ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - सप्तमोऽध्यायः

पार्वतीकृतं श्रीकृष्णस्तोत्रकथनम् -


नारायण उवाच
हरेराज्ञां समादाय हरः संहृष्टमानसः ।
उवाच पार्वतीं प्रीत्या हरिसंलापमङ्‌गलम् ॥ १ ॥
शिवाज्ञां च समादाय शिवा संहृष्टमानसा ।
वाद्यं च वादयामास मङ्‌गलं मङ्‌गलव्रते ॥ २ ॥
सुस्नाता सुदती शुद्धा बिभ्रती धौतवाससी ।
संस्थाप्य रत्‍नकलशं शुक्लधान्योपरि स्थिरम् ॥ ३ ॥
आम्रपल्लवसंयुक्तं फलाक्षतसुशोभितम् ।
चन्दनागुरुकस्तूरीकुङ्‌कुमेन विराजितम् ॥ ४ ॥
रत्‍नासनस्था रत्‍नाढ्या रत्‍नोद्‌भवसुता सती ।
रत्‍नसिंहासनस्थांश्च संपूज्य मुनिपुंगवान् ॥ ५ ॥
रत्‍नसिंहासनस्थं च संपूज्य सुपुरोहितम् ।
चन्दनागुरुकस्तूरीरत्‍नभूषणभूषितम् ॥ ६ ॥
संस्थाप्य पुरतो भक्त्या दिक्पालान्‌ रत्‍नभूषितान् ।
देवान्नरांश्च नागांश्च समर्च्य विधिबोधितम् ॥ ७ ॥
समर्च्य परया भक्त्या ब्रह्मविष्णुमहेश्वरान् ।
चन्दनागुरुकस्तूरीकुङ्‌कुमेन विराजितान् ॥ ८ ॥
वह्निशुद्धैः सुवस्त्रैश्च सद्‌रत्‍नैर्भूषणैस्तथा ।
पूजाद्रव्यैश्च विविधैः पूजितान्पुण्यके मुने ॥ ९ ॥
समारेभे व्रतं देवी स्वस्तिवाचनपूर्वकम् ।
आवाह्याभीष्टदेव तं श्रीकृष्णं मङ्‌गले घटे ॥ १० ॥
भक्त्या ददौ क्रमेणैव चोपचारांस्तु षोडश ।
यानि व्रते विधेयानि देयानि विविधानि च ॥ ११ ॥
प्रददौ तानि सर्वाणि प्रत्येकं फलदानि च ।
व्रतोक्तमुपहारं च दुर्लभं भुवनत्रये ॥ १२ ॥
तच्च सर्वं ददौ भक्त्या सुव्रते सुव्रता सती ।
दत्त्वा द्रव्याणि सर्वाणि वेदमन्त्रेण सा सती ॥ १३ ॥
होमं च कारयामास त्रिलक्षं तिलसर्पिषाः ।
ब्राह्मणान्भोजयामास पूजयित्वाऽतिथींस्तथा ॥ १४ ॥
भोजयामास सा देवी सुव्रते सुव्रता सती ।
प्रत्यहं सविधानं च चक्रे सा पूर्णवत्सरम् ॥ १५ ॥
समाप्तिदिवसे विप्रस्तामुवाच पुरोहितः ।
सुव्रते सुव्रते मह्यं देहि त्वं पतिदक्षिणाम् ॥ १६ ॥
इति तद्वचनं श्रुत्वा विलप्य सुरसंसदि ।
मूर्च्छां प्राप महामाया मायामोहितचेतसा ॥ १७ ॥
तां च ते मूर्च्छितां दृष्ट्‍वा प्रहस्य मुनिपुंगवाः ।
शंकरं प्रेषयामासुर्ब्रह्मा विष्णुश्च नारद ॥ १८ ॥
संप्रार्थितः सभासद्‌भिः शिवां बोधयितुं तदा ।
शिवःसमुद्यमं चक्रे प्रवक्तुं वदतां वरः ॥ १९ ॥
महादेव उवाच
उत्तिष्ठ भद्रे भद्रं ते भविष्यति न संशयः ।
सांप्रतं चेतनं कृत्वा मदीयं वचनं शृणु ॥ २० ॥
शिवः शिवां तामित्युक्त्वा शुष्ककंठौष्ठतालुकाम् ।
वक्षसि स्थापयामास कारयामास चेतनाम् ॥ २१ ॥
हितं सत्यं मितं सर्वं परिणामसुखावहम् ।
यशस्करं च फलदं प्रवक्तुमुपचक्रमे ॥ २२ ॥
शृणु देवि प्रवक्ष्यामि यद्वेदेन निरूपितम् ।
सर्वसंमतमिष्टं च धर्मार्थं धर्मसंसदि ॥ २३ ॥
सर्वेषां कर्मणां देवि सारभूता च दक्षिणा ।
यशोदा फलदा नित्यं धर्मिष्ठे धर्मकर्मणि ॥ २४ ॥
दैवं वा पैतृकं वाऽपि नित्यं नैमित्तिकं प्रिये ।
यत्कर्म दक्षिणाहीनं तत्सर्वं निष्फलं भवेत् ॥ २५ ॥
दाता च कर्मणा तेन कालसूत्रं व्रजेद्ध्रुवम् ।
देहान्ते दैन्यमाप्नोति शत्रुणा परिपीडितः ॥ २६ ॥
दक्षिणा विप्रमुद्‌दिश्य तत्कालं तु न दीयते ।
तन्मुहूर्ते व्यतीते तु दक्षिणा द्विगुणा भवेत् ॥ २७ ॥
चतुर्गुणा दिनातीते पक्षे शतगुणा भवेत् ।
मासे पञ्चशतघ्ना स्यात्षण्मासे तच्चतुर्गुणा ॥ २८ ॥
संवत्सरे व्यतीते तु कर्म तन्निष्फलं भवेत् ।
दाता च नरकं याति यावद्वर्षसहस्रकम् ॥ २९ ॥
पुत्रपौत्रधनैश्वर्यं क्षयमाप्नोति पातकात् ।
धर्मो नष्टो भवेत्तस्य धर्महीने च कर्मणि ॥ ३० ॥
विष्णुरुवाच
रक्षस्व धर्मं धर्मिष्ठे धर्मज्ञे धर्मकर्मणि ।
सर्वेषां च भवेद्‍रक्षा स्वधर्मपरिपालने ॥ ३१ ॥
ब्रह्मोवाच
यश्च केन निमित्तेन न धर्मं परिरक्षति ।
धर्मे नष्टे च धर्मज्ञे तस्य कर्ता विनश्यति ॥ ३२ ॥
धर्म उवाच
मां रक्ष यत्‍नतः साध्वि प्रदाय पतिदक्षिणाम् ।
मयि स्थिते महासाध्वि सर्वं भद्रं भविष्यति ॥ ३३ ॥
देवा ऊचुः
धर्मं रक्ष महासाध्वि कुरु पूर्णं व्रतं सति ।
वयं तव व्रते पूर्णे कुर्मस्त्वां पूर्णमानसाम् ॥ ३४ ॥
मुनय ऊचुः
कृत्वा साध्वि पूर्णहोमं देहि विप्रायदक्षिणाम् ।
स्थितेष्वस्मासु भुवि ते किमभद्रं भविष्यति ॥ ३५ ॥
सनत्कुमार उवाच
शिवे शिवं देहि मह्यं न चेद्‍व्रतफलं त्यज ।
सुचिरं संचितस्यापि स्वात्मनस्तपसः फलम् ॥ ३६ ॥
कर्मण्यदक्षिणे साध्वि यागस्याहं तु तत्फलम् ।
प्राप्स्यामि यजमानस्य संपूर्णं कर्मणः फलम् ॥ ३७ ॥
पार्वत्युवाच
किं कर्मणा मे देवेशाः किं मे दक्षिणया मुने ।
किं पुत्रेण च धर्मेण यत्र भर्ता च दक्षिणा ॥ ३८ ॥
वृक्षार्चने फलं किं वै यदि भूमिर्न चार्च्यते ।
गते च कारणे कार्यं कुतः सस्यं कुतः फलम् ॥ ३९ ॥
प्राणास्त्यक्ताः स्वेच्छया चेद्‌देहैः स्यात्किं प्रयोजनम् ।
दृष्टिशक्तिविहीनेन चक्षुषा किं प्रयोजनम् ॥ ४० ॥
शतपुत्रसमः स्वामी साध्वीनां च सुरेश्वराः ।
यदि भर्ता व्रते देयं किं व्रतेन सुतेन वा ॥ ४१ ॥
भर्तुरंशश्च तनयः केवलं भर्तृ मूलकः ।
यत्र मूलं भवेद्‌भ्रष्टं तद्वाणिज्यं च निष्फलम् ॥ ४२ ॥
विष्णुरुवाच
पुत्रादपि परः स्वामी धर्मश्च स्वामिनः परः ।
नष्टे धर्मे च धर्मिष्ठे स्वामिना किं सुतेन वा ॥ ४३ ॥
ब्रह्मोवाच
स्वामिनश्च परो धर्मो धर्मात्सत्यं च सुव्रते ।
सत्यं संकल्पितं कर्म न तु भ्रष्ट कुरु व्रतम् ॥ ४४ ॥
पार्वत्युवाच
निरूपितश्च वेदेषु स्वशब्दो धनवाचकः ।
तद्यस्यास्तीति स स्वामी वेदज्ञ शृणु मद्वचः ॥ ४५ ॥
तस्य दाता सदा स्वामी न च स्वं स्वामितां लभेत् ।
अहोऽव्यवस्था भवतां वेदज्ञानामबोधतः ॥ ४६ ॥
धर्म उवाच
पत्‍नी विनाऽन्यं स्वं साध्वि स्वामिनं दातुमक्षमा ।
दम्पती ध्रुवमेकाङ्‌गौ द्वयोर्दाने द्वकौ समौ ॥ ४७ ॥
पार्वत्युवाच
पिता ददाति जामात्रे स च गृह्णाति तत्सुताम् ।
न श्रुतं विपरीतं च श्रुतौ श्रुतिपरायणाः ॥ ४८ ॥
देवा ऊचुः
बुद्धिस्वरूपा त्वं दुर्गे बुद्धिमन्तो वयं त्वया ।
वेदज्ञे वेदवादेषु के वा त्वां जेतुमीश्वराः ॥ ४९ ॥
निरूपिता पुण्यके तु व्रते स्वामी च दक्षिणा ।
श्रुतौ श्रुतो यः स धर्मो विपरीतो ह्यधर्मकः ॥ ५० ॥
पार्वत्युवाच
केवलं वेदमाश्रित्य कः करोति विनिर्णयम् ।
बलवाँल्लौकिको वेदाल्लोकाचारं च कस्त्यजेत् ॥ ५१ ॥
वेदे प्रकृतिपुंसोश्च गरीयान्पुरुषो ध्रुवम् ।
निबोधत सुराः प्राज्ञा बालाऽहं कथयामि किम् ॥ ५२ ॥
बृहस्पतिरुवाच
न पुमांसं विना सृष्टिर्न साध्वि प्रकृतिं विना ।
श्रीकृष्णश्च द्वयोः स्रष्टा समौ प्रकृतिपूरुषौ ॥ ५३ ॥
पार्वत्युवाच
सर्वस्रष्टा च यः कृष्णः सोंऽशेन सगुणः पुमान् ।
पुमान्गरीयान्प्रकृतेस्तथैव न ततश्च सा ॥ ५४ ॥
एतस्मिन्नन्तरे देवा मुनयस्तत्र संसदि ।
रत्‍नेन्द्रसाररचितमाकाशे ददृशू रथम् ॥ ५५ ॥
पार्षदैः संपरिवृतं सर्वैः श्यामैश्चतुर्भुजैः ।
वनमालापरिवृतै रत्‍नभूषणभूषितैः ॥ ५६ ॥
अवरुह्य ततो यानादाजगाम सभातलम् ।
तुष्टुवुस्तं सुरेन्द्रास्ते देवं वैकुण्ठवासिनम् ॥ ५७ ॥
शङ्‌गचक्रगदापद्मधरमीशं चतुर्भुजम् ।
लक्ष्मीसरस्वतीकान्तं शान्तं तं सुमनोहरम् ॥ ५८ ॥
सुखदृश्यमभक्तानामदृश्यं कोटिजन्मभिः ।
कोटिकन्दर्पलावण्यं कोटिचन्द्रसमप्रभम् ॥ ५९ ॥
अमूल्यरत्‍नरचितचारुभूषणभूषितम् ।
सेव्यं ब्रह्मादिदेवैश्च सेवकैः सततं स्तुतम् ॥ ६० ॥
तद्‌भासा संपरिच्छन्नैर्वेष्टितं च सुरर्षिभिः ।
वासयामास तं ते च रत्‍नसिंहासने वरे ॥ ६१ ॥
तं प्रणेमुश्च शिरसा ब्रह्मशक्तिशिवादयः ।
संपुटाञ्जलयः सर्वे पुलकाङ्‌गाश्रुलोचनाः ॥ ६२ ॥
सस्मितस्तांश्च पप्रच्छ सर्वं मधुरया गिरा ।
प्रबोधितः सुबोधज्ञः प्रवक्तुमुपचक्रमे ॥ ६३ ॥
नारायण उवाच
सह बुद्ध्या बुद्धिमन्तो न वक्तुमुचितं सुराः ।
सर्वे शक्त्या यया विश्वे शक्तिमन्तो हि जीविनः ॥ ६४ ॥
ब्रह्मादितृणपर्यन्तं सर्वं प्राकृतिकं जगत् ।
सत्यं सत्यं विना मां च मया शक्तिः प्रकाशिता ॥ ६५ ॥
आविर्भूता च सा मत्तः सृष्टौ देवी मदिच्छया ।
तिरोहिता च साऽशेषे सृष्टिसंहरणे मयि ॥ ६६ ॥
प्रकृतिः सृष्टिकर्त्री च सर्वेषां जननी परा ।
मम तुल्या च मन्माया तेन नारायणी स्मृता ॥ ६७ ॥
सुचिरं तपसा तप्तं शंभुना ध्यायता च माम् ।
तेन तस्मै मया दत्ता तपसां फलरूपिणी ॥ ६८ ॥
व्रतं च लोकशिक्षार्थमस्या न स्वार्थमेव च ।
स्वयं व्रतानां तपसां फलदात्री जगत्‌त्रये ॥ ६९ ॥
मायया मोहिताः सर्वे किमस्या वास्तवं व्रतम् ।
साध्यमस्या व्रतफलं कल्पे कल्पे पुनः पुनः ॥ ७० ॥
सुरेश्वरा मदंशाश्च ब्रह्मशक्तिमहेश्वराः ।
कलाः कलांशरूपाश्च जीविनश्च सुरादयः ॥ ७१ ॥
मृदा विना घटं कर्तुं कुलालश्च यथाऽक्षमः ।
विना स्वर्णं स्वर्णकारः कुण्डलं कर्तुमक्षमः ॥ ७२ ॥
विना शक्त्या तथाऽहं च स्वसृष्टिं कर्तुमक्षमः ।
शक्तिप्रधाना सृष्टिश्च सर्वदर्शनसंमता ॥ ७३ ॥
अहमात्मा हि निर्लिप्तोऽदृश्यः साक्षी च देहिनाम् ।
देहाः प्राकृतिकाः सर्वे नश्वराःपाञ्चभौतिकाः ॥ ७४ ॥
अहं नित्यः शरीरी च भानुविग्रहविग्रहः ।
सर्वाधारा सा प्रकृतिः सर्वात्माऽहं जगत्सु च ॥ ७५ ॥
अहमात्मा मनो ब्रह्मा ज्ञानरूपो महेश्वरः ।
पञ्चप्राणाः स्वयं विष्णुर्बुद्धिः प्रकृतिरीश्वरी ॥ ७६ ॥
मेधानिद्रादयश्चैताः सर्वाश्च प्रकृतेः कलाः ।
सा च शैलेन्द्रकन्यैषा त्विति वेदे निरूपितम् ॥ ७७ ॥
अहं गोलोकनाथश्च वैकुण्ठेशः सनातनः ।
गोपीगोपैः परिवृतस्तत्रैव द्विभुजः स्वयम् ॥
चतुर्भुजोऽत्र देवेशो लक्ष्मीशः पार्षदैर्वृतः ॥ ७८ ॥
ऊर्ध्वं परश्च वैकुण्ठात्पञ्चाशत्कोटियोजनात् ।
ममाऽऽश्रयश्च गोलोको यत्राहं गोपिकापतिः ॥ ७९ ॥
व्रतारोध्यः स द्विभुजः स च तत्फलदायकः ।
यद्‍रूपं चिन्तयेद्यो हि तच्च तत्फलदायकः ॥ ८० ॥
व्रतं पूर्णं कुरु शिवे शिवं दत्त्वा च दक्षिणाम् ।
पुनः समुचितं मूल्यं दत्त्वा नाथ ग्रहीष्यसि ॥ ८१ ॥
विष्णुदेहा यथा गावो विष्णुदेहस्तथा शिवः ।
द्विजाय दत्त्वा गोमूल्यं गृहाण स्वामिनं शुभे ॥ ८२ ॥
यज्ञपत्‍नीं यथा दातुं क्षमः स्वामी सदैव तु ।
तथा सा स्वामिनं दातुमीश्वरोति श्रुतेर्मतम् ॥ ८३ ॥
इत्युक्त्वा स सभामध्ये तत्रैवान्तरधीयत ।
हृष्टास्ते सा च संहृष्टा दक्षिणां दातुमुद्यता ॥ ८४ ॥
कृत्वा शिवा पूर्णहोमं सा शिवं दक्षिणां ददौ ।
स्वस्तीत्युक्त्वा च जग्राह कुमारो देवसंसदि ॥ ८५ ॥
उवाच दुर्गा संत्रस्ता शुष्कण्ठौष्ठतालुका ।
कृताञ्जलिपुटा विप्रं हृदयेन विदूयता ॥ ८६ ॥
पार्वत्युवाच
गोमूल्यं मत्पतिसममिति वेदे निरूपितम् ।
गवां लक्षं प्रयच्छामि देहि मत्स्वामिनं द्विज ॥ ८७ ॥
तदा दास्यामि विप्रेभ्यो दानानि विविधानि च ।
आत्महीनो हि देहश्च कर्म किं कर्तुमीश्वरः ॥ ८८ ॥
सनत्कुमार उवाच
गवां लक्षेण मे देवि विप्रस्य किं प्रयोजनम् ।
दत्तस्यामूल्यरत्‍नस्य गवां प्रत्यर्पणेन च ॥ ८९ ॥
स्वस्य स्वस्य स्वयं दाता लोकः सर्वो जगत्‌त्रये ।
कर्तुरेवेप्सितं कर्म भवेत्किं वा परेच्छया ॥ ९० ॥
दिगम्बरं पुरः कृत्वा भ्रमिष्यामि जगत्‌त्रयम् ।
बालकानां बालिकानां समूहस्मितकारणम् ॥ ९१ ॥
इत्युक्त्वा ब्रह्मणः पुत्रो गृहीत्वा शंकरं मुने ।
संनिधौ वासयामास तेजस्वी देवसंसदि ॥ ९२ ॥
दृष्ट्‍वा शिवं गृह्यमाणं कुमारेण च पार्वती ।
समुद्यता तनुं त्यक्तुं शुष्ककण्ठौष्ठतालुका ॥ ९३ ॥
विचिन्त्य मनसा साध्वीत्येवमेव दुरत्ययम् ।
न दृष्टोऽभीष्टदेवश्च न च प्राप्तं फलं व्रते ॥ ९४ ॥
एतस्मिन्नन्तरे देवाः पार्वतीसहितास्तदा ।
सद्यो ददृशुराकाशे तेजसां निकरं परम् ॥ ९५ ॥
कोटिसूर्यप्रभोर्ध्वं च प्रज्वलन्तं दिशो दश ।
कैलासशैलं पुरतः सर्वदेवादिभिर्युतम् ॥ ९६ ॥
सर्वाश्रयं गणाच्छन्नं विस्तीर्णं मण्डलाकृतिम् ।
तच्च दृष्ट्‍वा भगवतस्तुष्टुवुस्ते क्रमेण च ॥ ९७ ॥
विष्णुरुवाच
ब्रह्माण्डानि च सर्वाणि यल्लोमविवरेषु च ।
सोऽयं ते षोडशांशश्च के वयं यो महाविराट् ॥ ९८ ॥
ब्रह्मोवाच
वेदोपयुक्तं दृश्यं यत्प्रत्यक्षं द्रष्टुमीश्वर ।
स्तोतुं तद्वर्णितुमहं शक्तः किं स्तौमि तत्परः ॥ ९९ ॥
महादेव उवाच
ज्ञानाधिष्ठातृदेवोऽहं स्तौमि ज्ञानपरं च किम् ।
सर्वानिर्वचनीयं तं त्वां च स्वेच्छामयं विभुम् ॥ १०० ॥
धर्म उवाच
अदृश्यमवतारेषु यद्‌दृश्य सर्वजन्तुभिः ।
किं स्तौमि तेजोरूपं तद्‌भक्तानुग्रहविग्रहम् ॥ १०१ ॥
देवा ऊचुः
के वयंत्वत्कलांशाश्च किं वा त्वां स्तोतुमीश्वराः ।
स्तोतुं न शक्ता वेदायं न च शक्ता सरस्वती ॥ १०२ ॥
मुनय ऊचुः
वेदान्पठित्वा विद्वांसो वयं किं वेदकारणम् ।
स्तोतुमीशा न वाणी च त्वां वाङ्‌मनसयोःपरम् ॥ १०३ ॥
सरस्वत्युवाच
वागधिष्ठातृदेवीं मां वदन्ते वेदवादिनः ।
किंचिन्न शक्ता त्वां स्तोतुमहो वाङ्‌मनसोः परम् ॥ १०४ ॥
सावित्र्युवाच
वेदप्रसूरहं नाथ सृष्टा त्वत्कलया पुरा ।
किं स्तौमि स्त्रीस्वभावेन सर्वकारणकारणम् ॥ १०५ ॥
लक्ष्मीरुवाच
त्वदंशविष्णुकान्ताऽहं जगत्पोषणकारिणी ।
किं स्तौमि त्वत्कलासृष्टा जगतां बीजकारणम् ॥ १०६ ॥
हिमालय उवाच
हसन्ति सन्तो मां नाथ कर्मणास्थावरं परम् ।
स्तोतुं समुद्यतं क्षुद्रः किं स्तौमि स्तोतुमक्षमः ॥ १०७ ॥
क्रमेण सर्वे तं स्तुत्वा देवा विररमुर्मुने ।
देव्यश्च मुनयः सर्वे पार्वती स्तोतुमुद्यतः ॥ १०८ ॥
धौतवस्त्रा जटाभारं बिभ्रती सुव्रता व्रते ।
प्रेरिता परमात्मानं व्रताराध्यं शिवेन च ॥ १०९ ॥
ज्वलदग्निशिखारूपा तेजोमूर्तिमती सती ।
तपसां फलदा माता जगतां सर्वकर्मणाम् ॥ ११० ॥
पार्वत्युवाच
कृष्ण जानासि मां भद्र नाहं त्वां ज्ञातुमीश्वरी ।
के वा जानन्ति वेदज्ञा वेदा वा वेदकारकाः ॥ १११ ॥
त्वदंशास्त्वां न जानन्ति कथं ज्ञास्यन्ति ते कलाः ।
त्वं चापि तत्त्वं जानासि किमन्ये ज्ञातुमीश्वराः ॥ ११२ ॥
सूक्ष्मात्सूक्ष्मतमोऽव्यक्तः स्थूलात्स्थूलतमो महान् ।
विश्वस्त्वं विश्वरूपश्च विश्वबीजंसनातनः ॥ ११३ ॥
कार्यं त्वं कारणं त्वं च कारणानां च कारणम् ।
तेजःस्वरूपो भगवान्निर्विकारो निराश्रयः ॥ ११४ ॥
निर्लिप्तो निर्गुणः साक्षी स्वात्मारामः परात्परः ।
प्रकृतीशो विराड्बीजं विराड्‌रूपस्त्वमेव च ॥ ११५ ॥
सगुणस्त्वं प्राकृतिकः कलया सृष्टिहेतवे ।
प्रकृतिस्त्वं पुमांस्त्वं च त्वदन्यो न क्वचिद्‌भवेत् ॥ ११६ ॥
जीवस्त्वं साक्षिणो भोगी स्वात्मनः प्रतिबिम्बकम् ।
कर्म त्वं कर्मबीजं त्वं कर्मणां फलदायकः ॥ ११७ ॥
ध्यायन्ति योगिनस्तेजस्त्वदीयमशरीरि यत् ।
केचिच्चतुर्भुजं शान्तं लक्ष्मीकान्तं मनोहरम् ॥ ११८ ॥
वैष्णवाश्चैव साकारं कमनीयं मनोहरम् ।
शङ्‌खचक्रगदापद्मधरं पीताम्बरं परम् ॥ ११९ ॥
द्विभुजं कमनीयं च किशोरं श्यामसुन्दरम् ।
शान्तं गोपाङ्‌गनाकान्तं रत्‍नभूषणभूषितम् ॥ १२० ॥
एवं तेजस्विनं भक्ताः सेवन्ते संततं मुदा ।
ध्यायन्ति योगिनो यत्तत्कुतस्तेजस्विनं विना ॥ १२१ ॥
तत्तेजो बिभ्रतां देव देवानां तेजसा पुरा ।
आविर्भूता सुराणां च वधाय ब्रह्मणा स्तुता ॥ १२२ ॥
नित्यातेजः स्वरूपाऽहं धृत्वा वै विग्रहं विभो ।
स्त्रीरूपं कमनीयं च विधाय समुपस्थिता ॥ १२३ ॥
मायया तव मायाऽहं मोहयित्वाऽसुरान्पुरा ।
निहत्य सर्वाञ्छैलेन्द्रमगमं तं हिमालयम् ॥ १२४ ॥
ततोऽहं संस्तुता देवैस्तारकाक्षेण पीडितैः ।
अभवं दक्षजायायां शिवस्त्री पूर्वजन्मनि ॥ १२५ ॥
त्यक्त्वा देहं दक्षयज्ञे शिवाऽहं शिवनिन्दया ।
अभवं शैलजायाया शैलाधीशस्य कर्मणा ॥ १२६ ॥
अनेकतपसा प्राप्तः शिवश्चात्रापि जन्मनि ।
पाणिं जग्राह मे योगी प्रार्थितो ब्रह्मणा विभुः ॥ १२७ ॥
शृङ्‌गारजं च तत्तेजो नालभं देवमायया ।
स्तौमि त्वामेव तेनेष्ट्‍वा पुत्रदुःखेन दुःखिता ॥ १२८ ॥
व्रते भवद्विधं पुत्रं लब्धुमिच्छामि सांप्रतम् ।
देवेन विहिता वेदे साङ्‌गे स्वस्वामिदक्षिणा ॥ १२९ ॥
श्रुत्वा सर्वं कृपासिन्धो कृपां मे कर्तुमर्हसि ।
इत्युक्त्वा पार्वती तत्र विरराम च नारद ॥ १३० ॥
भारते पार्वतीस्तोत्रं यः शृणोति सुसंयतः ।
सत्पुत्रं लभते नूनं विष्णुतुल्यपराक्रमम् ॥ १३१ ॥
संवत्सरं हविष्याशी हरिमभ्यर्च्य भक्तितः ।
सुपुण्यकव्रतफलं लभते नात्र संशयः ॥ १३२ ॥
कृष्णस्तोत्रमिदं ब्रह्मन्सर्वसंपत्तिवर्धनम् ।
सुखदं मोक्षदं सारं स्वामिसौभाग्यवर्धनम् ॥ १३३ ॥
सर्वसौन्दर्यबीजं च यशोराशिविवर्धनम् ।
हरिभक्तिप्रदं तत्त्वज्ञानबुद्धिसुखप्रदम् ॥ ॥ १३४ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे पुण्यकव्रते पतिदाने पार्वतीकृतं
श्रीकृष्णस्तोत्रकथनं नामसप्तमोऽध्यायः ॥ ७ ॥


GO TOP