१ ॥
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।
सुवर्णपात्रशतकं भक्ष्यपूर्णं च नारद ॥ ३२ ॥
शैलेश्वरी शैलराजः शैलजः शैलराजजः ।
शैलराजप्रियामात्याः पुपूजुः शैलजात्मजम् ॥ ३३ ॥
ॐ श्रीं ह्रीं क्लीं गणेशाय ब्रह्मरूपाय चारवे ।
सर्वसिद्धिप्रदेशाय विश्वेशाय नमो नमः ॥ ३४ ॥
इत्यनेनैव मन्त्रेण दत्त्वा द्रव्याणि भक्तितः ।
सर्वे प्रमुदितास्तत्र ब्रह्मविष्णुशिवादयः ॥ ३५ ॥
द्वात्रिंशदक्षरो मालामन्त्रोऽयं सर्वकामदः ।
धर्मार्थकाममोक्षाणां फलदः सर्वसिद्धिदः ॥ ३६ ॥
पञ्चलक्षजपेनैव मन्त्रसिद्धिस्तु मन्त्रिणः ।
मन्त्रसिद्धिर्भवेद्यस्य स च विष्णुश्च भारते ॥ ३७ ॥
विघ्नानि च पलायन्ते तन्नामस्मरणेन च ।
महावाग्मी महासिद्धिः सर्वसिद्धिसमन्वितः ॥ ३८ ॥
वाक्पतिर्गुरुतां याति तस्य साक्षात्सुनिश्चितम् ।
महाकवीन्द्रो गुणवान्विदुषां च गुरोर्गुरुः ॥ ३९ ॥
संपूज्यानेन मन्त्रेण देवा आनन्दसंप्लुताः ।
नानाविधानि वाद्यानि वादयामासुरुत्सवे ॥ ४० ॥
ब्राह्मणान्भोजयामासुः कारयामासुरुत्सवम् ।
ददुर्दानानि तेभ्यश्च वन्दिभ्यश्च विशेषतः ॥ ४१ ॥
नारायण उवाच
अथ विष्णुः सभामध्ये तं संपूज्य गणेश्वरम् ।
तुष्टाव परया भक्त्या सर्वविघ्नविनाशकम् ॥ ४२ ॥
विष्णुरुवाच
ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम् ।
नैव वर्णयितुं शक्तोऽस्म्यनुरूपमनीहकम् ॥ ४३ ॥
प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् ।
सर्वस्वरूपं सर्वेशं ज्ञानंराशिस्वरूपिणम् ॥ ४४ ॥
अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम् ।
वायुतुल्यं च निर्लिप्तं चाक्षतं सर्वसाक्षिणम् ॥ ४५ ॥
संसारार्णवपारे च मायापोते सुदुर्लभे ।
कर्णधारस्वरूपं च भक्तानुग्रहकारकम् ॥ ४६ ॥
वरं वरेण्यं वरदं वरदानामपीश्वरम् ।
सिद्धं सिद्धिस्वरूपं च सिद्धिदं सिद्धिसाधनम् ॥ ४७ ॥
ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम् ।
धर्मस्वरूपं धर्मज्ञं धर्माधर्मफलप्रदम् ॥ ४८ ॥
बीजं संसारवृक्षाणामङ्कुरं च तदाश्रयम् ।
स्त्रीपुंनपुंसकानां च रूपमेतदतीन्द्रियम् ॥ ४९ ॥
सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम् ।
स्वेच्छया सगुणं ब्रह्म निर्गुणं स्वेच्छया पुनः ॥ ५० ॥
स्वयं प्रकृतिरूपं च प्राकृतं प्रकृतेः परम् ।
त्वां स्तोतुमक्षमोऽनन्तः सहस्रवदनैरपि ॥ ५१ ॥
न क्षमः पञ्चवक्त्रश्च न क्षमश्चतुराननः ।
सरस्वती न शक्ता च न शक्तोऽहं तव स्तुतौ ॥ ५२ ॥
न शक्ताश्च चतुर्वेदाः के वा ते वेदवादिनः ॥ ५३ ॥
इत्येवं स्तवनं कृत्वा मुनीशसरसंसदि ।
सरेशश्च सुरैः साधं विरराम रमापतिः ॥ ५४ ॥
इदं विष्णुकृतं स्तोत्रं गणेशस्य च यः पठेत् ।
सायं प्रातश्च मध्याह्ने भक्तियुक्तः समाहितः ॥ ५५ ॥
तद्विघ्ननाशं कुरुते विघ्नेशः सततं मुने ।
वर्धते सर्वकल्याणं कल्याणजनकः सदा ॥ ५६ ॥
यात्राकाले पठित्वा यो याति तद्भक्तिपूर्वकम् ।
तस्य सर्वाभीष्टसिद्धिर्भवत्येव न संशयः ॥ ५७ ॥
तेन दृष्टं च दुःस्वप्नं सुस्वप्नमपजायते ।
कदाऽपि न भवेत्तस्य ग्रहपीडा च दारुणा ॥ ५८ ॥
भवेद्विनाशः शत्रूणां बन्धूनां च विवर्धनम् ।
शश्वद्विघ्नविनाशश्च शश्वत्सम्पद्विवर्धनम् ॥ ५९ ॥
स्थिरा भवेद्गृहे लक्ष्मीः पुत्रपौत्रविवर्धनम् ।
सर्वैश्वर्यमिह प्राप्य ह्यन्ते विष्णुपदं लभेत् ॥ ६० ॥
फलं चापि च तीर्थानां यज्ञानां यद्भवेद्ध्रुवम् ।
महता सर्वदानानां तद्गणेशप्रसादतः ॥ ६१ ॥
नारद उवाच
श्रुतं स्तोत्रं गणेशस्य पूजनं च मनोहरम् ।
कवचं श्रोतुमिच्छामि सांप्रतं भवतारणम् ॥ ६२ ॥
नारायण उवाच
पूजायां सुनिवृत्तायां सभामध्ये शनैश्चरः ।
उवाच विष्णुं सर्वेषां तारकं जगतां गुरुम् ॥ ६३ ॥
शनैश्चर उवाच
सर्वदुःखविनाशाय पापप्रशमनाय च ।
कवचं विघ्ननिघ्नस्य वद वेदविदां वर ॥ ६४ ॥
बभूव नो विवादश्च शक्त्या वै मायया सह ।
तद्विघ्नप्रशमार्थं च कवचं धारयाम्यहम् ॥ ६५ ॥
विष्णु उवाच
विनायकस्य कवचं त्रिषु लोकेषु दुर्लभम् ।
सुगोप्यं च पुराणेषु दुर्लभं चाऽऽगमेषु च ॥ ६६ ॥
उक्तं कौथुमशाखायां सामवेदे मनोहरम् ।
कवचं विघ्ननाथस्य सर्वविघ्नहरं परम् ॥ ६७ ॥
राज्यं देयं शिरो देयं प्राणा देयाश्च सूर्यज ।
एवंभूतं च कवचं न देयं प्राणसंकटे ॥ ६८ ॥
आविर्भावस्तिरोभावः स्वेच्छया यस्य मायया ।
नित्योऽयमेकदन्तश्च कवचं चास्य वत्सक ॥ ६९ ॥
पूजाऽस्य नित्या स्तोत्रं च कल्पे कल्पेऽस्ति संततम् ।
अस्य वै जन्मनः पूर्वं मुनयश्चसिषेविरे ॥ ७० ॥
यथा मदवतारेषु जन्म विग्रहधारणम् ।
तथा गणेश्वरस्यापि जन्म शैलसतोदरे ॥ ७१ ॥
यद्धृत्वा मुनयः सर्वे जीवन्मुक्ताश्च भारते ।
निःशङ्काश्च सुराः सर्वे शत्रुपक्षविमर्दकाः ॥ ७२ ॥
कवचं बिभ्रतां मृत्युर्न भिया याति संनिधिम् ।
नाऽऽयर्व्ययो नाशुभं च ब्रह्माण्डे न पराजयः ॥ ७३ ॥
दशलक्षजपेनैव सिद्धं तु कवचं भवेत् ।
यो भवेत्सिद्धकवचो मृत्युं जेतुं स च क्षमः ॥ ७४ ॥
सुसिद्धकवचो वाग्ग्मी चिरंजीवी महीतले ।
सर्वत्र विजयी पूज्यो भवेद्ग्रहणमात्रतः ॥ ७५ ॥
मालामन्त्रमिमं पुण्यं कवचं मङ्गलं शुभम् ।
बिभ्रतां सर्वपापानि प्रणश्यन्ति सुनिश्चितम् ॥ ७६ ॥
भूतप्रेतपिशाचाश्च कूश्माण्डा ब्रह्मराक्षसाः ।
डाकिनीयोगिनीयक्षवेताला भैरवादयः ॥ ७७ ॥
बालग्रहा ग्रहाश्चैव क्षेत्रपालादयस्तथा ।
वर्मणः शब्दमात्रेण पलायन्ते च भीरवः ॥ ७८ ॥
आधयो व्याधयश्चैव शोकाश्चैव भयावहाः ।
न यान्ति संनिधिं तेषां गरुडस्य यथोरगाः ॥ ७९ ॥
ऋजवे गुरुभक्ताय स्वशिष्याय प्रकाशयेत् ।
खलाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ॥ ८० ॥
संसारमोहनस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च गायत्री देवो लम्बोदरः स्वयम् ॥ ८१ ॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
सर्वेषां कवचानां च सारभूतमिदं मुने ॥ ८२ ॥
ओं गं हुं श्री गणेशाय स्वाहा मे पातु मस्तकम् ।
द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदाऽवतु ॥ ८३ ॥
ॐ ह्रीं क्लीं श्रीं गमिति वै सततं पातु लोचनम् ।
तारकां पातु विघ्नेशः सततं धरणीतले ॥ ८४ ॥
ॐ ह्रीं श्रीं क्लीमिति परं संततं पातु नासिकाम् ।
ॐ गौं गं शूर्पकर्णाय स्वाहा पात्वधरं मम ॥ ८५ ॥
दन्तांश्च तालुकां जिह्वां पातु मे षोडशाक्षरः ।
ॐ लं श्रीं लम्बोदरायेति स्वाहा गण्डं सदाऽवतु ॥ ८६ ॥
ॐ क्लीं ह्रीं विघ्ननाशाय स्वाहा कर्णंसदाऽवतु ।
ओं श्रीं गं गजाननायेति स्वाहा स्कन्धं सदाऽवतु ॥ ८७ ॥
ओं ह्रीं विनायकायेति स्वाहा पृष्ठं सदाऽवतु ।
ओं क्लीं ह्नीमिति कङकालं पातु वक्षःस्थलं परम् ॥ ८८ ॥
करौ पादौ सदा पातु सर्वाङ्गं विघ्ननाशकृत् ।
प्राच्यां लम्बोदरः पातु चाऽऽग्नेय्यां विघ्ननायकः ॥ ८९ ॥
दक्षिणे पातु विघ्नेशो नैर्ऋत्यां तु गजाननः ।
पश्चिमे पार्वतीपुत्रो वायव्यां शंकरात्मजः ॥ ९० ॥
कृष्णस्याशश्चोत्तरे च परिपूर्णतमस्य च ।
ऐशान्यामेकदन्तश्च हेरम्बः पातु चोर्ध्वतः ॥ ९१ ॥
अधो गणाधिपः पातु सर्वपूज्यश्च सर्वतः ।
स्वप्ने जागरणे चैव पातु मां योगिनां गुरुः ॥ ९२ ॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।
संसारमोहनं नाम कवचं परमाद्भुतम् ॥ ९३ ॥
श्रीकृष्णेन पुरा दत्तं गोलोके रासमण्डले ।
वृन्दावने विनीताय मह्यं दिनकरात्मज ॥ ९४ ॥
मया दत्तं च तुभ्यं च यस्मै कस्मै न दास्यसि ।
परं वरं सर्वपूज्यं सर्वसंकटतारणम् ॥ ९५ ॥
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः ।
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥ ९६ ॥
अश्वमेधसहस्राणि वाजपेयशतानि च ।
ग्रहेन्द्र कवचस्यास्य कलां नार्हन्ति षोडशीम् ॥ ९७ ॥
इदं कवचमज्ञात्वा यो भजेच्छंकरात्मजम् ।
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ ९८ ॥
दत्त्वेदं सूर्यपुत्राय विरराम सुरेश्वरः ।
परमानन्दसंयुक्ता देवास्तस्थुः समीपतः ॥ ९९ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे नारदनारायणसंवादे
गणेशपूजास्तवकवचकथनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
GO TOP
|