ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - एकादशोऽध्यायः

शनिपार्वतीसंवादे शनेरधोदृष्टौ कारणकथनम् -


नारायण उवाच
हरिस्तमाशिषं कृत्वा रत्‍नसिंहासने वरे ।
देवैश्च मुनिभिः सार्धमवसत्तत्र संसदि ॥ १ ॥
दक्षिणे शंकरस्तस्य वामे ब्रह्मा प्रजापतिः ।
पुरतो जगतां साक्षी धर्मो धर्मवतां वरः ॥ २ ॥
तथा धर्मसमीपे च सूर्यः शक्रः कलानिधिः ।
देवाश्च मुनयो ब्रह्मन्नूषुः शैलाः सुखासने ॥ ३ ॥
ननर्त नर्तकश्रेणी जगुर्गन्धर्वकिंनराः ।
श्रुतिसारं श्रुतिसुखं तुष्टुवुः श्रुतयो हरिम् ॥ ४ ॥
एतस्मिन्नन्तरे तत्र द्रष्टुं शंकरनन्दनम् ।
आजगाम महायोगी सूर्यपुत्रः शनैश्चरः ॥ ५ ॥
अत्यन्तनम्रवदन ईषन्मुद्रितलोचनः ।
अन्तर्बहिः स्मरन्कृष्णं कृष्णैकगतमानसः ॥ ६ ॥
तपःफलाशी तेजस्वी ज्वलदग्निशिखोपमः ।
अतीव सुन्दरः श्यामः पीताम्बरधरो वरः ॥ ७ ॥
प्रणम्य विष्णुं ब्रह्माणं शिवं धर्मं रविं सुरान् ।
मुनीन्द्रान्बालकं द्रष्टुं जगाम तदनुज्ञया ॥ ८ ॥
प्रधानद्वारमासाद्य शिवतुल्यपराक्रमम् ।
द्वाःस्थं वै शूलहस्तं च विशालाक्षमुवाच ह ॥ ९ ॥
शनैश्चर उवाच
शिवाज्ञया शिशुं द्रष्टुं यामि शंकरकिंकर ।
विष्णुप्रमुखदेवानां मुनीनामनुरोधतः ॥ १० ॥
आज्ञां देहि च मां गन्तुं पार्वतीसंनिधिं बुध ।
पुनर्यामि शिशुं दृष्ट्‍वा विषयासक्तमानसः ॥ ११ ॥
विशालाक्ष उवाच
आज्ञावहो न देवानां नाहं शंकरकिंकरः ।
मार्गं दातुं न शक्तोऽह विना मन्मातुराज्ञया ॥ १२ ॥
इत्युक्त्वाऽभ्यन्तरभ्येत्य प्रेरितः स शिवाज्ञया ।
ददौ मार्गं ग्रहेशाय विशालाक्षे मुदा ततः ॥ १३ ॥
शनिरभ्यन्तरं गत्वा चानयन्नम्रकधरः ।
रत्‍नसिहासनस्थां च पार्वतीं नमतां मुदा ॥ १४ ॥
सखिभिः पञ्चभिः शश्वत्सेविता श्वेतचामरैः ।
सखिदत्त च ताम्बूलमुपलंबं सुवासितम् ॥ १५ ॥
वह्निशुद्धांशुकाधानां रत्‍नभूषणभूषिताम् ।
पश्यन्तीं नर्तकीनृत्यं पुत्रं धृत्ता च वक्षसि ॥ १६ ॥
नतं सूर्यसुतं दृष्ट्‍वा दुर्गा संभाष्य सत्वरम् ।
शुभाशिषं ददौ तस्मै पृष्ट्‍वा तन्मङ्‌गलं शुभम् ॥ १७ ॥
पार्वत्युवाच
कथमानम्रवक्त्रस्त्वं श्रोतुमिच्छामि सांप्रतम् ।
किं न पश्यसि मां साधो बालकं वा ग्रहेश्वर ॥ १८ ॥
शनिरुवाच
सर्वे स्वकर्मणा साध्वि भुञ्जते तपसः फलम् ।
शुभाशुभं च यत्कर्म कोटिकल्पैर्न लुप्यते ॥ १९ ॥
कर्मणा जायते जन्तुर्बह्मेन्द्रार्यममन्दिरे ।
कर्मणा नरगेहेषु पश्वादिषु च कर्मणा ॥ २० ॥
कर्मणा नरकं याति वैकुण्ठं याति कर्मणा ।
स्वकर्मणा च राजेन्द्रो भृत्यश्चापि स्वकर्मणा ॥ २१ ॥
कर्मणा सुन्दरः शश्वद्‍व्याधियुक्तः स्वकर्मणा ।
कर्मणा विषयी मातर्निर्लिप्तश्च स्वकर्मणा ॥ २२ ॥
कर्मणा धनवाँल्लोको दैन्ययुक्तः स्वकर्मणा ।
कर्मणा सत्कुटुम्बी च कर्मणा बन्धुकण्टकः ॥ २३ ॥
सुभार्यश्च सुपुत्रश्च सुखी शश्वत्स्वकर्मणा ।
अपुत्रकश्च कुस्त्रीको निस्त्रीकश्च स्वकर्मणा ॥ २४ ॥
इतिहासं चातिगोप्यं शृणु शंकरवल्लभे ।
अकथ्यं जननीपार्श्वे लज्जाजनमकारणम् ॥ २५ ॥
आ बाल्यात्कृष्णभक्तोऽहं कृष्णध्यानैकमानसः ।
तपस्यासु रतः शश्वद्विषयेऽपि रतः सदा ॥ २६ ॥
पिता ददौ विवाहे तु कन्यां चित्ररथस्य च ।
अतितेजस्विनी शश्वत्तपस्यासु रता सती ॥ २७ ॥
एकदा सा त्वृतुस्नाता सुवेषं स्वं विधाय च ।
रत्‍नालंकारसंयुक्ता मुमानसमोहिनी ॥ २८ ॥
हरेः पादं ध्यायमानं मांमां पश्येत्युवाच ह ।
मत्समीपं समागत्य सस्मिता लोललोचना ॥ २९ ॥
शशाप मामपश्यन्तमृतुनाशाच्च कोपतः ।
बाह्यज्ञानविहीनं च ध्यानसंलापमानसम् ॥ ३० ॥
न दृष्टाऽहं त्वया येन न कृतं ह्यृतुरक्षणम् ।
त्वया दृष्टं च यद्वस्तु मूढ सर्वं विनश्यति ॥ ३१ ॥
अहं च विरतो ध्यानात्तोषयंस्तां तदा सतीम् ।
शापं मोक्तुं न शक्ता सा पश्चात्तापमवाप ह ॥ ३२ ॥
तेन मातर्न पश्यामि किंचिद्वस्तु स्वचक्षुषा ।
ततः' प्रकृतिनम्रास्यः प्राणिहिंसाभयादहम् ॥ ३३ ॥
शनैश्चरवचः श्रुत्वा चाहसत्पार्वती मुने ।
उच्चैः प्रजहसुः सर्वा नर्तकीकिंनरीगणाः ॥ ३४ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे शनिपार्वतीसंवादे शनेरधोदृष्टौ
कारणकथनं नामैकादशोऽध्यायः ॥ ११ ॥


GO TOP