ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - षष्ठोऽध्यायः

पुण्यकव्रताज्ञाग्रहणम् -


शौनक उवाच
नारायणवचः श्रुत्वा नारदो हृष्टमानसः ।
किं पप्रच्छ पुनः साधो तन्मे ब्रूहि तपोधन ॥ १ ॥
सूत उवाच
नारायणवचः श्रुत्वा नारदो हृष्टमानसः ।
व्रतारम्भविधानं च संप्रष्टुमुपचत्रमे ॥ २ ॥
नारद उवाच
कृतं केन प्रकारेण व्रतमेतच्छुभावहम् ।
तन्मे ब्रूहि मुनिश्रेष्ठ पार्वत्या भर्तुराज्ञया ॥ ३ ॥
ललाभ जन्म गोपीशः कृते सुव्रतया व्रते ।
ब्रह्मन्तेन प्रकारेण तन्नः शंसितुमर्हसि ॥ ४ ॥
नारायण उवाच
कथयित्वा कथां दिव्यां विधानं च व्रतस्य च ।
स्वयं विधाता तपसां जगाम तपसे शिवः ॥ ५ ॥
हरेराराधनव्यग्रो मूर्तिभेदधरो हरिः ।
हरिभावनशीलश्च हरिध्यानपरायणः ॥ ६ ॥
परमानन्दपूर्णश्च ज्ञानानन्दः सनातनः ।
दिवानिशं न जानाति हरिमन्त्रं बहिः स्मरन् ॥ ७ ॥
प्रहृष्टमनसा देवी पार्वती भर्तुराज्ञया ।
किंकरान्प्रेरयामास विप्रांश्च व्रतहेतवे ॥ ८ ॥
आनीय सर्वद्रव्याणि व्रते योग्यानि यानि च ।
व्रतं कर्तु समारेभे शुभदा सा शुभे क्षणे ॥ ९ ॥
सनत्कुमारो भगवानाजगाम विधेः सुतः ।
मूर्तिमांस्तेजसा राशिः प्रज्वलन्ब्रह्मतेजसा ॥ १० ॥
ब्रह्मा जगाम हृष्टश्च ब्रह्मलोकात्सभार्यकः ।
अतित्रस्तो हि भगवानाजगाम सुरेश्वरः ॥ ११ ॥
विष्णुः क्षीरोदशायी च सलक्ष्मीकश्चतुर्भुजः ।
भगवाञ्जगतां पाता शास्ता भर्ता सपार्षदः ॥ १२ ॥
वनमालाधरः श्यामो भूषितो रत्‍नभूषणैः ।
तथा संभृतसंभारो रत्‍नयानेन नारद ॥ १३ ॥
सनकश्च सनन्दश्च कपिलश्च सनातनः ।
आसुरिश्च क्रतुर्हंसो वोढुः पञ्चशिखोऽरुणिः ॥ १४ ॥
यतिश्च सुमतिश्चैव वसिष्ठश्च सहानुगः ।
पुलहश्च पुलस्त्यश्चाप्यत्रिश्च भृगुरङ्‌गिराः ॥ १५ ॥
अगस्त्यश्च प्रचेताश्च दुर्वासाश्च्यवनस्तथा ।
मरीचिः कश्यपः कण्वो जरत्कारुश्च गौतमः ॥ १६ ॥
बृहस्पतिरुतथ्यश्च संवर्तः सौभरिस्तथा ।
जाबालिर्जमदग्निश्च जैगीषव्यश्च देवलः ॥ १७ ॥
गोकामुखो वक्ररथः पारिभद्रः पराशरः ।
विश्वामित्रो वामदेव ऋष्यशृङ्‌गो विभाण्डकः ॥ १८ ॥
मार्कण्डेयो मृकण्डुश्च पुष्करो लोमशस्तथा ।
कौत्सो वत्सश्च दक्षश्च बालाग्निरघमर्षणः ॥ १९ ॥
कात्यायनः कणादश्च पाणिनिः शाकटायनः ।
शङ्‌कुरापिशलिश्चैव शाकल्यः शङ्‌ख एव च ॥ २० ॥
एते चान्ये च बहवः सशिष्यामुनयो मुने ।
आवां च धर्मपुत्रौ च नरनारायणौ समौ ॥ २१ ॥
दिक्पालाश्च तथा देवा यक्षगन्धर्वकिन्नराः ।
आजग्मुः पर्वताः सर्वे सगणाः पार्वतीव्रते ॥ २२ ॥
हिमालयः शैलराजः सापत्यश्च सभार्यकः ।
सगणः सानुगश्चैव रत्‍नभूषणभूषितः ॥ २३ ॥
तथा संभृतसंभारो नानाद्रव्यसमन्वितः ।
मणिमाणिक्यरत्‍नानि व्रते योग्यानि यानि च ॥ २४ ॥
नानाप्रकारवस्तूनि जगत्यां दुर्लभानि च ।
लक्षं च गजरत्‍नानामश्वरत्‍नं त्रिलक्षकम् ॥ २५ ॥
दशलक्षं गवां रत्‍नं शतलक्षं सुवर्णकम् ।
रुचकानां हीरकाणां स्पर्शानां च तथैव च ॥ २६ ॥
मुक्तानां च चतुर्लक्षं कौस्तुभानां सहस्रकम् ।
सुस्वादुनानाद्रव्याणां लक्षभाराणि कौतुकी ॥
अनन्तरत्‍नप्रभव आजगाम सुताव्रते ॥ २७ ॥
ब्राह्मणा मनवः सिद्धा नागा विद्याधरास्तथा ।
संन्यासिनो भिक्षुकाश्च बन्दिनः पार्वतीव्रते ॥ २८ ॥
विद्याधरी नर्तकी च नर्तकाप्सरसां गणाः ।
नानाविधा वाद्यभाण्डा आजग्मुः शिवमन्दिरम् ॥ २९ ॥
कैलासराजमार्गं च चन्दनेन सुसंस्कृतम् ।
आम्रपल्लवसूत्राढ्यं कदलीस्तम्भशोभितम् ॥ ३० ॥
दूर्वाधान्यफलैः पर्णलाजषुष्पैर्विभूषितम् ।
निर्मितं पद्मरागेण ददृशुस्ते गणा मुदा ॥ ३१ ॥
उच्चैः सिंहासनेष्वेते पूजिताः शंकरेण च ।
कैलासवासिनः सर्वे परमानन्दसंयुताः ॥ ३२ ॥
दानाध्यक्षः शुनाशीरः कुबेरः कोशरक्षकः ।
आदेष्टा च स्वयं सूर्यः परिवेष्टा जलाधिपः ॥ ३३ ॥
दध्नां नद्यः सहस्राणि दुग्धानां च तथैव च ।
सहस्राणि घृतानां च गुडानां च शतानि च ॥ ३४ ॥
माध्वीकानां सहस्राणि तैलानां च शतानि च ।
लक्षाणि चैव तक्राणां बभूवुः पार्वतीव्रते ॥ ३५ ॥
पीयूषाणां च कुम्भानि शतलक्षाणि नारद ।
मिष्टान्नानां शर्कराणां बभूवुर्लक्षराशयः ।
यवगोधूमचूर्णानां घृताक्तानां च नारद ॥ ३६ ॥
स्वस्तिकानां च पूपानां बभूवुर्लक्षराशयः ।
गुडसंस्कृतलाजानां बभूवुः कोटिराशयः ॥ ३७ ॥
शालीनां पृथुकानां च राशीनां दशकोटयः ।
वरतण्डुलराशीनां मुने संख्या न विद्यते ॥ ३८ ॥
स्वर्णरौप्यप्रवालानां मणीनां च महामुने ।
बभूवुः पर्वतास्तत्र कैलासे पार्वतीव्रते ॥ ३९ ॥
पायसं पिष्टकं चैव शाल्यन्नं सुमनोहरम् ।
चकार लक्ष्मीः पाकं च व्यञ्जनं घृतसंस्कृतम् ॥ ४० ॥
बुभुजे देवर्षिगणैः शिवो नारायणेन च ।
बभूवुर्लक्षविप्राश्च परिवेषणकारकाः ॥ ४१ ॥
ताम्बूलं च ददौ तेभ्यः कर्पूरादिसुवासितम् ।
रत्‍नसिंहासनस्थेभ्यो विप्रलक्षाः सुदक्षकाः ॥ ४२ ॥
रत्‍नसिंहासनस्थं च विष्णुं क्षीरोदशायिनम् ।
सेव्यमानं पार्षदैश्च सस्मितैः श्वेतचामरैः ॥ ४३ ॥
ऋषिभिः स्तूयमानं च सिद्धैर्देवगणैस्तथा ।
विद्याधरीणां नृत्यानि पश्यन्तं सस्मितं मुदा ॥ ४४ ॥
गन्धर्वाणां च संगीतं श्रुतवन्तं मनोहरम् ।
पप्रच्छ शंकरो ब्रह्मन्ब्रह्मेशं प्रीतिपूर्वकम् ॥ ४५ ॥
ब्रह्मणा प्रेरितो युक्तं व्रतं कर्तव्यमीप्सितम् ।
देवर्षिगणपूर्णायां सभायां संपुटाञ्जलिः ॥ ४६ ॥
महादेव उवाच
मदीयं वचनं नाथ श्रीनिवास शृणु प्रभो ।
तपःस्वरूप तपसां कर्मणां च फलप्रद ॥ ४७ ॥
व्रतानां जपयज्ञानां पूजानां सर्वपूजित ।
सर्वेषां बीजरूपेण वाञ्छाकल्पतरो हरे ॥ ४८ ॥
सुपुण्यकव्रतं कर्तुं ब्रह्मन्निच्छति पार्वती ।
पुत्रार्थिनी सा शोकार्ता हृदयेन विदूयता ॥ ४९ ॥
रतिभङ्‌गे कृते देवैर्व्यर्थवीर्यशुचाऽर्दिता ।
प्रबोधिता मया साध्वी विविधैर्वचनामृतैः ॥ ५० ॥
सत्पुत्रं स्वामिसौभाग्यं सुव्रता याचते व्रते ।
ताभ्यां विना न संतुष्टा स्वप्राणांस्त्यक्तुमिच्छति ॥ ५१ ॥
पुरा त्यक्त्वा स्वदेहं च पितृयज्ञे च मानिनी ।
मन्निन्दया हिमवति पुनर्जन्म ललाभ सा ॥ ५२ ॥
सर्व जानासि वृत्तान्तं सर्वज्ञं त्वां वदामि किम् ।
काऽऽज्ञा तां वद तत्त्वज्ञ परिणामशुभप्रदाम् ॥ ५३ ॥
दुर्निवार्यश्च सर्वेश स्त्रीस्वभावश्च चापलः ।
दुस्त्याज्यं योगिभिः सिद्धैरस्माभिश्च तपस्विभिः ॥ ५४ ॥
जितेन्द्रियैर्जितक्रोधैः स्त्रीरूपं मोहकारणम् ।
सर्वमायाकरण्डं च कामवर्धनकारणम् ॥ ५५ ॥
ब्रह्मास्त्रं कामदेवस्य दुर्भेद्यं जयकारणम् ।
सुनिर्मितं च विधिना सर्वाद्यं विधिपूर्वकम् ॥ ५६ ॥
मोक्षद्वारकपाटं च हरिभक्तिनिरोधनम् ।
संसारबन्धनस्तम्भरज्जुरूपमकृन्तनम् ॥ ५७ ॥
वैराग्यनाशबीजं च शश्वद्‍रागविवर्धनम् ।
पत्तनं साहसानां च दोषाणामालयं सदा ॥ ५८ ॥
अप्रत्ययानां क्षेत्रं च स्वयं कपटमूर्तिमत् ।
अहंकाराश्रयं शश्वद्‌विषकुम्भं सुधामुखम् ॥ ५९ ॥
सर्वैरसाध्यमानं च दुराराध्यं च सर्वदा ।
स्वकार्यसाध्याचाराढ्य कलहाङ्‌करकारणम् ॥ ६० ॥
सर्वं निवेदितं नाथ कर्तव्यं वक्तुमर्हसि ।
कार्यं सर्वं परामर्शे परिणामसुखावहम् ॥ ६१ ॥
नारायण उवाच
इत्येवमुक्त्वा भगवान्निरीक्ष्य ब्रह्मणो मुखम् ।
विरराम सभामध्ये स्तुत्वा च कमलापतिम् ॥ ६२ ॥
शंकरस्य वचः श्रुत्वा प्रहस्य जगदीश्वरः ।
हितं च नीतिवचनं प्रवक्तुमुपचक्रमे ॥ ६३ ॥
विष्णुरुवाच
सुपुण्यकव्रतं सारं सतीसंतानहेतवे ।
स्वामिसौभाग्यबीजं च पत्‍नी ते कर्तुमिच्छति ॥ ६४ ॥
सर्वासाध्यं दुराराध्यं सर्वकामफलप्रदम् ।
सुखदं सुखसारं च मोक्षदं पार्वतीश्वर ॥ ६५ ॥
सर्वेश्वरो व्रतपरो व्रताराध्यो गुणात्परः ।
गोलोकनाथो भगवान्पूर्णब्रह्म सनातनः ॥ ६६ ॥
आत्मा साक्षिस्वरूपश्च ज्योतीरूपः सनातनः ।
निराश्रयश्च निर्लिप्तो निरुपाधिर्निरामयः ॥ ६७ ॥
भक्तप्राणश्च भस्तेशो भक्तानुग्रहकारकः ।
दुराराध्यो हि योऽन्येषां भक्तानामतिसाधकः ॥ ६८ ॥
भक्त्यधीनो हि भगवान्सर्वसिद्धो हि निष्कलः ।
ते यस्य च कलाः पुंसो ब्रह्मविष्णुमहेश्वराः ॥ ६९ ॥
महान्विराड्यदंशश्च निर्लिप्तः प्रकृतेः परः ।
अव्ययो निग्रहश्चोग्रो भक्तानुग्रहविग्रहः ॥ ७० ॥
उग्रग्रहो ग्रहाणां च ग्रहनिग्रहकारकः ।
त्रिकोटिजन्ममध्ये च न साध्यो भवता विना ॥ ७१ ॥
लब्ध्वा हि भारते जन्म हरिभक्तिं लभेन्नरः ।
सेवनं क्षुद्रदेवानां कृत्वा सप्तसु जन्मसु ॥
सूर्यमन्त्रमवाप्नोति केवलं स तदाशिषा ॥ ७२ ॥
सूर्यमन्त्रं समाराध्य त्रिषु जन्मसु भारते ।
प्राप्नोति शैवं मन्त्रं च सर्वदं मानवो मुदा ॥ ७३ ॥
संसेव्य परया भक्त्या त्वामेव सप्तजन्मसु ।
प्राप्नोति मायामन्त्रं च त्वत्पादाब्जप्रसादतः ॥ ७४ ॥
शतजन्मसु चाऽऽराध्य मायां नारायणीं पराम् ।
नारायणकलां सेव्यां समवाप्नोति मानवः ॥ ७५ ॥
कलां निषेव्य वर्षेऽत्र पुण्यक्षेत्रे सुदुर्लभे ।
कृष्णभक्तिमवाप्नोति भक्तसंसर्गहैतुकीम् ॥ ७६ ॥
संप्राप्य भक्तिं निष्पक्वां भ्रामंभ्रामं च भारते ।
प्राप्नोति परिपक्वां च भक्तिं भक्तनिषेवया ॥ ७७ ॥
तदा भक्तप्रसादेन देवानामाशिषा शिव ।
श्रीकृष्णमंत्रं प्राप्नोति निर्वाणफलदं परम् ॥ ७८ ॥
कृष्णव्रतं कृष्णमन्त्रं सर्वकामफलप्रदम् ।
कृष्णतुल्यो भवेद्‌भक्तश्चिरं कृष्णनिषेवया ॥ ७९ ॥
महति प्रलये पातः सर्वेषां वै सुनिश्चितम् ।
न पातः कृष्णभक्तानां साधूनामविनाशिनाम् ॥ ८० ॥
अविनाशिनि गोलोके मोदन्ते कृष्णकिंकराः ।
हसन्ति ते सुनिश्चिन्ता देवान्ब्रह्मादिकाञ्छिव ॥ ८ १ ॥
त्वं संहर्ता च सर्वेषां न भक्तानां महेश्वर ।
माया मोहयते सर्वान् भक्तान्न कृपया मम ॥ ८२ ॥
माया नारायणी माता सर्वेषां कृष्णभक्तिदा ।
न कृष्णभक्तिं प्राप्नोति विना मायानिषेवणम् ॥ ८३ ॥
सा च नारायणी माया मूलप्रकृतिरीश्वरी ।
कृष्णप्रिया कृष्णभक्ता कृष्णतुल्याऽविनाशिनी ॥ ८४ ॥
सा च तेजः स्वरूपा च स्वेच्छाविग्रहधारिणी ।
आविर्भूता च देवानां तेजसाऽसुरनिग्रहे ॥ ८५ ॥
निहत्य दैत्यसंघांश्च दक्षपन्त्यां च भारते ।
ललाभ दक्षतपसा जन्म चानेकजन्मनः ॥ ८६ ॥
त्यक्त्वा देहं पितुर्यज्ञे सा सती तव निन्दया ।
जगाम देवी गोलोकं कृष्णशक्तिः सनातनी ॥ ८७ ॥
गृहीत्वा विग्रहं तस्या गुणरूपाश्रयं परम् ।
भ्रामंभ्रमं भारते त्वं विषण्णोऽभूः पुरा हर ॥ ८८ ॥
प्रबोधितो मया त्वं च श्रीशैलेषु सरित्तटे ।
ललाभ जन्म सा शैलकान्तायामचिरेण च ॥ ८९ ॥
करोतु पुण्यकं साध्वी सुव्रता सुव्रतं शिवा ।
राजसूयसहस्राणां पुण्यं शंकर पुण्यके ॥ ९० ॥
राजसूयसहस्राणां व्रते यत्र धनव्ययः ।
न साध्यं सर्वसाध्वीनां व्रतमेतत्‌त्रिलोचन ॥ ९१ ॥
स्वयं गोलोकनाथश्च पुष्पकस्य प्रभावतः ।
पार्वतीगर्भजातश्च तव पुत्रो भविष्यति ॥ ९२ ॥
स्वयं देवगणानां स यस्यादीशः कृपानिधिः ।
गणेश इतिविख्यातो भविष्यति जगत्‌त्रये ॥ ९३ ॥
यस्य स्मरणमात्रेण विघ्ननाशो भवेद्ध्रुवम् ।
जगतां हेतुनाऽनेन विघ्ननिघ्नाभिधो विभुः ॥ ९४ ॥
नानाविधानि द्रव्याणि यस्माद्‌देयानि पुण्यके ।
भुक्त्वा लम्बोदरत्वं च तेन लम्बोदरः स्मृतः ॥ ९५ ॥
शनिदृष्ट्या शिरश्छेदाद्‌गजवक्त्रेण योजितः ।
गजाननः शिशुस्तेन सर्वेषां सर्वसिद्धिदः ॥ ९६ ॥
दन्तभङ्‌गः परशुना पर्शुरामस्य वै यतः ।
हेतुना तेन विख्यातश्चैकदन्ताभिधः शिशुः ॥ ९७ ॥
पूज्यश्च सर्वदेवानामस्माकं जगतां विभुः ।
सर्वाग्रे पूजनं तस्य भविता मद्वरेण वै ॥ ९८ ॥
पूजासु सर्वदेवानामग्रे संपूज्य तं जनः ।
पूजाफलमवाप्नोति निर्विघ्नेन वृथाऽन्यथा ॥ ९९ ॥
गणेशं च दिनेशं च विष्णुं शंभुं हुताशनम् ।
दुर्गामेतान्संनिषेव्य पूजयेद्‌देवतान्तरम् ॥ १०० ॥
गणेशपूजने विघ्नं निर्मूलं जगतां भवेत् ।
निर्व्याधिः सूर्यपूजायां शुचिः श्रीविष्णुपूजने ॥ १०१ ॥
मोक्षश्च पापनाशश्च यशश्चैश्वर्यमुत्तमम् ।
तत्त्वज्ञानं सुतत्त्वानां बीजं शंकरपूजनात् ॥ १०२ ॥
स्वबुद्धिशुद्धिजननं कीर्तितं वह्निपूजनम् ।
विधिसंस्कृतवह्नेस्तु पूजातो ज्ञानतो मृतिः ॥ १०३ ॥
दाता भोक्ता च भवति शंकराग्निनिषेवणात् ।
हरिभक्तिपदं चैव परं दुर्गार्चनं शिवम् ॥ १०४ ॥
विपरीतं त्रिजगतामेतेषां पूजनं विना ।
एवं क्रमो महादेव कल्पे कल्पेऽस्ति निश्चितम् ॥ १०५ ॥
एते शश्वद्विद्यमाना नित्याः सृष्टिपरायणाः ।
आविर्भावतिरोभावौ चैतेषामीश्वरेच्छया ॥ १०६ ॥
इत्युक्त्वा श्रीहरिस्तत्र विरराम सभातले ।
प्रहृष्टा देवता विप्राः पार्वत्या सह शंकरः ॥ १०७ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे पुण्यकव्रताज्ञाग्रहणं नाम षष्ठोऽध्यायः ॥ ६ ॥


GO TOP