ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - एकोनषष्टितमोऽध्यायः

दुर्गोपाख्याने बृहस्पतेः कैलासगमनम् -


नारद उवाच
बृहस्पतिः किं चकार तारकाहरणान्तरे ।
कथं संप्राप तां साध्वीं तन्मे व्याख्यातुमर्हसि ॥ १ ॥
नारायण उवाच
दृष्ट्‍वा विलम्बं तारायाः स्नान्त्याश्चापि गुरुः स्वयम् ।
प्रस्थापयामास शिष्यमन्वेषार्थं च जाह्नवीम् ॥ २ ॥
शिष्यो गत्वा च तद्वृत्तं ज्ञात्वा वै लोकवक्त्रतः ।
रुदन्नुवाच स्वगुरुं तारकाहरणं मुने ॥ ३ ॥
श्रुत्वा सुरगुरुर्वार्तां शशिना च प्रियां हृताम् ।
मुहूर्तं प्राप मूर्छां च ततः संप्राप्य चेतनाम् ॥ ४ ॥
रुरोदोच्चैः सशिष्यश्च हृदयेन विदूयता ।
शोकेन लज्जयाऽऽविष्टो विललाप मुहुर्मुहुः ॥ ५ ॥
उवाच शिष्यान्संबोध्य नीतिं च श्रुतिसंमताम् ।
साश्रुनेत्रः साश्रुनेत्राञ्छोकार्तः शोककर्शितान् ॥ ६ ॥
बृहस्पतिरुवाच
हे वत्साः केन शप्तोऽहं न जाने कारणं परम् ।
दुःखं धर्मविरुद्धो यः स प्राप्नोति न संशयः ॥ ७ ॥
यस्य नास्ति सती भार्या गृहेषु प्रियवादिनी ।
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम ॥ ८ ॥
भावानुरक्ता वनिता हृता यस्य च शत्रुणा ।
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ॥ ९ ॥
सुशीला सुन्दरी भार्या गता यस्य गृहादहो ।
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ॥ १० ॥
दैवेनापहृता यस्य पतिसाध्या पतिव्रता ।
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ॥ ११ ॥
यस्य माता गृहे नास्ति गृहिणी वा सुशासिता ।
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ॥ १२ ॥
प्रियाहीनं गृहं यस्य पूर्णं द्रविणबन्धुभिः ।
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ॥ १३ ॥
भार्याशून्या वनसमाः सभार्याश्च गृहा गृहाः ।
गृहिणी च गृहं प्रोक्तं न गृहं गृहमुच्यते ॥ १४ ॥
अशुचिः स्त्रीविहीनश्च दैवे पित्र्ये च कर्मणि ।
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ॥ १५ ॥
दाहिकाशक्तिहीनश्च यथा मन्दो हुताशनः ।
प्रभाहीनो यथा सूर्यः शोभाहीनो यथा शशी ॥ १६ ॥
शक्तिहीनो यथा जीवो यथा चाऽऽत्मा तनुं विना ।
विनाऽऽधारं यथाऽऽधेयो यथेशः प्रकृतिं विना ॥ १७ ॥
न च शक्तो यथा यज्ञः फलदां दक्षिणां विना ।
कर्मणां च फलं दातुं सामग्री मूलमेव च ॥ १८ ॥
विना स्वर्णं स्वर्णकारो यथाऽशक्तः स्वकर्मणि ।
यथाऽशक्तः कुलालश्च मृत्तिकां च विना द्विज ॥ १९ ॥
तथा गृही न शक्तश्च संततं सर्वकर्मणि ।
गृहाधिष्ठातृदेवीं च स्वशक्तिगृहिणीं विना ॥ २० ॥
भार्यामूलाः क्रियाः सर्वा भार्यामूला गृहास्तथा ।
भार्यामूलं सुखं सर्वं गृहस्थानां गृहे सदा ॥ २१ ॥
भार्यामूलः सदा हर्षो भार्यामूलं च मङ्‌गलम् ।
भार्यामूलश्च संसारो भार्यामूलं च सौरभम् ॥ २२ ॥
यथा रथश्च रथिनां गृहिणां च तथा गृहम् ।
सारथिस्तु यथा तेषां गृहिणां च तथा प्रिया ॥ २३ ॥
सर्वरत्‍नप्रधानं च स्त्रीरत्‍नं दुष्कुलादपि ।
गृहीता सा गृहस्थेनैवेत्याह कमलोद्‌भवः ॥ २४ ॥
यथा जलं विना पद्मं पद्मं शोभां विना यथा ।
तथैव पुंसां स्वगृहं गृहिणां गृहिणीं विना ॥ २५ ॥
इत्येवमुक्त्वा स गुरुः प्रविवेश गृहं मुहुः ।
गृहाद्‌बहिर्निःससार भूयो भूयः शुचाऽन्वितः ॥ २६ ॥
मुहुर्मुहुश्च मूर्च्छां च चेतनां समवाप सः ।
भूयो भूयो रुरोदोच्चैः स्मारंस्मारं प्रियागुणान् ॥ २७ ॥
अथान्तरे महाज्ञानी ज्ञानिभिश्च प्रबोधितः ।
सच्छिष्यैर्मुनिभिश्चान्यैः पुरंदरगृहं ययौ ॥ २८ ॥
स गुरुः पूजितस्तेन चाऽऽतिथ्येन मरुत्वता ।
तमुवाच स्ववृत्तान्तं हृदि शल्यमिवाप्रियम् ॥ २९ ॥
बृहस्पतिवचः श्रुत्वा रक्तपङ्‌कजलोचनः ।
तमुवाच महेन्द्रश्च कोपप्रस्फुरिताधरः ॥ ३० ॥
महेन्द्र उवाच
दूतानां वै सहस्रं च चारकर्मणि गच्छतु ।
अतीव निपुणं दक्षं तत्त्वप्राप्तिनिमित्तकम् ॥ ३ १ ॥
यत्रास्ति पातकी चन्द्रो मन्मात्रा तारया सह ।
गच्छामि तत्र संनद्धः सर्वैर्देवगणैः सह ॥ ३२ ॥
त्यज चिन्तां महाभाग सर्वं भद्रं भविष्यति ।
भद्रबीजं दुर्गमिदं कस्य संपद्विपद्विना ॥ ३३ ॥
इत्युक्त्वा च शुनासीरो दूतानां च सहस्रकम् ।
तूर्णं प्रस्थापयामास तत्कर्मनिपुणं मुने ॥ ३४ ॥
ते दूता वै वर्षशतं ययुनिर्जनमेव च ।
सुदुर्लङ्‍घ्यं च विश्वेषु भ्रमित्वा शक्रमाययुः ॥ ३५ ॥
चन्द्रं च शुक्रभवने तं प्रपन्नं च विज्वरम् ।
दृष्ट्‍वा सतारकं भीतं कथयामासुरीश्वरम् ॥ ३६ ॥
इति श्रुत्वा शुनासीरो नतवक्त्रो बृहस्पतिम् ।
उवाच शोकसंतप्तो हदयेन विदूयता ॥ ३७ ॥
महेन्द्र उवाच
शृणु नाथ प्रवक्ष्यामि परिणामसुखावहम् ।
भयं त्यज महाभाग सर्वं भद्रं भविष्यति ॥ ३८ ॥
त्वया नहि जितः शुक्रो न मया दितिनन्दनः ।
एतदालोच्य चन्द्रश्च जगाम शरणं कविम् ॥ ३९ ॥
गच्छ शीघ्रं ब्रह्मलोकमस्माभिः सार्धमेव च ।
ब्रह्मणा सह यास्यामः कैलासे शंकरं वयम् ॥ ४० ॥
इत्युक्त्वा तु महेन्द्रश्च संतप्तो गुरुणा सह ।
जगाम ब्रह्मलोकं च सुखदृश्यं निरामयम् ॥ ४१ ॥
तत्र दृष्ट्‍वा च ब्रह्माणं ननाम गुरुणा सह ।
प्रोवाच सर्ववृत्तान्तं देवानामीश्वरं परम् ॥ ४२ ॥
महेन्द्रवचनं श्रुत्वा हसित्वा कमलोद्‌भवः ।
हितं तथ्यं नीतिसारमुवाच विनयान्वितः ॥ ४३ ॥
ब्रह्मोवाच
यो ददाति परस्मै च दुःखमेव च सर्वतः ।
तस्मै ददाति दुःखं च शास्ता कृष्णः सनातनः ॥ ४४ ॥
अहं स्रष्टा च सृष्टेश्च पाता विष्णुः सनातनः ।
यथा रुद्रश्च संहर्ता ददाति च शिवं शिवः ॥ ४५ ॥
निरन्तरं सर्वसाक्षी धर्मो वै सर्वकारणम् ।
सर्वे देवा विषयिणः कृष्णाज्ञापरिपालकाः ॥ ४६ ॥
बृहस्पतिरुतथ्यश्च संवर्तश्च जितेन्द्रियः ।
त्रयश्चाङ्‌गिरसः पुत्रा वेदवेदाङ्‌गपारगाः ॥ ४७ ॥
संवर्ताय कनिष्ठाय न च किंचिद्‌ददौ गुरुः ।
स बभूव तपस्वी च कृष्णं ध्यायति चेश्वरम् ॥ ४८ ॥
मध्यमस्योतथ्यकस्य सतीं भार्यां च गुर्विणीम् ।
जहार कामतस्तां च भ्रातृजायामकामुकीम् ॥ ४९ ॥
यो हरेद्‌भ्रातृजायां च कामी कामादकामुकीम् ।
ब्रह्महत्यासहस्रं च लभते नात्र संशयः ॥ ५० ॥
स याति कुम्भीपाकं च यावच्चन्द्रदिवाकरौ ।
भ्रतृजायापहारी च मातृगामो भवेन्नरः ॥ ५१ ॥
तस्मादुत्तीर्य पापी च विष्ठायां जायते कृमिः ।
वर्षकोटिसहस्राणि तत्र स्थित्वा च पातकी ॥ ५२ ॥
ततो भवेन्महापापी वर्षकोटिसहस्रकम् ।
पुंश्चलियोनिगर्ते च कृमिश्चैव पुरंदर ॥ ५३ ॥
गृध्रःकोटिसहस्राणि शतजन्मानि कुक्कुरः ।
भ्रातृजायापहरणाच्छतजन्मानि सूकरः ॥ ५४ ॥
ददाति यो न दायं च बलिष्ठो दुर्बलाय च ।
स याति कुम्भीपाकं च यावच्चन्द्रदिवाकरौ ॥ ५५ ॥
नाऽभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ ५६ ॥
जगद्‌गुरोः शिवस्यापि गुरुपुत्रो बृहस्पतिः ।
ज्ञातं करोतु वृत्तान्तमीश्वरं बलिनां वरम् ॥ ५७ ॥
सर्वे समूहा देवानां संनद्धाश्च सवाहनाः ।
मध्यस्था मुनयश्चैव सन्तु वै नर्मदातटे ॥ ५८ ॥
पश्चादहं च यास्यामि पुण्यं तं नर्मदातटम् ।
गुरुस्तद्‌गुरुपुत्रोऽपि शीघ्रं यातु शिवालयम् ॥ ५९ ॥
महेन्द्र उवाच
कथं वा वेदकर्तुश्च सिद्धानां योगिनां गुरोः ।
मृत्युंजयस्य शंभोश्च गुरुपुत्रो बृहस्पतिः ॥ ६० ॥
अङ्‌गिरास्तव पुत्रश्च तत्पुत्रश्च बृहस्पतिः ।
त्वत्तो ज्ञानी महादेवः कथं शिष्यो गुरोः पितुः ॥ ६१ ॥
ब्रह्मोवाच
कथेयमतिगुप्ता च पुराणेषु पुरंदर ।
इमां पुराप्रवृतिं च कथयामि निशामय ॥ ६२ ॥
मृतवत्सा कर्मदोषाद्‌भार्या चाङ्‌गिरसः पुरा ।
व्रतं चकार मद्वाक्यात्कृष्णस्य परमात्मनः ॥ ६३ ॥
व्रतं पुंसवनं नाम वर्षमेकं चकार सा ।
सनत्कुमारो भगवान्कारयामास तां व्रतम् ॥ ६४ ॥
तदाऽऽगत्य च गोलोकात्परमात्मा कृपामयः ।
स्वेच्छामयं परं ब्रह्म भक्तानुग्रहविग्रहः ॥ ६५ ॥
सुव्रतां च सलक्ष्मीकां तामुवाच कृपानिधिः ।
प्रणतां साश्रुनेत्रां च विनीतां च तया स्तुतः ॥ ६६ ॥
श्रीकृष्ण उवाच
गृहाणेदं व्रतफलं मम तेजः समन्वितम् ।
भुङ्‌क्ष्व मद्वरतः पुत्रो भविष्यति मदंशतः ॥ ६७ ॥
पतिर्गुरुश्च देवानां महतां ज्ञानिनां वरः ।
पुत्रस्ते भविता साध्वि मद्वरेण बृहस्पतिः ॥ ६८ ॥
मद्वरेण भवेद्यो हि स च मद्वरपुत्रकः ।
त्वद्‌गर्भे मम पुत्रोऽयं चिरजीवी भविष्यति ॥ ६९ ॥
वरजो वीर्यजश्चैव क्षेत्रजः पालकस्तथा ।
विद्यामन्त्रसुतौ चैव गृहीतः सप्तमः सुतः ॥ ७० ॥
इत्युक्त्वा राधिकानाथः स्वलोकं च जगाम सः ।
श्रीकृष्णवरपुत्रोऽयं ज्ञानी सुरगुरुः स्वयम् ॥ ७१ ॥
मृत्युंजयं महाज्ञानं शिवाय प्रददौ पुरा ।
दिव्यं वर्षत्रिलक्षं च तपश्चक्रे हिमालये ॥ ७२ ॥
स्वयोगं ज्ञानमखिलं तेजः स्वात्मसमं परम् ।
स्वशक्तिं विष्णुमायां च स्वांशं वै वाहनं वृषम् ॥ ७३ ॥
स्वशूलं च स्वकवचं स्वमन्त्रं द्वादशाक्षरम् ।
कृपामयः स्तुतस्तेन श्रीकृष्णश्च परात्परः ॥ ७४ ॥
शिवलोके शिवा सा च विष्णुमाया शिवप्रिया ।
शक्तिर्नारायणस्येयं तेन नारायणी स्मृता ॥ ७५ ॥
तेजःसु सर्वदेवानां साऽऽविर्भूता सनातनी ।
जघान दैत्यनिकरं देवेभ्यः प्रददौ पदम् ॥ ७६ ॥
कल्पान्ते दक्षकन्या च सा मूलप्रकृतिः सती ।
पितृयज्ञे तनुं त्यक्त्वा योगाद्वै सिद्धयोगिनी ॥ ७७ ॥
बभूव शैलकन्या सा साध्वी वै भर्तृनिन्दया ।
कालेन कृष्णतपसा शंकरं प्राप शंकरी ॥ ७८ ॥
श्रीकृष्णो हि गुरुः शंभोः परमात्मा परात्परः ।
कृष्णस्य वरपुत्रोऽयं स्वयमेव बृहस्पतिः ॥ ७९ ॥
अतो हेतोः सुरगुरुर्गुरुपुत्रः शिवस्य च ।
इत्येवं कथितं सर्वमतिगुह्यं पुरातनम् ॥ ८० ॥
इति प्रधानसंम्बन्धः श्रुतश्च कथितो मया ।
पारम्परिकमन्यं च कथयामि निशामय ॥ ८१ ॥
दुर्वासा गरुडश्चैव शंकरांशः प्रतापवान् ।
शिष्यौ चाङ्‌गिरसस्तौ द्वौ गुरुपुत्रोऽथवा ततः ॥ ८२ ॥
प्राणाधिकायां सत्यां च मृतायां दक्षशापतः ।
स्वज्ञानं स्वं च भगवान्विसस्मार स्वमोहतः ॥ ८३ ॥
स्मरणं कारयामास कृष्णेन प्रेरितोऽङ्‌गिराः ।
अतो हेतोर्गुरुश्चैवं मत्सुतः स्याच्छिवस्य सः ॥ ८४ ॥
शीघ्रं गच्छतु कैलासं स्वयमेव बृहस्पतिः ।
त्वं गच्छ तत्र संनद्धः सदेवो नर्मदातटम् ॥ ८५ ॥
इत्युक्त्वा जगतां धाता विरराम च नारद ।
गुरुर्ययौ च कैलासं मन्हेद्रो नर्मदातटम् ॥ ८६ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे दुर्गोपाख्याने
बृहस्पतेः कैलासगमनं नामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥


GO TOP