ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - एकपञ्चाशत्तमोऽध्यायः

राधोपाख्याने कर्मविपाकः -


पार्वत्युवाच
किमुचुर्ब्राह्मणं ब्रह्मन्ब्राह्मणा ब्रह्मणः सुताः ।
नीतिज्ञा नीतिवचनं तन्मां व्याख्यातुमर्हसि ॥ १ ॥
महादेव उवाच
संतोष्य तं ब्राह्मणं च स्तवेन विनयेन च ।
क्रमेण वक्तुमारेभे मुनिसंघो वरानने ॥ २ ॥
सनत्कुमार उवाच
त्वत्पश्चादागता लक्ष्मीः कीर्तिः सत्त्वं यशस्तथा ।
सुशीलच महैश्वर्यं पितरोऽग्निः सुरास्तथा ॥ ३ ॥
आगता नृपगेहेभ्यः कृत्वा भ्रष्टश्रियं नृपम् ।
भव तुष्टो द्विजश्रेष्ठ चाऽऽशुतोषश्चवाडवः ॥ ४ ॥
ब्राह्मणानां तु हृदयं कोमलं नवनीतवत् ।
शुद्धं सुनिर्मलं चैव मार्जितं तपसा मुने ॥ ५ ॥
क्षमस्वाऽऽगच्छ विप्रेन्द्र शुद्धं कुरु नृपालयम् ।
आशिषं कुरु तस्मै त्वं पवित्रपदरेणुना ॥ ६ ॥
भृगुरुवाच
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
पितरस्तस्य देवाश्च वह्निश्चैव तथैव च ॥ ७ ॥
निराशाः प्रतिगच्छन्ति चातिथेरप्रतिग्रहात् ।
क्षमस्वाऽऽगच्छ विप्रेन्द्र शुद्धं कुरु नृपालयम् ॥ ८ ॥
स्त्रीघ्नैर्गोघ्नैः कृतघ्नैश्च ब्रह्मघ्नैर्गुरुतल्पगैः ।
तुल्यदोषो भवत्येतैर्यस्यातिथिरनर्चितः ॥ ९ ॥
पुलस्त्य उवाच
पश्यन्ति ये वक्रदृष्ट्या चातिथिं गृहमागतम् ।
दत्त्वा स्वपापं तस्मै तत्पुण्यमादाय गच्छति ॥ १० ॥
क्षमस्व नृपदोषं च गच्छ वत्स यथासुखम् ।
राजा स्वकर्मदोषेणनोत्तस्थौ तत्क्षमां कुरु ॥ ११ ॥
पुलह उवाच
राजश्रिया विद्यया वा ब्राह्मणं योऽवमन्यते ।
विप्रस्त्रिसंध्यहीनो यः श्रीहीनः क्षत्रियो भवेत् ॥ १२ ॥
एकादशीविहीनश्च विष्णुनैवेद्यवञ्चितः ।
क्षमस्वाऽऽगच्छ विप्रेन्द्र शुद्धं कुरु नृपालयम् ॥ १३ ॥
ऋतुरुवाच
ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा शूद्र एव च ।
दीक्षाहीनो भवेत्सोऽपि ब्राह्मणं योऽवमन्यते ॥ १४ ॥
धनहीन पुत्रहीनो भार्याहीनो भवेद्ध्रुवम् ।
क्षमस्वाऽऽगच्छ भगवञ्छुद्धं कुरु नृपालयम् ॥ १५ ॥
अङ्‌गिरा उवाच
ज्ञानवान्ब्राह्मणो भूत्वा ब्राह्मणं योऽवमन्यते ।
वृषवाहो भवेत्सोऽपि भारते सप्तजन्मसु ॥ १६ ॥
मरीचिरुवाच
पुण्यक्षेत्रे भारते च देवं च ब्राह्मणं गुरुम् ।
विष्णुभक्तिविहीनश्च स भवेद्योऽवमन्यते ॥ १७ ॥
कश्यप उवाच
वैष्णवं ब्राह्मणं दृष्ट्‍वा यो हसत्यवमन्यते ।
विष्णुमन्त्रविहीनश्च तत्पूजाविरतो भवेत् ॥ १८ ॥
प्रचेता उवाच
अतिथिं ब्राह्मणं दृष्ट्‍वा नाभ्युत्थानं करोति यः ।
पितृमातृभक्तिहीनः स भवेद्‌भारते भुवि ॥ १९ ॥
प्राप्नोति कौञ्जरीं योनिं स मूढः सप्तजन्मसु ।
शीघ्रं गच्छ द्विजश्रेष्ठ राज्ञे देह्याशिषः शुभाः ॥ २० ॥
दुर्वासा उवाच
गुरुं वा ब्राह्मणं वाऽपि देवताप्रतिमामपि ।
दृष्ट्‍वा शीघ्रं न प्रणमेत्स भवेत्सूकरो भुवि ॥ २१ ॥
मिथ्यासाक्षी च भवति तथा विश्वासघातकः ।
क्षमस्व सर्वमस्माकमातिथ्यग्रहणं कुरु ॥ २२ ॥
राजोवाच
छलेन कथितो धर्मो युष्माभिर्मुनिपुंगवैः ।
सर्वं कृत्वा च विस्पष्टं मां मूढं बोधयन्त्वहो ॥ २३ ॥
स्त्रीघ्नगोघ्नकृतघ्नानां गुरुस्त्रीगामिनां तथा ।
ब्रह्मघ्नानां च को दोषो ब्रूत मां योगिनां वराः ॥ २४ ॥
वसिष्ठ उवाच
कामतो गोवधे राजन्वर्षं तीर्थं भ्रमेन्नरः ।
यवयावकभोजी च करेण च जलं पिबेत् ॥ २५ ॥
तदा धेनुशतं दिव्यं ब्राह्मणेभ्यः सदक्षिणम् ।
दत्त्वा मुञ्चति पापाच्च भोजयित्वा शतं द्विजान् ॥ २६ ॥
प्रायश्चित्ते तु वै चीर्णे सर्वपापान्न मुच्यते ।
पापावशेषाद्‌भवति दुःखी चाण्डाल एव च ॥ २७ ॥
आतिदेशिकहत्यायां तदधं फलमश्नुते ।
प्रायश्चित्तानुकल्पेन सर्वपापान्न मुच्यते ॥ २८ ॥
शुक्र उवाच
गोहत्याद्विगुणं पापं स्त्रीहत्यायां भवेद्ध्रुवम् ।
षष्टिवर्षसहस्राणि कालसूत्रे वसेद्ध्रुवम् ॥ २९ ॥
ततो भवेन्महापापी सूकरः सप्तजन्मसु ।
ततो भवति सर्पश्च सप्तजन्मन्यतः शुचिः ॥ ३० ॥
बृहस्पतिरुवाच
स्त्रीहत्याद्विगुणं पापं ब्रह्महत्याकृतो भवेत् ।
लक्षवर्षं महाघोरे कुम्भीपाके वसेद्ध्रुवम् ॥ ३१ ॥
ततो भवेन्महापापी विष्ठाकीटः शताब्दकम् ।
ततो भवति सर्पश्च सप्तजन्मन्यतः शुचिः ॥ ३२ ॥
गौतम उवाच
दोषः कृतघ्ने राजेन्द्र ब्रह्महत्याचतुर्गुणः ।
निष्कृतिर्नास्ति वेदोक्ता कृतघ्नानां च निश्चितम् ॥ ३३ ॥
राजोवाच
लक्षणं च कृतघ्नानां वद वेदविदां वर ।
कृतघ्नः कतिधा प्रोक्तः केषु को दोष एव च ॥ ३४ ॥
ऋष्यशृङ्‌गः उवाच
कृतघ्नाः षोडशविधाः सामवेदे निरूपिताः ।
सर्वः प्रत्येकदोषेण प्रत्येकं फलमश्नुते ॥ ३५ ॥
कृते सत्ये च पुण्ये च स्वधर्मे तपसि स्थिते ।
प्रतिज्ञायां च दाने च स्वगोष्ठीपरिपालने ॥ ३६ ॥
गुरुकृत्ये देवकृत्ये काम्यकृत्ये द्विजार्चने ।
नित्यकृत्ये च विश्वासे परधर्मप्रदानयोः ॥ ३७ ॥
एतान्यो हन्ति पापिष्ठः स कृतघ्न इति स्मृतः ।
एतेषां सन्ति लोकाश्च तज्जन्म भिन्नयोनिषु ॥ ३८ ॥
यान्यांश्च नरकांस्ते च यान्ति राजेन्द्र पापिनः ।
ते ते च नरकाः सन्ति यमलोके सुनिश्चितम् ॥ ३९ ॥
सुयज्ञ उवाच
के किं कृत्वा कृतघ्नाश्च कान्कान्गच्छन्ति रौरवान् ।
प्रत्येकं श्रोतुमिच्छामि वक्तुमर्हसि मे प्रभो ॥ ४० ॥
कात्यायन उवाच
कृत्वा शपथरूपं च सत्यं हन्ति न पालयेत् ।
स कृतघ्नः कालसूत्रे वसेदेव चतुर्युगम् ॥ ४१ ॥
सप्तजन्मसु काकश्च सप्तजन्मसु पेचकः ।
ततः शूद्रो महाव्याधिः सप्तजन्मस्वतः शुचिः ॥ ४२ ॥
सनन्दन उवाच
पुण्यं कृत्वा वदत्येव कीर्तिवर्धनहेतुना ।
स कृतघ्नस्तप्तसूर्म्यां वसत्येव युगत्रयम् ॥ ४३ ॥
पञ्चजन्मसु मण्डूकस्त्रिषु जन्मसु कर्कटः ।
तदा मूको महाव्याधिर्दरिद्रश्च ततः शुचिः ॥ ४४ ॥
सनातन उवाच
स्वधर्मं हन्ति यो विप्रः संध्यात्रयविवर्जितः ।
अतर्पयंश्च यत्स्नाति विष्णुनैवेद्यवर्जितः ॥ ४५ ॥
विष्णुपूजाविष्णुभक्तिविष्णुमन्त्रविहीनकः ।
एकादशीविहीनः श्रीकृष्णजन्मदिने तथा ॥ ४६ ॥
शिवरात्रौ च यो भुडःक्ते श्रीरामनवमीदिने ।
पितृकृत्यादिहीनो यः स कृतघ्न इति स्मृतः ॥ ४७ ॥
कुम्भीपाके वसत्येव यावदिन्द्राश्चतुर्दश ।
ततश्चाण्डालतां याति सप्तजन्मसु निश्चितम् ॥ ४८ ॥
शतजन्मनि गृध्रश्च शतजन्मनि सूकरः ।
ततो भवेद्‌ब्राह्मणश्च शूद्राणां सूपकारकः ॥ ४९ ॥
ततो भवेज्जन्मसप्त ब्राह्मणो वृषवाहकः ।
शूद्राणां शवदाही च भवेत्सप्तसु जन्मसु ॥ ५० ॥
द्विजो भूत्वा सप्तजनौ भारते वृषलीपतिः ।
भुक्त्वा स्वभोगलेशं च भ्रमित्वा याति रौरवम् ॥ ५१ ॥
पुनः पुनः पापयोनिं नरकं च पुनः पुनः ।
ततो भवेद्‌गर्दभश्च मार्जारः पञ्चजन्मसु ॥ ५२ ॥
पञ्चजन्मसु मण्डूको भवेच्छुद्धस्ततः क्रमात् ॥ ५३ ॥
सुयज्ञ उवाच
शूद्राणां सूपकरणे शूद्राणां शवदाहने ।
शूद्रान्नभोजने वाऽपि शूद्रस्त्रीगमनेऽपि च ॥ ५४ ॥
ब्राह्मणानां च को दोषो वृषाणां वाहने तथा ।
एतान्सर्वान्समालोच्य ब्रूहि मां निश्चितं मुने ॥ ५५ ॥
पराशर उवाच
शूद्राणां सूपकारश्च यो विप्रो ज्ञान्दुर्बलः ।
असिपत्रे वसत्येव युगानामेकसप्ततिः ॥ ५६ ॥
ततो भवेद्‌गर्दभश्च मूषकः सप्तजन्मसु ।
तैलकीटः सप्तजन्मस्वतः शुद्धो भवेन्नरः ॥ ५७ ॥
जरत्कारुरुवाच
भृत्यद्वारा स्वयं वाऽपि यो विप्रो वृषवाहकः ।
स कृतघ्न इति ख्यातः प्रसिद्धो भारते नृप ॥ ५८ ॥
ब्रह्महत्यासमं पापं तन्नित्यं वृषताडने ।
वृषपृष्ठे भारदानात्पापं तद्‌द्विगुणं भवेत् ॥ ५९ ॥
सूर्यातपे वाहयेद्यः क्षुधितं तृषितं वृषम् ।
ब्रह्महत्याशतं पापं लभते नात्र संशयः ॥ ६० ॥
अन्नं विष्ठा जलं मूत्रं विप्राणां वृषवाहिनाम् ।
पितरो नैव गृह्णन्ति तेषां श्राद्धं च तर्पणम् ॥ ६१ ॥
देवता नहि गृह्णन्ति तेषां पुष्पं फलं जलम् ।
ददाति यदि दम्भेन विपाताय प्रकल्पते ॥ ६२ ॥
यो भुङ्क्ते कामतोऽन्नं च ब्राह्मणो वृषवाहिनाम् ।
नाधिकारो भवेत्तेषां पितृदेवार्चने नृप ॥ ६३ ॥
लालाकुण्डे वसत्येव यावच्चन्द्रदिवाकरौ ।
विष्ठा भक्ष्यं मूत्रजलं तत्र तस्य भवेद्ध्रुवम् ॥ ६४ ॥
त्रिसंध्यं ताडयेत्तं च शूलेन यमकिंकरः ।
उल्कां ददाति मुखतः सूच्या कृन्तति संततम् ॥ ६५ ॥
षष्टिवर्षसहस्राणि विष्ठायां च कृमिर्भवेत् ।
ततः काकः पञ्चजन्मस्वथैवं बक एव च ॥ ६६ ॥
पञ्चजन्मसु गृध्रश्च शृगालः सप्तजन्मसु ।
ततो दरिद्रः शूद्रश्च महाव्याधिस्ततः शुचिः ॥ ६७ ॥
भरद्वाज उवाच
शूद्राणां शवदाही यः स कृतघ्न इति स्मृतः ।
वयःप्रमाणा राजेन्द्र ब्रह्महत्यां लभेद्ध्रुवम् ।
तत्तुल्ययोनिभ्रमणात्तत्तुल्यनरकाच्छुचिः ॥ ६८ ॥
यो दोषो ब्राह्मणानां च शूद्राणां शवदाहने ।
तावदेव भवेद्‌दोषः शूद्रश्राद्धान्नभोजने ॥ ६९ ॥
विभाण्डक उवाच
पितृश्राद्धे च शूद्राणां भुङ्‌क्ते यो ब्राह्मणोऽधमः ।
सुरापीतो ब्रह्मघाती पितृदेवार्चनाद्‌बहिः ॥ ७० ॥
मार्कण्डेय उवाच
यो दोषो ब्राह्मणानां च शूद्रस्त्रीगमने नृप ।
अहं वक्ष्यामि वेदोक्तं सावधानं निशामय ॥ ७१ ॥
कृतघ्नानां प्रधानश्च यो विप्रो वृषलीपतिः ।
कृमिदंष्ट्रे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश ॥ ७२ ॥
कृमिभक्ष्यो भवेद्विप्रो विद्धश्च यमकिंकरैः ।
प्रतिमायां तप्तलौह्यामाश्लेषयति नित्यशः ॥ ७३ ॥
ततश्च पुंश्चलीयोनौ कृमिर्भवति निश्चितम् ।
एवं वर्षसहस्रं च ततः शूद्रस्ततः शुचिः ॥ ७४ ॥
सुयज्ञ उवाच
अन्येषां च कृतघ्नानां वद कर्मफलं मुने ।
श्लाघ्यो मे ब्रह्मशापश्च कस्य संपद्विनाऽऽपदम् ॥ ७५ ॥
धन्योऽहं कृतकृत्योऽहं सफलं जीवनं मम ।
आगतास्तु यतो मुक्ता मद्‌गेहे मुनयः सुराः ॥ ७६ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे नृपमुनिसंवादे राधोपाख्याने
कर्मविपाको नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥


GO TOP