ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - द्विपञ्चाशत्तमोऽध्यायः

राधोपाख्याने सुयज्ञोपाख्याने कर्मविपाकः -


श्रीपार्वत्युवाच
अन्येषां च कृतघ्नानां यद्यत्कर्मफलं प्रभो ।
तेषां किमूचुर्मुनयो वेदवेदाङ्‌गपारगाः ॥ १ ॥
श्रीमहेश्वर उवाच
प्रश्नं कुर्वति राजेन्द्रे सर्वेषु मुनिषु प्रिये ।
तत्र प्रवक्तुमारेभे ऋषिर्नारायणो महान् ॥ २ ॥
श्रीनारायण उवाच
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः ।
स कृतघ्न इति ज्ञेयः फलं शृणु च भूमिप ॥ ३ ॥
यावन्तो रेणवः सिक्ता विप्राणां नेत्रबिदुभिः ।
तावद्वर्षसहस्रं च शूलपोते स तिष्ठति ॥ ४ ॥
तप्ताङ्‌गारं च तद्‌भक्ष्यं पानं वै तप्तमूत्रकम् ।
तप्ताङ्‌गारे च शयनं ताडितो यमकिंकरैः ॥ ५ ॥
तदन्ते च महापापी विष्ठायां जायते कृमिः ।
षष्टिवर्षसहस्राणि देवमानेन भारते ॥ ६ ॥
ततो भवेद्‌भूमिहीनः प्रजाहीनश्च मानवः ।
दरिद्रः कृपणो रोगी शूद्रो निन्द्यस्ततः शुचिः ॥ ७ ॥
नारद उवाच
हन्ति यः परकीर्तिं च स्वकीर्तिं वा नराधमः ।
स कृतघ्न इति ख्यातस्तत्फलं च निशामय ॥ ८ ॥
अन्धकूपे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश ।
कीटैर्नकुलगृध्रैश्च भक्षितः सततं नृप ॥ ९ ॥
तप्तक्षारोदकं पापी नित्यं पिबति वै ततः ।
सप्तजन्मस्वतः सर्पः काकः पञ्चस्वतः शुचिः ॥ १० ॥
देवल उवाच
ब्रह्मस्वं वा गुरुत्वं वा देवस्वं वाऽपि यो हरेत् ।
स कृतघ्न इति ज्ञेयो महापापी च भारते ॥ ११ ॥
अवटोदे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश ।
ततो भवेत्सुरापी स ततः शूद्रस्ततः शुचिः ॥ १२ ॥
जैगीषव्य उवाच
पितृमातृगुरूंश्चापि भक्तिहीनो न पालयेत् ।
वाचाऽपि ताडयेत्तांश्च स कृतघ्न इति स्मृतः ॥ १३ ॥
वाचा च ताडयेन्नित्यं स्वामिनं कुलटा च या ।
सा कृतघ्नीति विख्याता भारते पापिनी वरा ॥ १४ ॥
वह्निकुऽण्डं महाघोरं तौ प्रयातः सुनिश्चितम् ।
तत्र वह्नौ वसत्येव यावच्चन्द्रदिवाकरौ
ततो भवेज्जलौकाश्च सप्तजन्मस्वतः शुचिः ॥ १५ ॥
वाल्मीकिरुवाच
यथा तरुषु वृक्षत्वं सर्वत्र न जहाति च ।
तथा कृतघ्नता राजत्सर्वपापेषु वर्तते ॥ १६ ॥
मिथ्यासाक्ष्यं यो ददाति कामात्क्रोधात्तथा भयात् ।
सभायां पाक्षिकं वक्ति स कृतघ्न इति स्मृतः ॥ १७ ॥
पुण्यमात्रं चापि राजन्यो हन्ति स कृतघ्नकः ।
सर्वत्रापि च सर्वेषां पुण्यहानौ कृतघ्नता ॥ १८ ॥
मिथ्यासाक्ष्यं पाक्षिकं वा भारते वक्ति यो नृप ।
यावदिन्द्रसहस्रं च सर्पकुण्डे वसेद्ध्रुवम् ॥ १९ ॥
संततं वेष्टितः सर्पैर्भीतो वै भक्षितस्तथा ।
भुङ्‌क्ते च सर्पविण्मूत्रं यमदूतेन ताडितः ॥ २० ॥
कृकलासो भवेत्तत्र भारते सप्तजन्मसु ।
सप्तजन्मसु मण्डूकः पितृभिः सप्तभिः सह ॥ २१ ॥
ततो भवेद्वै वृक्षश्च महारण्ये तु शाल्मलिः ।
ततो भवेन्नरो मूकस्ततः शूद्रस्ततः शुचिः ॥ २२ ॥
आस्तीक उवाच
गुवङ्‌गनानां गमने मातृगामी भवेन्नरः ।
नराणां मातृगमने प्रायश्चित्तं न विद्यते ॥ २३ ॥
भारते च नृपश्रेष्ठ यो दोषो मातृगामिनाम् ।
ब्राह्मणीगमने चैव शूद्राणां तावदेव हि ॥ २४ ॥
ब्राह्मण्यास्तावदेव स्याद्‌दोषः शूद्रेण मैथुने ।
कन्यानां पुत्रपत्‍नीनां श्वश्रूणां गमने तथा ॥ २५ ॥
सगर्भभ्रातृपत्‍नीनां भगिनीनां तथैव च ।
दोषं वक्ष्यामि राजेन्द्र यदाह कमलोद्‌भवः ॥ २६ ॥
यः करोति महापापी चैताभिः सह मैथुनम् ।
जीवन्मृतो भवेत्सोऽपि चण्डालोऽस्पृश्य एव च ॥ २७ ॥
नाधिकारो भवेत्तस्य सूर्यमण्डलदर्शने ।
शालग्रामं तज्जलं च तुलस्याश्च दलं जलम् ॥ २८ ॥
सर्वतीर्थजलं चैव विप्रपादोदकं तथा ।
स्प्रष्टुं च नैव शक्नोति विट्तुल्यः पातकी नरः ॥ २९ ॥
देवं गुरुं ब्राह्मणं च नमस्कर्तुं न चार्हति ।
विष्ठाधिकं तदन्नं च जलं मूत्राधिकं तथा ॥ ३० ॥
देवताः पितरो विप्रा नैव गृह्णन्ति भारते ।
भवेत्तदङ्‌गवातेन तीर्थमङ्‌गारवाहनम् ॥ ३१ ॥
सप्तरात्रं ह्यपवसेद्‌दैवस्पर्शात्तथा द्विजः ।
भाराक्रान्ता च पृथिवी तद्‌भारं वोढुमक्षमा ॥ ३२ ॥
तत्पापात्पतितो देशः कन्याविक्रयिणो यथा ।
तत्स्पर्शाच्च तदालापाच्छयनाश्रयभोजनात् ॥ ३३ ॥
नृणां च तत्समं पापं भवत्येव न संशयः ।
कुम्भीपाके वत्सेत्सोऽपि यावद्वै ब्रह्मणः शतम् ॥ ३४ ॥
दिवानिशं भ्रमेत्तत्र चक्रावर्तं निरन्तरम् ।
दग्धो वाऽग्निशिखाभिश्च यमदूतैश्च ताडितः ॥ ३५ ॥
एवं नित्यं महापापी भुडःक्ते निरययातनाम् ।
विष्ठाहारश्च सर्वत्र कुम्भीपाकेऽथ पातितः ॥ ३६ ॥
गते प्राकृतिके घोरे महति प्रलये तथा ।
पुनः सृष्टेः समारम्भे तद्विधो वा भवेत्पुनः ॥ ३७ ॥
षष्टिवर्षसहस्राणि कृमिश्च पुंश्चलीभगे ।
षष्टिवर्षसहस्राणि विष्ठायां च कृमिर्भवेत् ॥ ३८ ॥
ततो भवति चण्डालो भार्याहीनो नपुंसकः ।
सप्तजन्म गलत्कृष्ठी चाण्डालोऽस्पृश्य एव च ॥ ३९ ॥
ततस्तीर्थे भवेद्वृक्षः क्षुधितः सप्तजन्मसु ।
सप्तजन्मसु सर्पश्च भार्याहीनो नपुंसकः ॥ ४० ॥
सप्तजन्मसु शूद्रश्च गलत्कुष्ठी नपुंसकः ।
ततो भवेद्‌ब्राह्मणश्चाप्यन्धः कुष्ठी नपुंसकः ॥ ४१ ॥
लब्ध्वैवं सप्त जन्मानि महापापी भवेच्छुचिः ॥ ४२ ॥
मुनय ऊचः
इत्येवं कथितं सर्वमस्माभिर्वो यथागमम् ।
एभिस्तुल्यो भवेद्‌दोषोऽप्यतिथीनां पराभवे ॥ ४३ ॥
प्रणामं कुरु विप्रेन्द्रं गृहं प्रापय निश्चितम् ।
संपूज्य ब्राह्मणं यत्‍नाद्‌गृहीत्वा ब्राह्मणाशिषम् ॥ ४४ ॥
वनं गच्छ महाराज तपस्यां कुरु सत्वरम् ।
ब्रह्मशापैर्विनिर्मुक्तः पुनरेवाऽऽगमिष्यसि ॥ ४५ ॥
इत्युक्त्वा मुनयः सर्वे ययुस्तूर्णं स्वमन्दिरम् ।
सुराश्चापि च राजानो बन्धुवर्गाश्च पार्वति ॥ ४६ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे हरगौरीसंवादे राधोपाख्याने
सुयज्ञोपाख्याने कर्मविपाको नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥


GO TOP