ब्रह्मवैवर्तपुराणम्
द्वितीयं प्रकृतिखण्डम् - षष्टितमोऽध्यायः
श्रीकृष्णोपदिष्टतारोद्धरणोपायज्ञानम् -
नारद उवाच
नारायण महाभाग वेदवेदाङ्गपारग ।
निपीतं च सुधाख्यानं त्वन्मुखेन्दुविनिःसृतम् ॥ १ ॥
अधुना श्रोतुमिच्छामि किमुवाच बृहस्पतिः ।
शिवं च गत्वा कैलासं दातारं सर्वसंपदाम् ॥ २ ॥
जगत्कर्ता विधाता च किंवा तं प्रत्युवाच सः ।
एतत्सर्वं समालोच्य वद वेदविदां वर ॥ ३ ॥
नारायण उवाच
शीघ्रं गत्वा च कैलासं भ्रष्टश्रीः शंकरं गुरुः ।
प्रणम्य तस्थौ पुरतो लज्जामलिनविग्रहः ॥ ४ ॥
दृष्ट्वा गुरुसुतं शंभुरुदतिष्ठत्कुशासनात् ।
आलिङ्गनं ददौ तस्मै शीघ्रं माङ्गलिकाशिषः ॥ ५ ॥
स्वासने वासयित्वा वै पप्रच्छ कुशलं वचः ।
उवाच मधुरं वाक्यं भीतं तं लज्जितं शिवः ॥ ६ ॥
शंकर उवाच
कथमेवविधस्त्वं च दुःखी मलिनविग्रहः ।
साश्रुनेत्रो लज्जितश्च भ्रातस्तत्कारणं वद ॥ ७ ॥
किंवा तपस्या हीना ते संध्या हीनाऽथवा मुने ।
किंवा श्रीकृष्णसेवा सा विहीना दैवदोषतः ॥ ८ ॥
किंवा गुरौ भक्तिहीनोऽभीष्टदेवेऽथवा हरौ ।
किंवा न रक्षितुं शक्तः प्रपन्नं शरणागतम् ॥ ९ ॥
किंवाऽतिथिस्ते विमुखः किंवा पोष्या बुभुक्षिताः ।
किंवा स्वतन्त्रा स्त्री वा ते किंवा पुत्रोऽवचस्करः ॥ १० ॥
सुशासितो न शिष्यो वा किं भृत्याश्चोत्तरप्रदाः ।
किंवा ते विमुखा लक्ष्मीः किंवा रुष्टो गुरुस्तव ॥ ११ ॥
गरिष्ठश्च वरिष्ठश्च शश्वत्संतुष्टमानसः ।
गुरुस्तव वसिष्ठश्च प्रेष्ठः श्रेष्ठः सतामहो ॥ १२ ॥
किंवा रुष्टोऽभीष्टदेवः किंवा रुष्टाश्च वाडवाः ।
किंवा रुष्टा वैष्णवाश्च किंवा ते प्रबलो रिपुः ॥ १३ ॥
किंवा ते बन्धुविच्छेदो विग्रहो बलिना सह ।
किंवा पदं परग्रस्तं किंवा बन्धुधनं च वा ॥ १४ ॥
केन ते वा कृता निन्दा खलैर्वा पापिभिर्मुने ।
केन वा त्वं परित्यक्तो बान्धवेन प्रियेण वा ॥ १५ ॥
बन्धूस्त्यक्तस्त्वया किंवा वैराग्येण क्रुधाऽथवा ।
किंवा तीर्थे नहि स्नातं न दत्तं पुण्यवासरे ॥ १६ ॥
गुरुनिन्दा बन्धुनिन्दा खलवक्त्राच्छुताऽथवा ।
गुरुनिन्दा हि साधूनां मरणादतिरिच्यते ॥ १७ ॥
असद्वंशप्रजातानां खलानां निन्दनं तथा ।
दौःशील्यमेवमसतां शश्वन्नारकिणामिह ॥ १८ ॥
परप्रशंसकाः सन्तः पुष्पवन्तो हि भारते ।
शश्वन्मङ्गलयुक्ताश्च राजन्तेऽमलमानसाः ॥ १९ ॥
पुत्रे यशसि तोये च समृद्धे च पराक्रमे ।
ऐश्वर्ये वा प्रतापे च प्रजाभूमिधनेषु च ॥ २० ॥
वचनेषु च बुद्धौ च स्वभावे च चरित्रतः ।
आचारे व्यवहारे च ज्ञायते हृदयं नृणाम् ॥ २१ ॥
यादृग्येषां च हृदयं तादृक्तेषां च मङ्गलम् ।
यादृग्येषां पूर्वपुण्यं तादृक्तेषां च मानसम् ॥ २२ ॥
इत्युक्त्वा च महादेवो विरराम स्वसंसदि ।
तमुवाच महावक्ता स्वयमेव बृहस्पतिः ॥ २३ ॥
बृहस्पतिरुवाच
अकथ्यमेव वृत्तान्तं कथयामि किमीश्वर ।
लोकाः कर्मवशा नित्यं नानाजन्मसु यत्कृतम् ॥ २४ ॥
स्वकर्मणां फलं भुङ्क्ते जन्तुर्जन्मनि जन्मनि ।
नहि नष्टं च तत्कर्म विना भोगाच्च भारते ॥ २५ ॥
सुखं दुःखं भयं शोको नराणां यत्कृतं प्रभो ।
केचिद्वदन्ति हि भवेत्स्वकृतेन च कर्मणा ॥ २६ ॥
केचिद्वदन्ति दैवेन स्वभावेनेति केचन ।
त्रिविधा गतयो ह्यस्य वेदवेदाङ्गपारग ॥ २७ ॥
स्वयं च कर्मजनकः कर्म वै दैवकारणम् ।
स्वभावो जायते नृणां स्वात्मनः पूर्वकर्मणः ॥ २८ ॥
स्वकर्मणां च सर्वेषां जन्तूनां प्रतिजन्मनि ।
सुखं दुःखं भयं शोकः स्वात्मनश्च प्रजायते ॥ २९ ॥
स्वकर्मफलभोक्ता च जीवो हि सगुणः सदा ।
आत्मा भोजयिता साक्षी निर्गुणः प्रकृतेः परः ॥ ३० ॥
स एवाऽत्मा सर्वसेव्यः सर्वेषां च फलप्रदः ।
स वै सृजति दैवं च स्वभावं कर्म चैव हि ॥ ३१ ॥
कर्मणा च नृणां लज्जा प्रशंसा च प्रफुल्लता ।
लज्जाबीजं च वृत्तान्तं तथाऽपि कथयामि ते ॥ ३२ ॥
इक्त्युत्वा सर्ववृत्तान्तमवोचत्तं बृहस्पतिः ।
श्रुत्वा बभूव नम्रास्यो गौरीशो लज्जया तदा ॥ ३३ ॥
जपमाला कराद्भ्रष्टा कोपाविष्टस्य शूलिनः ।
बभूव सद्यः कम्पश्च रक्तपङ्कजलोचने ॥ ३४ ॥
संहर्तुरीशो रुद्रस्य विष्णोः पातुः सखा शिवः ।
स्रष्टुः स्तुत्यश्च मान्यश्च स्वात्मनः परमा गतिः ॥ ३५ ॥
निर्गुणस्य च कृष्णस्य प्रकृतीशस्य नारद ।
कोपात्प्रवक्तुमारेभे शुष्ककण्ठौष्ठतालुकः ॥ ३६ ॥
शिव उवाच
शिवमस्तु च साधूनां वैष्णवानां सतामिह ।
अवैष्णवानामसतामशिवं च पदे पदे ॥ ३७ ॥
ददाति वैष्णवेभ्यश्च यो दुःखं सुस्थितो जनः ।
श्रीकृष्णस्तस्य संहर्ता विघ्नस्तस्य पदे पदे ॥ ३८ ॥
अवैष्णवानां हृदयं नहि शुद्धं सदामलम् ।
श्रीकृष्णमन्त्रस्मरणं मनोनैर्मल्यकारणम् ॥ ३९ ॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
विष्णुमन्त्रोपासनया क्षीयते कर्म तन्नृणाम् ॥ ४० ॥
अहो श्रीकृष्णदासानां कः स्वभावः सुनिर्मलः ।
हृतभार्यं मूर्च्छितश्च न शशाप रिपुं गुरुः ॥ ४१ ॥
गुरुर्यस्य वरिष्ठश्च क्रोधहीनश्च धार्मिकः ।
शतपुत्रघ्नमप्येनं न शशाप रिपुं मुनिः ॥ ४२ ॥
निःश्वासाद्वै सुरगुरोर्भ्रातुर्मम बृहस्पतेः ।
भस्मीभूतो निमेषेण शतचन्द्रो भवेद्ध्रुवम् ॥ ४३ ॥
तथाऽपि तं नो शशाप धर्मभङ्गभयेन च ।
तपस्या हीयते शप्तुः कोपाविष्टस्य नित्यशः ॥ ४४ ॥
अहो ह्यत्रेरसत्पुत्रः परस्त्रीलुब्धकः शठः ।
तपस्विनो वैष्णवस्य ब्रह्मपुत्रस्य धीमतः ॥ ४५ ॥
धर्मिष्ठा ब्रह्मणः पुत्रा वैष्णवा ब्राह्मणास्तथा ।
केचिद्देवा द्विजा दैत्याः पौत्राश्च त्रिविधा मताः ॥ ४६ ॥
ये सात्त्विका ब्राह्मणास्ते देवा राजसिकास्तथा ।
दैत्यास्तामसिका रौद्रा बलिष्ठाश्चोद्धताः सदो ॥ ४७ ॥
स्वधर्मनिरता विप्रा नारायणपरायणाः ।
शैवाः शाक्ताश्च ते देवा दैत्याः पूजाविवर्जिताः ॥ ४८ ॥
मुमुक्षवो विष्णुभक्ता ब्राह्मणा दास्यलिप्सवः ।
ऐश्वर्यलिप्सवो देवाश्चासुरास्तामसास्तथा ॥ ४९ ॥
ब्राह्मणानां स्वधर्मश्च कृष्णस्यार्चनमीप्सितम् ।
निष्कामानां निर्गुणस्य परस्य प्रकृतेरपि ॥ ५० ॥
ये ब्राह्मणा वैष्णवाश्च स्वतन्त्राः परमं पदम् ।
यान्त्यन्योपासकाश्चान्यैः सार्धं च प्राकृते लये ॥ ५१ ॥
वर्णानां ब्राह्मणाः श्रेष्ठाः साधवो वैष्णवा यदि ।
विष्णुमन्त्रविहीनेभ्यो द्विजेभ्यः श्वपचो वरः ॥ ५२ ॥
परिपक्वा विपक्वा वा वैष्णवाः साधवश्च ते ।
सततं पाति तांश्चैव विष्णुचक्रं सुदर्शनम् ॥ ५३ ॥
यथा वह्नौ शुष्कतृणं भस्मीभूतं भवेत्सदा ।
तथा पापं वैष्णवेषु तेजस्विषु हुताशनात् ॥ ५४ ॥
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे प्रवेक्ष्यति ।
तं वैष्णवं महापूतं प्रवदन्ति मनीषिणः ॥ ५५ ॥
पुंसां शतं पितृणां च शतं मातामहस्य च ।
स्वसोदरांश्च जननीमुद्धरन्त्येव वैष्णवाः ॥ ५६ ॥
गयायां पिण्डदानेन पिण्डदा पिण्डभोजिनः ।
समुद्धरन्ति पुंसां च वैष्णवाश्च शतं शतम् ॥ ५७ ॥
मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः ।
यमस्तस्मान्महाभीतो वैनतेयादिवोरगः ॥ ५८ ॥
पुनन्त्येव हि तीर्थानि गङ्गादीनि च भारते ।
कृष्णमन्त्रोपासकाश्च स्पर्शमात्रेण वाक्पते ॥ ५९ ॥
पापानि पापिनां तीर्थे यावन्ति प्रभवन्ति च ।
नश्यन्ति तानि सर्वाणि वैष्णवस्पर्शमात्रतः ॥ ६० ॥
कृष्णमन्त्रोपासकानां रजसा पादपद्मयोः ।
सद्यो मुक्ताः पातकेभ्यः कृत्स्ना पूता वसुंधरा ॥ ६१ ॥
वायुश्च पवनो वह्निः सूर्यः सर्वं पुनाति च ।
एते पूता वैष्णवानां स्पर्शमात्रेण लीलया ॥ ६२ ॥
अहं ब्रह्मा च शेषश्च धर्मः साक्षी च कर्मणाम् ।
एते हृष्टाश्च वाञ्छन्ति वैष्णवानां समागमम् ॥ ६३ ॥
फलं कर्मानुरूपेण सर्वेषां भारते भवेत् ।
न भवेत्तद्वैष्णवे च स्विन्नधान्ये यथाऽङ्कुरम् ॥ ६४ ॥
हन्ति तेषां कर्म पूर्वं भक्तानां भक्तवत्सलः ।
कृपया स्वपदं तेभ्यो ददात्येव कृपानिधिः ॥ ६५ ॥
तेजस्विनां च प्रवरं वैष्णवं भृगुनन्दनम् ।
स चन्द्रो दुर्बलो भीतः शुक्रं च शरणं ययौ ॥ ६६ ॥
सुदर्शनो बलिष्ठं च शुक्रं जेतुं न शक्तिमान् ।
तथाऽपि चोद्धरिष्यामि तारां मन्त्रेण यद्गुरोः ॥ ६७ ॥
भज सत्यं परं ब्रह्म कृष्णमात्मानमीश्वरम् ।
सुप्रसन्ने भगवति पत्नीं प्राप्स्यसि लीलया ॥ ६८ ॥
मन्त्रं तस्य प्रदास्यामि भ्रातः कल्पतरुं परम् ।
कोटिजन्माघनिघ्नं च सर्वमङ्गलकारणम् ॥ ६९ ॥
ब्रह्मादिस्तम्बपर्यन्तं नश्वरं जलबिन्दुवत् ।
शरणं याहि गोविन्दं परमात्मानमीश्वरम् ॥ ७० ॥
तावद्भवेच्छा भोगेच्छा स्त्रीसुखेच्छा नृणामिह ।
यावद्गुरुमुखाम्भोजान्न प्राप्नोति मनुं हरेः ॥ ७१ ॥
संप्राप्य दुर्लभं मन्त्रं वितृष्णो हि भवेन्नरः ।
इन्द्रत्वममरत्वं च नहि वाञ्छन्ति वैष्णवाः ॥ ७२ ॥
नहि वाञ्छन्ति मोक्षं च दास्यभक्तिं विना हरेः ।
भक्तिनिर्मथनं भक्तोमोक्षं नो वाञ्छति प्रभोः ॥ ७३ ॥
ज्ञानं मृत्युंजयत्वं च सर्वसिद्धिं तदीप्सितम् ।
वाक्सिद्धिं चैव धातृत्वं भक्तानां नहि वाञ्छितम् ॥ ७४ ॥
भक्तिं विहाय कृष्णस्य विषयं यो हि वाञ्छति ।
विषमत्ति सुधां त्यक्त्वा वञ्चितो विष्णुमायया ॥ ७५ ॥
अहं ब्रह्मा च विष्णुश्च धर्मोऽनन्तश्च कश्यपः ।
कपिलश्च कुमारश्च नरनारायणावृषी ॥ ७६ ॥
स्वायंभुवो मनुश्चैव प्रह्लादश्च पराशरः ।
भृगुः शुक्रश्च दुर्वासा वसिष्ठः क्रतुरङ्गिराः ॥ ७७ ॥
बलिश्च वालखिल्याश्च वरुणश्च हुताशनः ।
वायुः सूर्यश्च गरुडो दक्षो गणपतिः स्वयम् ॥ ७८ ॥
एते परा भक्तवराः कृणस्य परमात्मनः ।
ये च तस्य कलाः श्रेष्ठास्ते तद्भक्तिपरायणाः ॥ ७९ ॥
इत्युक्त्वा शंकरस्तस्मै ददौ कल्पतरुं मनुम् ।
लक्ष्मीमायाकामबीजं ङेन्तं कृष्णपदं मुने ॥ ८० ॥
परं पूजाविधानं च स्तोत्रं च कवचं तथा ।
तत्पुरश्चरणं ध्यानं शुद्धे मन्दाकिनीतटे ॥ ८१ ॥
गुरुः संप्राप्य तं मन्त्रं शंकराच्च जगद्गुरोः ।
वितृष्णो हि भवाब्धौ च बभूव तमुवाच ह ॥ ८२ ॥
बृहस्पतिरुवाच
आज्ञां कुरु जगन्नाथ यामि तप्तुं हरेस्तपः ।
तारा तिष्ठतु तत्रैव न तया मे प्रयोजनम् ॥ ८३ ॥
पश्यामि विषतुल्यं च सर्वं नश्वरमीश्वर ।
श्रीकृष्णं शरणं यामि सत्यं नित्यं च निर्गुणम् ॥ ८४ ॥
महादेव उवाच
परग्रस्तां स्त्रियं त्यक्त्वा न प्रशस्यं तपो मुने ।
संभावितस्य दुश्चर्चा मरणादतिरिच्यते ॥ ८५ ॥
पुरो गच्छ महाभाग तमेतं नर्मदातटम् ।
यत्र ब्रह्मादयो देवास्तत्राहं यामि सत्वरम् ॥ ८६ ॥
शिवस्य वचनं श्रुत्वा ययौ सुरगुरुः स्वयम् ।
आययौ च महाभागः शंकरो नर्मदातटम् ॥ ८७ ॥
सगणं शकरं दृष्ट्वा प्रसन्नवदनेक्षणम् ।
प्रणेमुर्देवताः सर्वा मनवो मुनयस्तथा ॥ ८८ ॥
ननाम शंभुः शिरसा विष्णुं च कमलोद्भवम् ।
ददतुस्तौ महेशाय प्रेम्णाऽऽलिङ्गनमासनम् ॥ ८९ ॥
एतस्मिन्नन्तरे तत्र चागमच्च बृहस्पतिः ।
प्रणनाम महादेवं विष्णुं च कमलोद्भवम् ॥ ९० ॥
सूर्यं धर्ममनन्तं च नरं मां च मुनीश्वरान् ।
स्वगुरुं पितरं भक्त्या चावसत्तत्र संसदि ॥ ९१ ॥
संचिन्त्य मनसा युक्तिमूचे तत्र च संसदि ।
स्वयं विष्णुश्च भगवान्ब्रह्माणं चन्द्रशेखरम् ॥ ९२ ॥
विष्णुरुवाच
युवां च मुनयश्चैव समुद्रपुलिनं द्रुतम् ।
शुक्रं कविं च मध्यस्थं प्रस्थापयितुमर्हथ ॥ ९३ ॥
विग्रहेणैव विषमं भविष्यति न संशयः ।
मदाशिषा सुरगुरुस्तारां प्राप्स्यति निश्चितम् ॥ ९४ ॥
सुरैः स्तुतश्च संतुष्टः शुक्राचार्यो भविष्यति ।
सुरैः शुक्रो हि न जितः कृष्णचक्रेण रक्षितः ॥ ९५ ॥
युवाभ्यां प्रार्थ्यमानोऽहं युवयोः स्तवनेन च ।
श्वेतद्वीपादागतोऽस्मि परितुष्टः स्तवेन च ॥ ९६ ॥
शुक्राश्रमसमीपं तु सर्वा गच्छन्तु देवताः ।
रिपुर्बलिष्ठः स्तोत्रेण वशीभूत इति श्रुतिः ॥ ९७ ॥
इत्युक्त्वा जगतां नाथस्तत्रैवान्तरधीयत ।
स्तुतो ब्रह्मादिभिर्देवैः प्रणतैः परिपूजितः ॥ ९८ ॥
गते च जगतां नाथे श्वेतद्वीपं च नारद ।
चिन्तिताश्च सुराः सर्वे विषण्णमनसस्तथा ॥ ९९ ॥
मुनीन्देवांश्च संबोध्य ब्रह्मा वै तत्र संसदि ।
उवाच नीतिसारं तत्संमतं शंकरस्य सः ॥ १०० ॥
ब्रह्मोवाच
मम शंभोश्च धर्मस्य विष्णोर्वा सर्वसाक्षिणः ।
अस्माकं च समः स्नेहो दैत्ये देवे च पुत्रकाः ॥ १०१ ॥
दैत्यानां च गुरुं शुक्रं प्रपन्नश्च निशाकरः ।
न जितश्च सुरैः शुक्रः पूजितो दितिनन्दनैः ॥ १०२ ॥
ताराहेतोरहं यामि शुक्रस्य भवनं सुराः ।
सर्वे समुद्रपुलिनं यान्तु विष्णोर्निदेशतः ॥ १०३ ॥
इत्युक्त्वा जगतां धाता चागमच्छुक्रसंनिधिम् ।
प्रययुर्देवता विप्राः समुद्रपुलिनं मुने ॥ १०४ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे श्रीकृष्णोपदिष्ट-
तारोद्धरणोपायज्ञानं नाम षष्टितमोऽध्यायः ॥ ६० ॥
GO TOP
|