ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - नवमोऽध्यायः

बालगणेशदर्शनम् -


नारायण उवाच
हरौ तिरोहिते शर्वाणी दुर्गा शंकरस्तदा ।
ब्राह्मणान्वेषणं कृत्वा बभ्राम परितो मुने ॥ १ ॥
पार्वत्युवाच
अये विप्रेन्द्रातिवृद्ध क्व गतोऽसि क्षुधातुरः ।
हे तात दर्शनं देहि प्राणान्वै रक्ष मे विभो ॥ २ ॥
शिव शीघ्र समुत्तिष्ठ ब्राह्मणान्वेषणं कुरु ।
क्षणमुन्मनसोरेष गतः प्रत्यक्षमावयोः ॥ ३ ॥
अगृहीत्वा गृहात्पूजां गृहिणोऽतिथिरीश्वरः ।
यदि याति क्षुधार्तश्च तस्य किं जीवनं वृथा ॥ ४ ॥
पितरस्तन्न गृह्णन्ति पिण्डदानं च तर्पणम् ।
तस्याऽहूतिं न गृह्णाति वह्निः पुष्पं जलं सुराः ॥ ५ ॥
हव्यं पुष्पं जलं द्रव्यमशुचेश्च सुरासमम् ।
अमेध्यसदृशः पिण्डः स्पर्शनं पुण्यनाशनम् ॥ ६ ॥
एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी ।
कैवल्ययुक्ता सा दुर्गा तां शुश्राव शुचाऽऽतुरा ॥ ७ ॥
शान्ता भव जगन्मातः स्वसुतं पश्य मन्दिरे ।
कृष्णं गोलोकनाथं तं परिपूर्णतमं परम् ॥ ८ ॥
सुपुण्यकव्रततरोः फलरूपं सनातनम् ।
यत्तेजो योगिनः शश्वद्ध्यायन्ति संततं मुदा ॥ ९ ॥
ध्यायन्ति वैष्णवा देवा ब्रह्मविष्णुशिवादयः ।
यस्य पूज्यस्य सर्वाग्रे कल्पे कल्पे च पूजनम् ॥ १० ॥
यस्य स्मरणमात्रेण सर्वविघ्नो विनश्यति ।
पुण्यराशिस्वरूपं च स्वसुतं पश्य मन्दिरे ॥ १ १ ॥
कल्पे कल्पे ध्यायसि यं ज्योतीरूपं सनातनम् ।
पश्य त्वं मुक्तिदं पुत्रं भक्तानुग्रहविग्रहम् ॥ १२ ॥
तव वाञ्छापूर्णबीजं तपःकल्पतरोः फलम् ।
सुन्दरं स्वसुतं पश्य कोटिकदर्पनिन्दकम् ॥ १३ ॥
नायं विप्रः क्षुधार्तश्च विप्ररूपी जनार्दनः ।
किंवा विलापं कुरुषे क्व वो वृद्धः क्व चातिथिः ॥
सरस्वती त्वेवमुक्त्वा विरराम च नारद ॥ १४ ॥
त्रस्ता श्रुत्वाऽऽकाशवाणीं जगाम स्वालयं सती ।
ददर्श बालं पर्यङ्‌के शयानं सस्मितं मुदा ॥ १५ ॥
पश्यन्तं गेहशिखरं शतचन्द्रसमप्रभम् ।
स्वप्रभापटलेनैव द्योतयन्तं महीतलम् ॥ १६ ॥
कुर्वन्तं भ्रमणं तल्पे पश्यन्तं स्वेच्छया मुदा ।
उमेति शब्दं कुर्वन्तं रुदन्तं तं स्तनार्थिनम् ॥ १७ ॥
दृष्ट्‍वा तदद्‌भुतं रूपं त्रस्ता शंकरसंनिधिम् ।
गत्वा सोवाच गिरिशं सर्वमङ्‌गलमङ्‌गला ॥ १८ ॥
पार्वत्युवाच
गृहमागच्छ सर्वेश तपसां फलदायकम् ।
कल्पे कल्पे ध्यायसि यं तं पश्याऽऽगत्य मन्दिरे ॥ १९ ॥
शीघ्रं पुत्रमुखं पश्य पुण्यबीजं महोत्सवम् ।
पुंनामनरकत्राणं कारणं भवतारणम् ॥ २० ॥
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दीक्षणम् ।
पुत्रसंदर्शनस्यास्य कलां नार्हति षोडशीम् ॥ २१ ॥
सर्वदानेन यत्पुण्यं क्ष्माप्रदक्षिणतश्च यत् ।
पुत्रदर्शनपुण्यस्य कला नार्हति षोडशीम् ॥ २२ ॥
सर्वस्तपोभिर्यत्पुण्यं यदेवानशनैर्व्रतैः ।
सत्पुत्रोद्‌भवपुण्यस्य कलां नार्हति षोडशीम् ॥ २३ ॥
यद्विप्रभोजनैः पुण्यं यदेव सुरसेवनैः ।
सत्पुत्रप्राप्तिपुण्यस्य कलां नार्हति षोडशीम् ॥ २४ ॥
पार्वत्या वचनं श्रुत्वा शिवः संहृष्टमानसः ।
अजगाम स्वभवनं क्षिप्रं वै कान्तया सह ॥ २५ ॥
ददर्श तल्पे स्वसुतं तप्तकाञ्चनसंनिभम् ।
हृदयस्थं च यद्‍रूपं तदेवातिमनोहरम् ॥ २६ ॥
दुर्गा तल्पात्समादाय कृत्वा वक्षसि तं सुतम् ।
चुचुम्बानन्दजलधौ निमग्ना सेत्युवाचतम् ॥ २७ ॥
संप्राप्यामूल्यरत्‍नं त्वां पूर्णमेव सनातनम् ।
यथा मनो दरिद्रस्य सहसा प्राप्य सद्धनम् ॥ २८ ॥
कान्ते सुचिरमायाते प्रोषिते योषितो यथा ।
मानसं परिपूर्णं च बभूव च तथा मम ॥ २९ ॥
सुचिरं गतमायान्तमेकपुत्रा यथा सुतम् ।
दृष्ट्‍वा तुष्टा यथा वत्स तथाऽहमपि सांप्रतम् ॥ ३० ॥
सद्‌रत्‍नं सुचिरं भ्रष्टं प्राप्य हृष्टो यथा जनः ।
अनावृष्टौ सुवृष्टिं च संप्राप्याहं तथा सुतम् ॥ ३१ ॥
यथा सुचिरमन्धानां स्थितानां च निराश्रये ।
चक्षुः सुनिर्मलं प्राप्य मनः पूर्णं तथैव मे ॥ ३२ ॥
दुस्तरे सागरे घोरे पतितस्य च संकटे ।
अनौकस्य प्राप्य नौकां मनः पूर्णं तथा मम ॥ ३३ ॥
तृष्णया शुष्ककण्ठानां सुचिराच्च सुशीतलम् ।
सुवासितं जलं प्राप्य मनः पूर्णं तथा मम ॥ ३४ ॥
दावाग्निपतितानां च स्थितानां च निराश्रये ।
निरग्निमाश्रयं प्राप्य मनः पूर्णं तथा मम ॥ ३५ ॥
चिरं बुभुक्षितानां च व्रतोपोषणकारिणाम् ।
सदन्नं पुरतो दृष्ट्‍वा मनः पूर्णं तथा मम ॥ ३६ ॥
इत्युक्त्वा पार्वती तत्र क्रोडे कृत्वा स्वबालकम् ।
प्रीत्या स्तनं ददौ तस्मै परमानन्दमानसा ॥ ३७ ॥
क्रोडे चकार भगवान्बालक हृष्टमानसः ।
चुचुम्ब गण्डे वेदोक्तं युयुजे चाऽऽशिषं मुदा ॥ ३८ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे बालगणेशदर्शन नाम नवमोऽध्यायः ॥ ९ ॥


GO TOP