ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - त्रिपञ्चाशत्तमोऽध्यायः

राधोपाख्याने सुयज्ञोपाख्याने सुयज्ञं प्रत्यतिथ्युपदेशः -


पार्वत्त्युवाच
गतेषु मुनिसंघेषु श्रुत्वा कर्मफलं नृणाम् ।
किं चकार नृपश्रेष्ठो ब्रह्मशापेन विह्वलः ॥ १ ॥
अतिथिब्राह्मणो वाऽपि किं चकार तदा प्रभो ।
जगाम नृपगेहं वा न वा तद्वक्तुमर्हसि ॥ २ ॥
महेश्वर उवाच
गतेषु मुनिसंघेषु चिन्ताग्रस्तो नराधिपः ।
प्रेरितश्च वसिष्ठेन धर्मिष्ठेन पुरोधसा ॥ ३ ॥
पपात दण्डवद्‌भूमौ पादयोर्ब्राह्मणस्य च ।
त्यक्त्वा मन्युं द्विजश्रेष्ठो ददौ तस्मै शुभाशिषम् ॥ ४ ॥
सस्मितं ब्राह्मणं दृष्ट्‍वा त्यक्तमन्युं कृपामयम् ।
उवाच नृपतिश्रेष्ठः साश्रुनेत्रः कृताञ्जलिः ॥ ५ ॥
राजोवाच
कुत्र वंशे भवाञ्जातः किं नाम भवतः प्रभो ।
किं नाम वा पितुर्ब्रूहि क्व वासः कथमागतः ॥ ६ ॥
विप्ररूपी स्वयं विष्णुर्गूढः कपटमानुषः ।
साक्षात्स मूर्तिमानग्निः प्रज्वलन्ब्रह्मतेजसा ॥ ७ ॥
को वा गुरुस्ते भगवन्निष्टदेवश्च भारते ।
तव वेषः कथमयं ज्ञानपूर्णस्य सांप्रतम् ॥ ८ ॥
गृहाण राज्यं निखिलमैश्वर्यं कोशमेव च ।
स्वभृत्यं कुरु मे पुत्रं मां च दासीं स्त्रियं मुने ॥ ९ ॥
सप्तसागरसंयुक्तां सप्तद्वीपां वसुंधराम् ।
अष्टादशोपद्वीपाढ्यां सशैलवनशोभिताम् ॥ १० ॥
मया भृत्येन शाधि त्वं राजेन्द्रो भव भारते ।
रत्‍नेन्द्रसारखचिते तिष्ठ सिंहासने वरे ॥ ११ ॥
नृपस्य वचनं श्रुत्वा जहास मुनिपुंगवः ।
उवाच परमं तत्त्वमज्ञातं सर्वदुर्लभम् ॥ १२ ॥
अतिथिरुवाच
मरीचिर्ब्रह्मणः पुत्रस्तत्प्रुत्रः कश्यपः स्वयम् ।
कश्यपस्य सुताः सर्वे प्राप्ता देवत्वमीप्सितम् ॥ १३ ॥
तेषु त्वष्टा महाज्ञानी चकार परमं तपः ।
दिव्यं वर्षसहस्रं च पुष्करे दुष्करं तपः ॥ १४ ॥
सिषेवे ब्राह्मणार्थं च देवदेवं हरिं परम् ।
नारायणाद्वरं प्राप विप्रं तेजस्विनं सुतम् ॥ १५ ॥
ततो बभूव तेजस्वी विश्वरूपस्तपोधनः ।
पुरोधसं चकारेन्द्रो वाक्यतौ तं क्रुधा गते ॥ १६ ॥
मातामहेभ्यो दैत्येभ्यो दत्तवन्तं घृताहुतिम् ।
चिच्छेद तं शुनासीरो ब्राह्मणं मातुराज्ञया ॥ १७ ॥
विश्वरूपस्य तनयो विरूपो मत्पिता नृप ।
अह च सुतपा नाम विरागी काश्यपो द्विजः ॥ १८ ॥
महादेवो मम गुरुर्विद्याज्ञानमनुप्रदः ।
अभीष्टदेवः सर्वात्मा श्रीकृष्णः प्रकृतेः परः ॥ १९ ॥
तच्चिन्तयामि पादाब्जं न मे वाञ्छाऽस्ति संपदि ।
सालोक्यसार्ष्टिसारूप्यसामीप्यं राधिकापतेः ॥ २० ॥
तेन दत्तं न गृह्णामि विना तत्सेवनं शुभम् ।
ब्रह्मत्वममरत्वं वा मन्येऽहं जलबिन्दुवत् ॥ २१ ॥
भक्तिव्यवहितं मिथ्याभ्रममेव तु नश्वरम् ।
इन्द्रत्वं वा मनुत्वं वा सौरत्वं वा नराधिप ॥ २२ ॥
न मन्ये जलरेखेति नृपत्वं केन गण्यते ।
श्रुत्वा सुयज्ञ यज्ञे ते मुनीनां गमनं नृप ।
लालसा विष्णुभक्तिं ते संप्रापयितुमागतः ॥ २३ ॥
केवलानुगृहीतस्त्वं नहि शप्तो मयाऽधुना ।
समुद्धृतश्च पतितो घोरे निम्ने भवार्णवे ॥ २४ ॥
नह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।
ते पुनन्त्युरुकालेन कृष्णभक्ताश्च दर्शनात् ॥ २५ ॥
राजन्निर्गम्यतां गेहाद्‌देहि राज्यं सुताय च ।
पुत्रे न्यस्य प्रिया साध्वीं गच्छ वत्स वनं द्रुतम् ॥ २६ ॥
ब्रह्मादिस्तम्बपर्यन्तं सर्वं मिथ्यैव भूमिप ।
श्रीकृष्णं भज राधेशं परमात्मानमीश्वरम् ॥ २७ ॥
ध्यानसाध्यं दुराराध्यं ब्रह्मविष्णुशिवादिभिः ।
आविर्भूतैस्तिरोभूतैः प्राकृतैः प्रकृतेः परम् ॥ २८ ॥
ब्रह्मा स्रष्टा हरिः पाता हरः संहारकारकः ।
दिक्पालाश्च दिगीशाश्च भ्क्त्यन्त्येवास्य मायया ॥ २९ ॥
यदाज्ञया वाति वायुः सूर्यो दिनपतिः सदा ।
निशापतिः शशी शश्वत्सस्यसुस्निग्धताकरः ॥ ३० ॥
कालेन मृत्युः सर्वेषां सर्वविश्वेषु वै भवेत् ।
काले वर्षति शक्रश्च दहत्यग्निश्च कालतः ॥ ३१ ॥
भीतवद्विश्वशास्ता च प्रजासंयमनो यमः ।
कालः संहरते काले काले सृजति पाति च ॥ ३२ ॥
स्वदेशे वै समुद्रश्च स्वदेशे वै वसुंधरा ।
स्वदेशे पर्वताश्चैव स्वाः पातालाः स्वदेशतः ॥ ३३ ॥
स्वर्लोकाः सप्त राजेन्द्र सप्तद्वीपा वसुंधरा ।
शैलसागरसंयुक्ताः पातालाः सप्त चैव हि ॥ ३४ ॥
ब्रह्माण्डमेभिर्लोकैश्च डिम्बाकारं जलप्लुतम् ।
सन्त्येव प्रतिविध्यण्डे ब्रह्मविष्णुशिवादयः ॥ ३५ ॥
सुरा नराश्च नागाश्च गन्धर्वा राक्षसादयः ।
आपातालाद्‌ब्रह्मलोकपर्यन्तं डिम्बरूपकम् ॥ ३६ ॥
इदमेव तु विध्यण्डमुत्तमं कृत्रिमं नृप ।
नाभिपद्मे विराड्विष्णोः क्षुद्रस्य जलशालिनः ॥ ३७ ॥
स्थितं यथा पद्मबीजं कर्णिकायां च पङ्‍कजे ।
एवं सोऽपि शयानः स्याज्जलतल्पे सुविप्लुते ॥ ३८ ॥
ध्यायत्येव महायोगी प्राकृतः प्रकृतेः परम् ।
कालभीतश्च कालेशं कृष्णमात्मानमीश्वरम् ॥ ३९ ॥
महाविष्णोर्लोमकूपे साधारः सोऽस्ति विस्तृते ।
कूपेषु लोम्नां प्रत्येकमेवं विश्वानि सन्ति वै ॥ ४० ॥
महाविष्णोर्गात्रलोम्नां ब्रह्माण्डानां च भूमिप ।
संख्यां कर्तुं न शक्नोति कृष्णोऽप्यन्यस्य काकथा ॥ ४१ ॥
महाविष्णुः प्राकृतिकः सोऽपि डिम्बोद्‌भवः सदा ।
भवेत्कृष्णेच्छया डिम्बः प्रकृतेर्गर्भसंभवः ॥ ४२ ॥
सर्वाधारो महाविष्णुः कालभीतः स शङ्‌कितः ।
कालेशं ध्यायति स्वैरं कृष्णमात्मानमीश्वरम् ॥ ४३ ॥
एवं च सर्वविश्वस्था ब्रह्मविष्णुशिवादयः ।
महान्विराट् क्षुद्रविराट् सर्वे प्राकृतिकाः सदा ॥ ४४ ॥
सा सर्वबीजरूपा च मूलप्रकृतिरीश्वरी ।
काले लीना च कालेशे कृष्णे तं ध्यायति स्म सा ॥ ४५ ॥
एवं सर्वे कालभीताः प्रकृतिः प्राकृतास्तथा ।
आविर्भूतास्तिरोभूताः कालेन परमात्मनि ॥ ४६ ॥
इत्येवं कथितं सर्वं महाज्ञानं सुदुर्लभम् ।
शिवेन गुरुणा दत्तं किं भूयः श्रोतुमिच्छसि ॥ ४७ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे हरगौरीसंवादे राधोपाख्याने
सुयज्ञोपाख्याने सुयज्ञं प्रत्यतिथ्युपदेशो
नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥


GO TOP