ब्रह्मवैवर्तपुराणम्
तृतीयं गणपतिखण्डम् - अष्टमोऽध्यायः
गणेशोत्पत्तिवर्णनम् -
नारायण उवाच
पार्वत्याः स्तवनं श्रुत्वा श्रीकृष्णः करुणानिधिः ।
स्वरूपं दर्शयामास सर्वादृश्यं सुदुर्लभम् ॥ १ ॥
स्तुत्वा देवी ध्यानपरा कृष्णसंलग्नमानसा ।
ददर्श तेजसां मध्ये स्वरूपं सर्वमोहनम् ॥ २ ॥
सद्रत्नसाररचिते हीरकेण परिष्कृते ।
युक्ते माणिक्यमालाभी रत्नपूर्णं मनोरमे ॥ ३ ॥
पीतांशुकं वह्निशुद्धं वरं वंशकरं परम् ।
वनमालागलं श्यामं रत्नभूषणभूषितम् ॥ ४ ॥
किशोरवयसं चित्रवेषं वै चन्दनाङ्कितम् ।
चारुस्मितास्यमीड्यं तच्छारदेन्दुविनिन्दकम् ॥ ५ ॥
मालतीमाल्यसंयुक्तं केकिपिच्छावचूडकम् ।
गोपाङ्गनापरिवृतं राधावक्षःस्थलोज्ज्वलम् ॥ ६ ॥
कोटिकन्दर्पलावण्यलीलाधाम मनोहरम् ।
अतीव हृष्टं सर्वेष्टं भक्तानुग्रहकारकम् ॥ ७ ॥
दृष्ट्वा रूपं रूपवती पुत्रं तदनुरूपकम् ।
मनसा वरयामास वरं संप्राप्य तत्क्षणम् ॥ ८ ॥
वरं दत्त्वा वरेशस्तु यद्यन्मनसि वाञ्छितम् ।
दत्त्वाऽभीष्टं सुरेभ्यश्च तत्तेजोऽन्तरधीयत ॥ ९ ॥
कुमारं बोधयित्वा तु देवा देव्यै दिगम्बरम् ।
ददुर्निरुपमं तत्र प्रहृष्टायै कृपान्विताः ॥ १० ॥
ब्राह्मणेभ्यो ददौ दुर्गा रत्नानि विविधानि च ।
सुवर्णानि च भिक्षुभ्यो बन्दिभ्यो विश्ववन्दिता ॥ ११ ॥
ब्राह्मणान्भोजयामास देवान्वै पर्वतांस्तथा ।
शंकरं पूजयामास चोपहारैरनुत्तमैः ॥ १२ ॥
दुन्दुभिं वादयामास कारयामास मङ्गलम् ।
संगीतं गाययामास हरिसंबन्धि सुन्दरम् ॥ १ ३ ॥
व्रतं समाप्य सा दुर्गा दत्त्वा दानानि सस्मिता ।
सर्वांश्च भोजयित्वा तु बुभुजे स्वामिना सह ॥ १४ ॥
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।
क्रमात्प्रदाय सर्वेभ्यो बुभुजे तेन कौतुकात् ॥ १५ ॥
पयःफेननिभां शय्यां रम्यां सद्रत्नमञ्चके ।
पुष्पचन्दनसंयुक्तां कस्तूरीकुङ्कुमान्विताम् ।
रहसि स्वामिना सार्धं सुष्वाप परमेश्वरी ॥ १६ ॥
कैलासस्यैकदेशे च रम्ये चन्दनकानने ।
सुगन्धिकुसुमाढ्येन वायुना सुरभीकृते ॥ १७ ॥
भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुताश्रये ।
व्यहार्षीत्सा सुरसिका तत्र तेन सहाम्बिका ॥ १८ ॥
रेतःपतनकाले च स विष्णुर्विष्णुमायया ।
विधाय विप्ररूपं तदाजगाम रतेगृहम् ॥ १९ ॥
जटावन्तं विना तैलं कुचैलं भिक्षुकं मुने ।
अतीव शुक्लदशनं तृष्णया परिपीडितम् ॥ २ ० ॥
अतीव कृशगात्रं च बिभ्रत्तिलकमुज्ज्वलम् ।
बहुकाकुस्वरं दीनं दैन्यात्कुत्सितमूर्तिमत् ॥ २१ ॥
आजुहाव महादेवमतिवृद्धोऽन्नयाचकः ।
दण्डावलम्बनं कृत्वा रतिद्वारेऽतिदुर्बलः ॥ २२ ॥
ब्राह्मण उवाच
किं करोषि महादेव रक्ष मां शरणागतम् ।
सप्तरात्रिव्रतेऽतीते पारणाकाङक्षिणं क्षुधा ॥ २३ ॥
किं करोषि महादेव हे तात करुणानिधे ।
पश्य वृद्धं जराग्रस्तं तृषया परिपीडितम् ॥ २४ ॥
मातरुत्तिष्ठ मेऽन्नं त्वं प्रयच्छाद्य शिवं जलम् ।
अनन्तरत्नोद्भवजे रक्ष मां शरणागतम् ॥ २५ ॥
मातर्मातर्जगन्मातरेहि नाहं जगद्बहिः ।
सीदामि तृषया कस्मात्स्थितायामात्ममातरि ॥ २६ ॥
इति काकुस्वरं श्रुत्वा शिवस्योत्तिष्ठतो मुने ।
पपात वीर्यं शय्यायां न योनौ प्रकृतेस्तदा ॥ २७ ॥
उत्तस्थौ पार्वती त्रस्ता सूक्ष्मवस्त्रं पिधाय च ।
आजगाम बहिर्द्वारं पार्वत्या सह शंकरः ॥ २८ ॥
ददर्श ब्राह्मणं दीनं जरया परिपीडितम् ।
वृद्धं लुलितगात्रं च बिभ्रतं दण्डमानतम् ॥ २९ ॥
तपस्विनमशान्तं च शुष्ककण्ठौष्ठतालुकम् ।
कुर्वन्तं परया भक्त्या प्रणामं स्तवनं तयोः ॥ ३० ॥
श्रुत्वा तद्वचनं तत्र नीलकण्ठः सुधोपमम् ।
उवाच परया प्रीत्या प्रसन्नस्तं प्रहस्य च ॥ ३१ ॥
शंकर उवाच
गृहं ते कुत्र विप्रर्षे वद वेदविदां वर ।
किं नाम भवतः क्षिप्रं ज्ञातुमिच्छामि सांप्रतम् ॥ ३२ ॥
पार्वत्युवाच
आगतोऽसि कुतो विप्र मम भाग्यादुपस्थितः ।
अद्य मे सफलं जन्म ब्राह्मणो मद्गृहेऽतिथिः ॥ ३३ ॥
अतिथिः पूजितो येन त्रिजगत्तेन पूजितम् ।
तत्रैवाधिष्ठिता देवा ब्राह्मणा गुरवो द्विज ॥ ३४ ॥
तीर्थान्यतिथिपादेषु शश्वत्तिष्ठन्ति निश्चितम् ।
तत्पादधौततोयेन मिश्रितानि लभेद्गृही ॥ ३५ ॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
अतिथिः पूजितो येन स्वात्मशक्त्या यथोचितम् ॥ ३६ ॥
महादानानि सर्वाणि कृतानि तेन भूतले ।
अतिथिः पूजितो येन भारते भक्तिपूर्वकम् ॥ ३७ ॥
नानाप्रकारपुण्यानि वेदोक्तानि च यानि वै ।
तानि वैऽतिथिसेवायाः कलां नार्हन्ति षोडशीम् ॥ ३८ ॥
अपूजितोऽतिथिर्यस्य भवनाद्विनिवर्तते ।
पितृदेवाग्नयः पश्चाद्गुरवो यान्त्यपूजिताः ॥ ३९ ॥
यानिकानि च पापानि ब्रह्महत्यादिकानि च ।
तानि सर्वाणि लभते नाभ्यर्च्यातिथिमीप्सितम् ॥ ४० ॥
ब्राह्मण उवाच
जानासि वेदान्वेदज्ञे वेदोक्तं कुरु पूजनम् ।
क्षुत्तृड्भ्यां पीडितो मातर्वचनं च श्रुतौ श्रुतम् ॥ ४१ ॥
व्याधियुक्तो निराहारो यदा वाऽनशनव्रती ।
मनोरथेनोपहारं भोक्तुमिच्छति मानवः ॥ ४२ ॥
पार्वत्युवाच
भोक्तुमिच्छसि किं विप्र त्रैलोक्ये यत्सुदुर्लभम् ।
दास्यामि भोक्तुं त्वामद्य मज्जन्म सफलं कुरु ॥ ४३ ॥
ब्राह्मण उवाच
व्रते सुव्रतया सर्वमुपहारं समाहृतम् ।
नानाविधं मिष्टमिष्टं भोक्तुं श्रुत्वा समागतः ॥ ४४ ॥
सुव्रते तव पुत्रोऽहमग्रे मां पूजयिष्यसि ।
दत्त्वा मिष्टानि वस्तूनि त्रैलोक्ये दुर्लभानि च ॥ ४५ ॥
ताताः पञ्चविधाः प्रोक्तामातरो विविधाः स्मृताः ।
पुत्रः पञ्चविधः साध्वि कथितो वेदवादिभिः ॥ ४६ ॥
विद्यादाताऽन्नदाता च भयत्राता च जन्मदः ।
कन्यादाता च वेदोक्ता नराणां पितरः स्मृताः ॥ ४७ ॥
गुरुपत्नी गर्भधात्री स्तनदात्री पितुःस्वसा ।
स्वसा मातुः सपत्नी च पुत्रभार्याऽन्नदायिका ॥ ४८ ॥
भृत्यः शिष्यश्च पोष्यश्च वीर्यजः शरणागतः ।
धर्मपुत्राश्च चत्वारो वीर्यजो धनभागिति ॥ ४९ ॥
क्षुत्तृड्भ्यां पीडितो मातर्वृद्धोऽहं शरणागतः ।
सांप्रतं तव वन्ध्याया अनाथः पुत्र एव च ॥ ५० ॥
पिष्टकं परमान्नं च सुपक्वानि फलानि च ।
नानाविधानि पिष्टानि कालदेशोद्भवानि च ॥ ५१ ॥
पक्वान्नं स्वस्तिकं क्षीरमिक्षुमिक्षुविकारजम् ।
घृतं दधि च शाल्यन्नं घृतपक्वं च व्यञ्जनम् ॥ ५२ ॥
लड्डुकानि तिलानां च मिष्टान्नैः सगुडानि च ।
ममाज्ञातानि वस्तूनि सुधया तुल्यकानि च ॥ ५३ ॥
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।
जलं सुनिर्मलं स्वादु द्रव्याण्येतानि वासितम् ॥ ५४ ॥
द्रव्याणि यानि भुक्त्वा मे चारु लम्बोदरं भवेत् ।
अनन्तरत्नोद्भवजे तानि मह्यं प्रदास्यसि ॥ ५५ ॥
स्वामी ते त्रिजगत्कर्ता प्रदाता सर्वसंपदाम् ।
महालक्ष्मीस्वरूपा त्वं सर्वैश्वर्यप्रदायिनी ॥ ५६ ॥
रत्नसिंहासनं रम्यममूल्यं रत्नभूषणम् ।
वह्निशुद्धांशुकं चारु प्रदास्यसि सुदुर्लभम् ॥ ५७ ॥
सुदुर्लभं हरेर्मन्त्रं हरौ भक्तिं दृढां सति ।
हरिप्रिया हरेः शक्तिस्त्वमेव सर्वदा स्थिता ॥ ५८ ॥
ज्ञानं मृत्युंजयं नाम दातृशक्तिं सुखप्रदाम् ।
सर्वसिद्धिं च किं मातरदेयं स्वसुताय च ॥ ५९ ॥
मनः सुनिर्मलं कृत्वा धर्मे तपसि संततम् ।
श्रेष्ठे सर्वं करिष्यामि न कामे जन्महेतुके ॥ ६० ॥
स्वकामात्कुरुते कर्म कर्मणो भोग एव च ।
भोगौ शुभाशुभौ ज्ञेयौ तौ हेतू सुखदुःखयोः ॥ ६१ ॥
दुःखं न कस्माद्भवति सुखं वा जगदम्बिके ।
सर्वं स्वकर्मणो भोगस्तेन तद्विरतो बुधः ॥ ६२ ॥
कर्म निर्मूलयन्त्येव सन्तो हि सततं मुदा ।
हरिभावनबुद्ध्या तत्तपसा भक्तसङ्गतः ॥ ६३ ॥
इन्द्रियद्रव्यसंयोगसुखं विध्वंसनावधि ।
हरिसंलापरूपं च सुखं तत्सार्वकालिकम् ॥ ६४ ॥
हरिस्मरणशीलानां नाऽऽयुर्याति सतां सति ।
न तेषामीश्वरः कालो न च मृत्युंजयो ध्रुवम् ॥ ६५ ॥
चिरं जीवन्ति ते भक्ता भारते चिरजीविनः ।
सर्वसिद्धिं च विज्ञाय स्वच्छन्दं सर्वगामिनः ॥ ६६ ॥
जातिस्मरा हरेर्भक्ता जानते कोटिजन्मनः ।
कथयन्ति कथां जन्म लभन्ते स्वेच्छया मुदा ॥ ६७ ॥
परं पुनन्ति ते पूतास्तीर्थानि स्वीयलीलया ।
पुण्यक्षेत्रेऽत्र सेवायै परार्थं च भ्रमन्ति ते ॥ ६८ ॥
वैष्णवानां पदस्पर्शात्सद्यः पूता वसुंधरा ।
कालं गोदोहमात्रं तु तीर्थे यत्र वसन्ति ते ॥ ६९ ॥
गुरोरास्याद्विष्णुमन्त्रः श्रुतौ यस्य प्रविश्यति ।
तं वैष्णवं तीर्थपूतं प्रवदन्ति पुराविदः ॥ ७० ॥
पुरुषाणां शतं पूर्वमुद्धरन्ति शतं परम् ।
लीलया भारते भक्त्या सोदरान्मातरं तथा ॥ ७१ ॥
मातामहानां पुरुषान्दश पूर्वान्दशापरान् ।
मातुः प्रसूमुद्धरन्ति दारुणाद्यमताडनात् ॥ ७२ ॥
भक्तदर्शनमाश्लेषं मानवाः प्राप्नुवन्ति ये ।
ते स्नाताः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षिताः ॥ ७३ ॥
न लिप्ताः पातकैर्भक्ताः संततं हरिमानसाः ।
यथाऽग्नयः सर्वभक्ष्या यथा द्रव्येषु वायवः ॥ ७४ ॥
त्रिकोटिजन्मनामन्ते प्राप्नोति जन्म मानवम् ।
प्राप्नोति भक्तसङ्गः स मानुषे कोटिजन्मतः ॥ ७५ ॥
भक्तसङ्गाद्भवेद्भक्तेरङ्कुरो जीविनः सति ।
अभक्तदर्शनोदेव स च प्राप्नोति शुष्कताम् ॥ ७६ ॥
पुनः प्रफुल्लतां याति वैष्णवालापमात्रतः ।
अङकुरश्चाविनाशी च वर्धते प्रतिजन्मनि ॥ ७७ ॥
तत्तरोर्वर्धमानस्य हरिदास्यं फलं सति ।
परिणामे भक्तिपाके पार्षदश्च भवेद्धरेः ॥ ७८ ॥
महति प्रलये नाशो न भवेत्तस्य निश्चितम् ।
सर्वसृष्टेश्च संहारे ब्रह्मलोकस्य वेधसः ॥ ७९ ॥
तस्मान्नारायणे भक्तिं देहि मामम्बिके सदा ।
न भवेद्विष्णुभक्तिश्च विष्णुमाये त्वया विना ॥ ८० ॥
तद्व्रतं लोकशिक्षार्थं तत्तपस्तव पूजनम् ।
सर्वेषां फलदात्री त्वं नित्यरूपा सनातनी ॥ ८१ ॥
गणेशरूपः श्रीकृष्णः कल्पे कल्पे तवाऽऽमजः ।
त्वत्क्रोडमागतः क्षिप्रमित्युक्त्वाऽन्तरधीयत ॥ ८२ ॥
कृत्वान्तर्धानमीशश्च बालरूपं विधाय सः ।
जगाम पार्वतीतल्पं मन्दिराभ्यन्तरस्थितम् ॥ ८३ ॥
तल्पस्थे शिववीर्ये च मिश्रितः स बभूव ह ।
ददर्श गेहशिखरं प्रसूते बालके यथा ॥ ८४ ॥
शुद्धचम्पकवर्णाभः कोटिचन्द्रसमप्रभः ।
सुखदृश्यः सर्वजनैश्चक्षूरश्मिविवर्धकः ॥ ८५ ॥
अतीव सुन्दरतनुः कामदेवविमोहनः ।
मुखं निरुपमं बिभच्छारदेन्दुविनिन्दकम् ॥ ८६ ॥
सुन्दरे लोचने बिमभ्रच्चारुपद्मविनिन्तके ।
ओष्ठाधरपुटं बिभ्रत्पक्वबिम्बविनिन्दकम् ॥ ८७ ॥
कपालं च कपोलं च परमं सुमनोहरम् ।
नासाग्रं रुचिरं बिभ्रद्वीन्द्रचञ्चुविनिन्दकम् ॥ ८८ ॥
त्रैलोक्ये वै निरुपमं सर्वाङ्गं बिभ्रदुत्तमम् ।
शयानः शयने रम्ये प्रेरयन्हस्तपादकम् ॥ ८९ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे गणेशोत्पत्तिवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥
GO TOP
|