ब्रह्मवैवर्तपुराणम्
द्वितीयं प्रकृतिखण्डम् - षट्षष्टितमोऽध्यायः
दुर्गोपाख्याने दुर्गास्तोन्त्रम् -
नारद उवाच
श्रूतं सर्व नावशिष्टं किंचिदेव हि निश्चितम् ।
प्रकृतेः कवचं स्तोत्रं ब्रूहि मे मुनिसत्तम ॥ १ ॥
नारायण उवाच
पुरा स्तुता सा गोलोके कृष्णेन परमात्मना ।
संपूज्य मधुमासे च संप्रीते रासमण्डले ॥ २ ॥
मधुकैटभयोर्युद्धे द्वितीये विष्णुना पुरा ।
तत्रैव काले सा दुर्गा ब्रह्मणा प्राणसंकटे ॥ ३ ॥
चतुर्थे संस्तुता देवी भक्त्या च त्रिपुरारिणा ।
पुरा त्रिपुरयुद्धे च महाघोरतरे मुने ॥ ४ ॥
पञ्चमे संस्तुता देवी वृत्रासुरवधे तथा ।
शक्रेण सर्वदेवैश्च घोरे च प्राणसंकटे ॥ ५ ॥
तदा मुनीन्द्रैर्मनुभिर्मानवैः सुरथादिभिः ।
संस्तुता पूजिता सा च कल्पेकल्पे परात्परा ॥ ६ ॥
स्तोत्रं च श्रूयतां ब्रह्मन्सर्वविघ्नविनाशकम् ।
सुखदं मोक्षदं सारं भवसंतारकारणम् ॥ ७ ॥
श्रीकृष्ण उवाच
त्वमेव सर्वजननी मूलप्रकृतिरीश्वरी ।
त्वमेवाऽऽद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका ॥ ८ ॥
कार्यार्थे सगुणा त्वं च वस्तुतो निर्गुणा स्वयम् ।
परब्रह्मस्वरूपा त्वं सत्या नित्या सनातनी ॥ ९ ॥
तेजः स्वरूपा परमा भक्तानुग्रहविग्रहा ।
सर्वस्वरूपा सर्वेशा सर्वाधारा परात्परा ॥ १० ॥
सर्वबीजस्वरूपा च सर्वपूज्या निराश्रया ।
सर्वज्ञा सर्वतोभद्रा सर्वमङ्गलमङ्गला ॥ ११ ॥
सर्वबुद्धिस्वरूपा च सर्वशक्तिस्वरूपिणी ।
सर्वज्ञानप्रदा देवी सर्वज्ञा सर्वभाविनी ॥ १२ ॥
त्वं स्वाहा देवदाने च पितृदाने स्वधा स्वयम् ।
दक्षिणा सर्वदाने च सर्वशक्तिस्वरूपिणी ॥ १३ ॥
निद्रा त्वं च दया त्वं च तृष्णा त्वं चाऽत्मनः प्रिया ।
क्षुत्क्षान्तिः शान्तिरीशा च कान्तिस्तुष्टिश्च शाश्वती ॥ १४ ॥
श्रद्धापुष्टिश्च तन्द्रा च लज्जा शोभा प्रभा तथा ।
सतां संपत्स्वरूपा श्रीर्विपत्तिरसतामिह ॥ १५ ॥
प्रीतिरूपा पुण्यवतां पापिनां कलहाङ्कुरा ।
शश्वत्कर्ममयो शक्तिः सर्वदा सर्वजीविनाम् ॥ १६ ॥
देवेभ्यः स्वपदं दात्री धातुर्धात्री कृपामयी ।
हिताय सर्वदेवानां सर्वासुरविनाशिनी ॥ १७ ॥
योगनिद्रा योगरूपा योगदात्री च योगिनाम् ।
सिद्धिस्वरूपा सिद्धानां सिद्धिदा सिद्धयोगिनी ॥ १८ ॥
माहेश्वरी च ब्रह्माणी विष्णुमाया च वैष्णवी ।
भद्रदा भद्रकाली च सर्वलोकभयंकरी ॥ १९ ॥
ग्रामे ग्रामे ग्रामदेवी गृहदेवी गृहे गृहे ।
सतां कीर्तिः प्रतिष्ठा च निन्दा त्वमसतां सदा ॥ २० ॥
महायुद्धे महामारी दुष्टसंहाररूपिणी ।
रक्षास्वरूपा शिष्टानां मातेव हितकारिणी ॥ २१ ॥
वन्द्या पूज्या स्तुता त्वं च ब्रह्मादीनां च सर्वदा ।
ब्रह्मण्यरूपा विप्राणां तपस्या च तपस्विनाम् ॥ २२ ॥
विद्या विद्यावतां त्वं च बुद्धिर्बुद्धिमतां सताम् ।
मेधा स्मृतिस्वरूपा च प्रतिभा प्रतिभावताम् ॥ २३ ॥
राज्ञां प्रतापरूपा च विशां वाणिज्यरूपिणी ।
सृष्टौ सृष्टिस्वरूपा त्वं रक्षारूपा च पालने ॥ २४ ॥
तथाऽन्ते त्वं महामारी विश्वे विश्वैश्च पूजिते ।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी ॥ २५ ॥
दुरत्यया मे माया त्वं यया संमोहितं जगत् ।
यया मुग्धो हि विद्वांश्च मोक्षमार्गं न पश्यति ॥ २६ ॥
इत्यात्मना कृतं स्तोत्रं दुर्गाया दुर्गनाशनम् ।
पूजाकाले पठेद्यो हि सिद्धिर्भवति वाञ्छिता ॥ २७ ॥
वन्ध्या च काकवन्ध्या च मृतवत्सा च दुर्भगा ।
श्रुत्वा स्तोत्रं वर्षमेकं सुपुत्रं लभते ध्रुवम् ॥ २८ ॥
कारागारे महाघोरे यो बद्धो दृढबन्धने ।
श्रुत्वा स्तोत्रं मासमेकं बन्धनान्मुच्यते ध्रुवम् ॥ २९ ॥
यक्ष्मग्रस्तो गलत्कुष्ठो महाशूली महाज्वरी ।
श्रुत्वा स्तोत्रं वर्षमेकं सद्यो रोगात्प्रमुच्यते ॥ ३० ॥
पुत्रभेदे प्रजाभेदे पत्नीभेदे च दुर्गतः ।
श्रुत्वा स्तोत्रं मासमेकं लभते नात्र संशयः ॥ ३१ ॥
राजद्वारे श्मशाने च महारण्ये रणस्थले ।
हिंस्रजन्तुसमीपे च श्रुत्वा स्तोत्रं प्रमुच्यते ॥ ३२ ॥
गृहदाहे च दावाग्नौ दस्युसैन्यसमन्विते ।
स्तोत्रश्रवणमात्रेण लभते नात्र संशयः ॥ ३३ ॥
महादरिद्रो मूर्खश्च वर्षं स्तोत्रं पठेत्तु यः ।
विद्यावान्धनवांश्चैव स भवेन्नात्र संशयः ॥ ३४ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
दुर्गोपाख्याने दुर्गास्तोत्रं नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥
GO TOP
|