ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - पञ्चषष्टितमोऽध्यायः

दुर्गोपाख्याने दुर्गासुरथसंवादे ज्ञानकथनम् -


नारद उवाच
श्रुतं सर्व महाभाग सुधारसपरं वरम् ।
स्तोत्रं च कवचं पूजाफलं कालं वद प्रभो ॥ १ ॥
नारायण उवाच
आर्द्रायां बोधयेद्‌देवीं मूलेनैव प्रवेशयेत् ।
उत्तरेणार्चयित्वा तां श्रवणायां विसर्जयेत् ॥ २ ॥
आर्द्रायुक्तनवम्यां तु कृत्वा देव्याश्च बोधनम् ।
पूजायाः शतवार्षिक्याः फलमाप्नोति मानवः ॥ ३ ॥
मूलायां तु प्रवेशे च नरमेधफलं लभेत् ।
उत्तरे पूजनं कृत्वा वाजपेयफलं लभेत् ॥ ४ ॥
कृत्वा विसर्जनं देव्याः श्रवणायां च मानवः ।
लक्ष्मीं च पुत्रपौत्रांश्च लभते नात्र संशयः ॥ ५ ॥
भुवः प्रदक्षिणापुण्यं पूजायां लभते नरः ।
नक्षत्रयोगाभावे तु पार्वत्याश्चैव नारद ॥ ६ ॥
नवम्यां बोधनं कृत्वा पक्षं संपूज्य मानवः ।
अश्वमेधफलावाप्त्यै दशम्यां च विसर्जयेत् ॥ ७ ॥
सप्तम्यां पूजनं कृत्वा बलिं दद्याद्विचक्षणः ।
अष्टम्यां पूजनं शस्तं बलिदानविवर्जितम् ॥ ८ ॥
अष्टम्यां बलिदानेन विपत्तिर्जायते नृणाम् ।
दद्याद्विचक्षणो भक्त्या नवम्यां विधिवदबलिम् ॥ ९ ॥
बलिदानेन विप्रेन्द्र दुर्गाप्रीतिर्भवेन्नृणाम् ।
हिंसाजन्यं न पापं च लभते यज्ञकर्मणि ॥ १० ॥
उत्सर्गकर्ता दाता च च्छेत्ता पोष्टा च रक्षकः ।
अग्रे पश्चान्निबद्धा च सप्तैतेऽवधकारिणः ॥ ११ ॥
यो यं हन्ति स तं हन्ति नेति वेदोक्तमेव च ।
कुर्वन्ति वैष्णवीं पूजां वैष्णवास्तेन हेतुना ॥ १२ ॥
एवं संपूज्य सुरथः पूर्णं वर्षं च भक्तितः ।
कवचं च गले बध्वा तुष्टाव परमेश्वरीम् ॥ १३ ॥
स्तोत्रेण परितुष्टा सा तस्य साक्षाद्‌बभूव ह ।
स ददर्श पुरो देवीं ग्रीष्मसूर्यसमप्रभाम् ॥ १४ ॥
तेजस्वरूपां परमां सगुणां निर्गुणां वराम् ।
दृष्ट्‍वा तां कमनीयां च तेजोमण्डलमध्यतः ॥ १५ ॥
स्वेच्छामयीं कृपारूपां भक्तानुग्रहकारिणीम् ।
पुनस्तुष्टाव राजेन्द्रो भक्तिनम्रात्मकंधरः ॥ १६ ॥
स्तवेन परितुष्टा सा सस्मिता स्नेहपूर्वकम् ।
उवाच सत्यं राजेन्द्रं कृपया जगदम्बिका ॥ १७ ॥
प्रकृतिरुवाच
साक्षात्संप्राप्य मां राजन्वृणोषि विभवं वरम् ।
ददामि तुभ्यं विभवं सांप्रतं वाञ्छितं तव ॥ १८ ॥
निर्जित्य सर्वाञ्छत्रूंश्च लब्ध्वा राज्यमकण्टकम् ।
भविष्यसि महाराज सावर्णिर्मनुरष्टमः ॥ १९ ॥
दास्यामि तुभ्यं ज्ञानं च परिणामे नराधिप ।
भक्ति दास्यं च परमे श्रीकृष्णे परमात्मनि ॥ २० ॥
वृणोति विभवं यो हि साक्षान्मां प्राप्य मन्दधीः ।
मायया वञ्चितः सोऽपि विषमत्त्यमृतं त्यजन् ॥ २१ ॥
ब्रह्मादिस्तम्बपर्यन्तं सर्वं नश्वरमेव च ।
नित्यं सत्यं परं ब्रह्म कृष्णं निर्गुणमेव च ॥ २२ ॥
ब्रह्मविष्णुशिवादीनामहमाद्या परात्परा ।
सगुणा निर्गुणा चापि वरा स्वेच्छामयी सदा ॥ २३ ॥
नित्यानित्या सर्वरूपा सर्वकारणकारणम् ।
बीजरूपा च सर्वेषां मूलप्रकृतिरीश्वरी ॥ २४ ॥
पुण्ये वृन्दावने रम्ये गोलोके रासमण्डले ।
राधा प्राणाधिकाऽहं च कृष्णस्य परमात्मनः ॥ २५ ॥
अहं दुर्गा विष्णुमाया बुद्ध्यधिष्ठातृदेवता ।
अहं लक्ष्मीश्च वैकुण्ठे स्वयं देवो सरस्वती ॥ २६ ॥
सावित्री वेदमाताऽहं ब्रह्माणी ब्रह्मलोकतः ।
अहं गङ्‌गा च तुलसी सर्वाधारा वसुंधरा ॥ २७ ॥
नानाविधाऽहं कलया मायया सर्वयोषितः ।
साहं कृष्णेन संसृष्टा नृप भ्रूभङ्‌गलीलया ॥ २८ ॥
भ्रूभङ्‌गलीलया सृष्टो येन पुंसा महान्विराट् ।
लोम्नां कूपेषु विश्वानि यस्य सन्ति हि नित्यशः ॥ २९ ॥
असंख्यानि च तान्येवकृत्रिमाणि च मायया ।
अनित्ये नित्यबुद्धिं च सर्वे कुर्वन्ति संततम् ॥ ३० ॥
सप्तसागरसंयुक्ता सप्तद्वीपा वसुंधरा ।
तदधः सप्तपातालाः स्वर्लोकाश्चैव सप्त च ॥ ३१ ॥
एवं विश्वं बहुविधं ब्रह्माण्डं ब्रह्मणा कृतम् ।
प्रत्येकं सर्वविध्यण्डे ब्रह्मविष्णुशिवादयः ॥ ३२ ॥
सर्वेषामीश्वरः कृष्ण इति ज्ञानं परात्परम् ।
वेदानां च व्रतानां च तीर्थानां तपसां तथा ॥ ३३ ॥
देवानां चैव पुण्यानां सारः कृष्ण इति स्मृतः ।
तद्‌भक्तिहीनो यो मूढः स च जीवन्मृतो ध्रुवम् ॥ ३४ ॥
पवित्राणि च तीर्थानि तद्‌भक्तस्पर्शवायुना ।
तन्मन्त्रोपासकश्चैव जीवन्मुक्त इति स्मृतः ॥ ३५ ॥
मन्त्रग्रहणमात्रेण नरो नारायणो भवेत् ।
विना जपेन तपसा विना तीर्थेन पूजया ॥ ३६ ॥
मातामहानां शतकं पितृणां च सहस्रकम् ।
पुंसामेव समुद्धृत्य गोलोकं च स गच्छति ॥ ३७ ॥
इदं ज्ञानं सारभूतं कथितं ते नराधिप ।
मन्वन्तरान्ते भोगान्ते भक्तिं दास्यामि ते हरौ ॥ ३८ ॥
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ ३९ ॥
अहं यमनुगृह्णामि तस्मै दास्यामि निर्मलाम् ।
निश्चलां सुदृढां भक्तिं श्रीकृष्णे परमात्मनि ॥ ४० ॥
करोमिवञ्चनां यं यं तेभ्यो दास्यामि संपदम् ।
प्रातः स्वप्नस्वरूपां च मिथ्येति भ्रमरूपिणीम् ॥ ४१ ॥
इति ते कथितं ज्ञानं गच्छ वत्स यथासुखम् ।
इत्युक्त्वा च महादेवी तत्रैवान्तरधीयत ॥ ४२ ॥
राजा संप्राप्य राज्यं च नत्वा तां प्रययौ गृहम् ।
इति ते कथितं वत्स दुर्गोपाख्यानमुत्तमम् ॥ ४३ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
दुर्गोपाख्याने दुर्गासुरथसंवादे ज्ञानकथनं
नाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥


GO TOP