ब्रह्मवैवर्तपुराणम्
द्वितीयं प्रकृतिखण्डम् - अष्टपञ्चाशत्तमोऽध्यायः
दुर्गोपाख्याने ताराचन्द्रयोर्दोषनिवारणम् -
नारद उवाच
कस्य वंशोद्भवो राजा सुरथो धर्मिणां वरः ।
कथं संप्राप वै ज्ञानं मेधसो ज्ञानिनां वरात् ॥ १ ॥
कस्य वंशोद्भवो ब्रह्मन्मेधसो मुनिसत्तम ।
बभूव कुत्र संवादो नृपस्य मुनिना सह ॥ २ ॥
सख्यं बभूव कुत्रास्य वा प्रभो नृपवैश्ययोः ।
व्यासेन श्रोतुमिच्छामि वद वेदविदां वर ॥ ३ ॥
नारायण उवाच
अत्रिश्च ब्रह्मणः पुत्रस्तस्य पुत्रो निशाकरः ।
स च कृत्वा राजसूयं द्विजराजो बभूव ह ॥ ४ ॥
गुरुपत्न्या च तारायां तस्याभूच्च बुधः सुतः ।
बुधपुत्रस्तु चैत्रश्च तत्पुत्रः सुरथः स्मृतः ॥ ५ ॥
नारद उवाच
गुरुपत्न्यां च तारायां समभूत्तत्सुतः कथम् ।
अहो व्यतिक्रमं ब्रूहि देवस्य च महामुने ॥ ६ ॥
नारायण उवाच
संपन्मत्तो महाकामी ददर्श जाह्नवीतटे ।
तारां सुरगुरोः पत्नीं धर्मिष्ठां च पतिव्रताम् ॥ ७ ॥
सुस्नातां सुन्दरीं रम्यां पीनोन्नतपयोधराम् ।
सुश्रोणीं सुनितम्बाढ्यां मध्यक्षीणां मनोहराम् ॥ ८ ॥
सुदतीं कोमलोङ्गी च नवयौवनसंयुताम् ।
सूक्ष्मवस्त्रपरीधाना रत्नभूषणभूषिताम् ॥ ९ ॥
कस्तूरीबिन्दुना सार्धमधश्चन्दनबिन्दुना ।
सिन्दूरबिन्दुनाचारुफालमध्यस्थलोज्ज्वलाम् ॥ १ ० ॥
वायुनाऽधोवस्त्रहीनां सकामां रक्तलोचनाम् ।
शरत्पार्वणचन्द्रास्यां पक्वबिम्बाधरां वराम् ॥ ११ ॥
सुस्मितां नम्रवक्त्रां च लज्जया चन्द्रदर्शनात् ।
गच्छन्तीं स्वगृहं हर्षान्मत्तवारणगामिनीम् ॥ १२ ॥
तां दृष्ट्वा मन्मथाक्रान्तश्चन्द्रो लज्जां जहौ मुने ।
पुलकाङ्कितसर्वाङ्गः सकामस्तामुवाच सः ॥ १३ ॥
चन्द्र उवाच
योषिच्छ्रेष्ठे क्षणं तिष्ठ वरिष्ठे रसिकासु च ।
सुविदग्धे विदग्धानां मनो हरसि संततम् ॥ १४ ॥
निषेव्य प्रकृतिं जन्मसहस्रं कामसागरे ।
तपःफलेन त्वा प्राप बृहच्छ्रोणीं बृहस्पतिः ॥ १५ ॥
अहो तपस्विना सार्धमविदग्धेन वेधसा ।
योजिता त्वं रसवती शश्वत्कामातुरा वरा ॥ १६ ॥
किं वा सुखं च विज्ञातमविज्ञेषु समागमे ।
विदग्धाया विदग्धेन संगमः सुखसागरः ॥ १७ ॥
कामेन कामिनी त्वं च दग्धाऽसि व्यर्थमीश्वरि ।
कर्मणा वाऽऽत्मदोषाद्वा को जानाति मनः स्त्रियाः ॥ १८ ॥
दिने दिने वृथा याति दुर्लभं नवयौवनम् ।
नवीनयौवनस्थाया वृद्धेन स्वामिना तव ॥ १९ ॥
शश्वत्तपस्यायुक्तश्च कृष्णमात्मनमीप्सितम् ।
स्वर्णे जागरणेवाऽपि ध्योयन्नास्ते बृहस्पतिः ॥ २० ॥
सर्वकामरसज्ञा त्वं निष्कामं काममीप्सितम् ।
ध्यायन्ती कामुकी शश्वद्यूना शृंगारमात्मनि ॥ २१ ॥
अन्यश्च त्वन्मनः कामो भिन्नं त्वद्भर्तुरीप्सितम् ।
ययोश्च भिन्नौ विषयौ का प्रीतिः संगमे तयोः ॥ २२ ॥
वसन्ती पुष्पतल्पे च गन्धचन्दनचर्चिते ।
मोदस्व मां गृहीत्वा त्वं वसन्ते माधवीवने ॥ २३ ॥
सुगन्ध्युत्फुल्लकुसुमे निर्जने चन्दने वने ।
भवती युवती भाग्यवती तत्रैव मोदताम् ॥ २४ ॥
चन्दने चम्पकवने शीतचम्पकवायुना ।
रम्ये चम्पकतल्पे च क्रीडां कुरु मयो सह ॥ २५ ॥
रम्यायां मलयद्रोण्यां मन्दचन्दनवायुना ।
रामे रम मया सार्धमतीव निर्जने वने ॥ २६ ॥
स्वर्णरेखातटवने नर्मदापुलिने शुभे ।
सुराणां वाञ्छितस्थाने रतिं कुरु मया सह ॥ २७ ॥
इत्युक्त्वा मदनोन्मत्तो मदनाधिकसुन्दरः ।
पपात चरणे देव्या मन्दो मन्दाकिनीतटे ॥ २८ ॥
निरुद्धमार्गा चन्द्रेण शुष्ककण्ठौष्ठतालुका ।
अभीतोवाच कोपेन रक्तपङ्कजलोचना ॥ २९ ॥
तारोवाच
धिक् त्वां चन्द्र तृणं मन्ये परस्त्रीलम्पटं शठम् ।
अत्रेरभाग्यात्त्वं पुत्रो व्यर्थं ते जन्म जीवनम् ॥ ३० ॥
अरे कृत्वा राजसूयमात्मानः मन्यसे बली ।
बभूव पुण्यं ते व्यर्थं विप्रस्त्रीषु च यन्मनः ॥ ३१ ॥
यस्य चित्तं परस्त्रीषु सोऽशुचिः सर्वकर्मसु ।
न कर्मफलभाक्पापी निन्द्यो विश्वेषु सर्वतः ॥ ३२ ॥
सतीत्वं मे नाशयसि यक्ष्मग्रस्तो भविष्यसि ।
अत्युच्छ्रितो निपतनं प्राप्नोतीति श्रुतौ श्रुतम् ॥ ३३ ॥
दुष्टानां दर्पहा कृष्णो दर्पं ते निहनिष्यति ।
त्यज मां मातरं वत्स सत्यं ते शं भविष्यति ॥ ३४ ॥
इत्युक्त्वा तारका साध्वी रुरोद च मुहुर्मुहुः ।
चकार साक्षिणं धर्मं सूर्यं वायुं हुताशनम् ॥ ३५ ॥
ब्रह्माणं परमात्मानमाकाशं पवनं धराम् ।
दिनं रात्रिं च संध्यां च सर्वं सुरगणं मुने ॥ ३६ ॥
तारकावचनं श्रुत्वा न भीतः स चुकोप ह ।
करे धृत्वा रथे तूर्णं स्थापयामास सुन्दरीम् ॥ ३७ ॥
रथं च चालयामास मनोयायी मनोहरम् ।
मनोहरां गृहीत्वा तां स च रमे मनोहरः ॥ ३८ ॥
विस्पन्दके सुरवने चन्दने पुष्पभद्रके ।
पुष्करे च नदीतीरे पुष्पिते पुष्पकानने ॥ ३९ ॥
सुगन्धिपुष्पतल्पे च पुष्पचन्दनवायुना ।
निर्जने मलयद्रोण्यां स्निग्धचन्दनचर्चिते ॥ ४० ॥
शैले शैले नदे नद्यां शृङ्गारं कुर्वतोस्तयोः ।
गतं वर्षशतं हर्षान्मुहूर्तमिव नारद ॥ ४१ ॥
बभूव शरणापन्नो भीतो दैत्येषु चन्द्रमाः ।
तेजस्विनि तथा शुक्रे तेषां च बलिनां गुरौ ॥ ४२ ॥
अभयं च ददौ तस्मै कृपया भृगुनन्दनः ।
गुरुं जहास देवानां स्वविपक्षं बृहस्पतिम् ॥ ४३ ॥
सभायां जहसुर्हृष्टा बलिनो दितिनन्दनाः ।
अभयं च ददुस्तस्मै भीताय च कलङ्किने ॥ ४४ ॥
सतीसतीत्वध्वंसेन पापिष्ठे चन्द्रमण्डले ।
बभूव शशरूपं च कलङ्कं निर्मले मलम् ॥ ४५ ॥
उवाच तं महाभीतं शुक्रो वेदविदां वरः ।
हितं तथ्यं वेदयुक्तं परिणामसुखावहम् ॥ ४६ ॥
शुक्र उवाच
त्वमहो ब्रह्मणः पौत्रोऽप्यत्रेर्भगवतः सुतः ।
दुर्नीतं कर्म ते पुत्र नीचवन्न यशस्करम् ॥ ४७ ॥
राजसूयस्य सुफले निर्मले कीर्तिमण्डले ।
सुधाराशौ सुराबिन्दुरूपमङ्गमुपार्जितम् ॥ ४८ ॥
त्यज देवगुरोः पत्नीं प्रसूमिव महासतीम् ।
धर्मिष्ठस्य वरिष्ठस्य ब्राह्मणानां बृहस्पतेः ॥ ४९ ॥
शंभोः सुराणामीशस्य गुरुपुत्रस्य वेधसः ।
पौत्रस्याऽऽङ्गिरसो नित्यं ज्वलतो ब्रह्मतेजसा ॥ ५० ॥
शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि ।
इति सद्वंशजातानां स्वभावं च सतामपि ॥ ५१ ॥
स शत्रुर्मे सुरगुरुः परो विश्वे निशाकर ।
तथाऽपि सहजाख्यानं वर्णितं धर्मसंसदि ॥ ५२ ॥
यत्र लोकाश्च धर्मिष्ठास्तत्र धर्मः सनातनः ।
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ॥ ५३ ॥
गौरेकं पञ्च च व्याघ्री सिंही सप्त प्रसूयते ।
हिंसका प्रलयं यान्ति धर्मो रक्षति धार्मिकम् ॥ ५४ ॥
देवाश्च गुरवो विप्राः शक्ता यद्यपि रक्षितुम् ।
तथाऽपि नहि रक्षन्ति धर्मघ्नं पापिनं जनम् ॥ ५५ ॥
कुलटाविप्रपत्नीनां गमने सुरविप्रयोः ।
ब्रह्महत्याषोडशांशपातकं च भवेद्ध्रुवम् ॥ ५६ ॥
तासामुपस्थितानां च गमने तच्चतुर्थकम् ।
त्यागे धर्मो नास्ति पापमित्याह कमलोद्भवः ॥ ५७ ॥
विप्रपत्नीसतीनां च गमनं वै बलेन चेत् ।
ब्रह्महत्याशतं पापं भवेदेव श्रुतौ श्रुतम् ॥ ५८ ॥
धर्मं चर महाभाग ब्राह्मणीं त्यज सांप्रतम् ।
कृत्वाऽऽनुतापं पापाच्च निवृत्तिस्तु महाफला ॥ ५९ ॥
उपायेन च ते पापं दूरीभूतं भवेन्ननु ।
शरणागतभीतस्य मयि देवस्य धर्मतः ॥ ६० ॥
शस्त्रहीनं च भीतं च दीनं च शरणार्थिनम् ।
यो न रक्षत्यधर्मिष्ठः कुम्भीपाके वसेद्ध्रुवम् ॥ ६१ ॥
राजसूयशतानां च रक्षिता लभते फलम् ।
परमेश्वरयुक्तश्च धर्मेण स भवेदिह ॥ ६२ ॥
इत्युक्त्वा वै दैत्यगुरुः स्वर्गे मन्दाकिनीतटे ।
स्नात्वा तं स्नापयामास विष्णुपूजां चकार सः ॥ ६३ ॥
विष्णुपादाब्जजातेन तन्नैवेद्यं शुभप्रदम् ।
गङ्गोदकेन पुण्येन भोजयामास चन्द्रकम् ॥ ६४ ॥
क्रोडे कृत्वा तु तं भीतं लज्जितं पापकर्मणा ।
कुशहस्तस्तमित्यूचे स्मारंस्मारं हरिं मुने ॥ ६५ ॥
शुक्र उवाच
यद्यस्ति मे तपः सत्यं सत्यं पूजाफलं हरेः ।
सत्यं व्रतफलं चैव सत्यं सत्यवचः फलम् ॥ ६६ ॥
तीर्थस्नानफलं सत्यं सत्यं दानफलं यदि ।
उपवासफलं सत्यं पापान्मुक्तो भवान्भवेत् ॥ ६७ ॥
विप्रं त्रिसंध्यहीनं च विष्णुपूजाविहीनकम् ।
तदाप्नोतु महाघोरं चन्द्रपापं सुदारुणम् ॥ ६८ ॥
स्वभार्यावञ्चनं कृत्वा यः प्रयाति परस्त्रियम् ।
स यातु नरकं घोरं चन्द्रपापेन पातकी ॥ ६९ ॥
वाचा वा ताडयेत्कान्तं दुःशीला दुर्मुखा च या ।
सा युगं चन्द्रपापेन यातु लालामुखं ध्रुवम् ॥ ७० ॥
अनैवेद्यं वृथान्नं च यश्च भुङ्क्ते हरेर्द्विजः ।
स यातु कालसूत्रं च चन्द्रपापाच्चतुर्युगम् ॥ ७१ ॥
अम्बुवीच्यां भूखननं यः करोति नराधमः ।
चन्द्रपापाद्युगशतं कालसूत्रं स गच्छतु ॥ ७२ ॥
स्वकान्तं वञ्चयित्वा च या याति परपूरुषम् ।
सा यातु वह्निकुण्डं च चन्द्रपापाच्चतुर्युगम् ॥ ७३ ॥
कीर्तिं करोति रजसा परकीर्तिं विलुप्य च ।
स युगं चन्द्रपापेन कुम्भीपाकं च गच्छतु ॥ ७४ ॥
पितरं मातरं भार्यां यो न पुष्णाति पातकी ।
स्वगुरुं चन्द्रपापेन यातु चण्डालतां ध्रुवम् ॥ ७५ ॥
कुलटान्नमवीरान्नमृतुस्नातान्नमेव च ।
योऽश्नाति चन्द्रपापं च यातु तं पापिनं ध्रुवम् ॥ ७६ ॥
स यातु तेन पापेन कुम्भीपाकं चतुर्युगम् ।
तस्मादुत्तीर्य चाण्डालीं योनिमाप्नोति पातकी ॥ ७७ ॥
दिवसे यो ग्राम्यधर्मं महापापी करोति च ।
यो गच्छेत्कामतः कामी गुर्विणीं वा रजस्वलाम् ॥ ७८ ॥
तं यातु चन्द्रपापं च महाघोरं च पापिनम् ।
स यातु तेन पापेन कालसूत्रं चतुर्युगम् ॥ ७९ ॥
मुखं श्रोणीं स्तनं योनिं यः पश्यति परस्त्रियाः ।
कामतः कामदग्धश्च यातु तं चन्द्रकल्मषम् ॥ ८० ॥
स यातु लालाभक्ष्यं च चन्द्रपापाच्चतुर्युगम् ।
तस्मादुत्तीर्य भवतु चाण्डालोऽन्धो नपुंसक ॥ ८१ ॥
कुहूपूर्णेन्दुसंक्रान्तिचतुर्दश्यष्टमीषु च ।
मांसं मसूरं लकुचं यश्च भुङ्क्ते हरेर्दिने ॥ ८२ ॥
कुरुते ग्राम्यधर्मं च यातु तं चन्द्रकिल्विषम् ।
चतुर्युगं कालसूत्रं तेन पापेन गच्छतु ॥ ८३ ॥
तस्मादुत्तीर्य चाण्डालीं योनिमाप्नोतु पातकी ।
सप्तजन्म महारोगी दरिद्रः कुब्ज एव च ॥ ८४ ॥
एकादश्यां च यो भुडःक्ते कृष्णजन्माष्टमीदिने ।
शिवरात्रौ महापापी यातु तं चन्द्रपातकम् ॥ ८५ ॥
स यातु कुम्भीपाकं च यावदिन्द्राश्चतुर्दश ।
तेन पापेन चाऽऽप्नोतु चाण्डालीं योनिमेव च ॥ ८६ ॥
ताम्रस्थं दुग्धमाध्वीकमुच्छिष्टं घृतमेव च ।
नारिकेलोदकं कांस्ये दुग्धं सलवणं तथा ॥ ८७ ॥
पीतशेषजलं चैव भुक्तशेषं तथौदनम् ।
असकृच्चौदनं भुङ्क्ते सूर्ये नास्तंगते द्विजः ॥ ८८ ॥
तं यातु चन्द्रशापं च दुर्निवारं च दारुणम् ।
स यातु तेन पापेन चान्धकूपं चतुर्युगम् ॥ ८९ ॥
स्वकन्याविक्रयी विप्रो देवलो वृषवाहकः ।
शूद्राणां शवदाहो च तेषां वै सूपकारकः ॥ ९० ॥
अश्वत्थतरुघाती च विष्णुवैष्णवनिन्दकः ।
तं यातु चन्द्रपापं च दारुणं पापिनं भृशम् ॥ ९१ ॥
स यातु तस्मात्पापाच्च तप्तसूर्मीं च पातकी ।
शश्वद्दग्धो भवतु स यावदिन्द्राश्चतुर्दश ॥ ९२ ॥
तस्मादुत्तीर्य चाण्डालीं योनिमाप्नोतु पातकी ।
सप्तजन्मसु चाण्डालो वृषभः पञ्चजन्मसु ॥ ९३ ॥
गर्दभो जन्मशतकं सूकरः सप्तजन्मसु ।
तीर्थध्वाङ्क्षः सप्तसु वै विट्कृमिः पञ्चजन्मसु ।
जलौका जन्मशतकं शुचिर्भवतु तत्परम् ॥ ९४ ॥
वृथामांसं च यो भुङ्ते स्वार्थं पाकान्नमेव च ।
तददत्तं महापापी प्राप्नुयाच्चन्द्रपातकम् ॥ ९५ ॥
स यातु चन्द्रपापेन चासिपत्रं चतुर्युगम् ।
ततो भवतु सर्पश्च पशुः स्यात्सप्तजन्मसु ॥ ९६ ॥
विप्रो वार्धुषिको यो हि योनिजीवी चिकित्सकः ।
हरेर्नाम्नां च विक्रेता यश्च वा स्वाङ्गविक्रयी ॥ ९७ ॥
स्वधर्मकथकश्चैव यश्च स्वात्मप्रशंसकः ।
मषीजीवी धावकश्च कुलटापोष्य एव च ॥ ९८ ॥
तं यातु चन्द्रपापं च चन्द्रो भवतु विज्वरः ।
न यातु तेन पापेन शूलप्रोतं सुदारुणम् ॥ ९९ ॥
तत्र विद्धो भवतु स यावदिन्द्राश्चतुर्दश ।
ततो दरिद्रो रोगी च दीक्षाहीनो नरः पशुः ॥ १०० ॥
लाक्षामांसरसानां च तिलानां लवणस्य च ।
अश्वानां चैव लोहानां विक्रेता नरघातकः ॥ १०१ ॥
विप्रः कुलालः चौरश्च यातु तं चन्द्रपातकम् ।
स यातु तेन पापेन क्षुरधारं सुदुःसहम् ॥ १०२ ॥
तत्र च्छिन्नो भवतु स यावदिन्द्रसहस्रकम् ।
तस्मादुत्तीर्य स भवेत्सृगालः सप्तजन्मसु ॥ १०३ ॥
सप्तजन्मसु मार्जारो महिषो जन्मपञ्चकम् ।
सप्तजन्मसु भल्लूकः कुक्कुरः सप्तजन्मसु ॥ १०४ ॥
मत्स्यश्च जन्मशतकं कर्कटी जन्मपञ्चकम् ।
गोधिका जन्मशतकं गर्दभः सप्तजन्मसु ॥ १०५ ॥
सप्तजन्मसु मण्डूकस्ततः स्यान्मानवोऽधमः ।
चर्मकारश्च रजकस्तैलकारश्च वर्धकिः ॥ १०६ ॥
नाविकः शवजीवी च व्याधश्च स्वर्णकारकः ।
कुम्भकारो लोहकारस्ततः क्षत्रस्ततो द्विजः ॥ १०७ ॥
इति चन्द्रं शुचिं कृत्वा समुवाच स तारकाम् ।
त्यक्त्वा चन्द्रं महासाध्वि गच्छकान्तमिति द्विजः ॥ १०८ ॥
प्रायश्चित्तं विना पूता त्वमेवं शुद्धमानसा ।
अकामा या बलिष्ठेन न स्त्री जारण दुष्यति ॥ १०९ ॥
इत्येवमुक्त्वा शुक्रश्च चन्द्रं वा तारकां सतीम् ।
सस्मितां सस्मितं चैव चकार च शुभाशिषः ॥ ११० ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे दुर्गोपाख्याने ताराचन्द्रयो-
र्दोषनिवारणं नामाष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥
GO TOP
|