ब्रह्मवैवर्तपुराणम्
द्वितीयं प्रकृतिखण्डम् - एकोनचत्वारिंशोऽध्यायः
लक्ष्म्युपाख्यानेलक्ष्मोपूजाविधानम् -
नारद उवाच
हरेरुत्कीर्तनं भद्रं श्रुतं तज्ज्ञानमुत्तमम् ।
ईप्सितं लक्ष्म्युपाख्यानं ध्यानं स्तोत्रादिकं वद ॥ १ ॥
हरिणा पूजिता पूर्वं ततो ब्रह्मादिभिस्तथा ।
शक्रेण भ्रष्टराज्येन सार्धं सुरगणेन च ॥ २ ॥
ध्यानेन पूजिता केन विधिना केन वा पुरा ।
केन स्तुता वा स्तोत्रेण तन्मे व्याख्यातुमर्हसि ॥ ३ ॥
नारायण उवाच
स्नात्वा तीर्थे पुरा शक्रो धृत्वा धौते च वाससी ।
घटं संस्थाप्य क्षीरोदे देवषट्कमपूजयत ॥ ४ ॥
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।
एतान्भक्त्या समभ्यर्च्य पुष्पगन्धादिभिस्तथा ॥ ५ ॥
तत्राऽऽवाह्य महालक्ष्मीं परमैश्वर्यरूपिणीम् ।
पूजां चकार देवेशो ब्रह्मणा च पुरोधसा ॥ ६ ॥
पुरःस्थितेषु मुनिषु बाह्मणेषु गुरौ तथा ।
देवादिषु च देवेशे ज्ञानानन्दे शिवे मुने ॥ ७ ॥
पारिजातस्य पुष्पं च गृहीत्वा चन्दनोक्षितम् ।
ध्यात्वा देवीं महालक्ष्मीं पूजयामास नारद ॥ ८ ॥
ध्यानं च सामवेदोक्तं यदुक्तं ब्रह्मणे पुरा ।
ध्यानेन हरिणा तेन तन्निबोध वदामि ते ॥ ९ ॥
सहस्रदलपद्मस्य कर्णिकावासिनीं पराम् ।
शरत्पार्वणकोटीन्दुप्रभाजुष्टकरां वराम् ॥ १० ॥
स्वतेजसा प्रज्वलन्तो सुखदृश्यां मनोहराम् ।
प्रतप्तकाञ्चननिभां शोभां मूर्तिमतीं सतीम् ॥ ११ ॥
रत्नभूषणभूषाढ्यां शोभितां पीतवाससा ।
ईषद्धास्यप्रसन्नास्यां रम्यां सुस्थिरयौवनाम् ॥ १२ ॥
सर्वसंपत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् ।
ध्यानेनानेन तां ध्यात्वा चोपहारैः सुसंयुतः ॥ १३ ॥
संपूज्य ब्रह्मवाक्येन चोपहाराणि षोडश ।
ददौ भक्त्या विधानेन प्रत्येकं मन्त्रपूर्वकम् ॥ १४ ॥
प्रशंस्यानि प्रहृष्टानि दुर्लभानि वराणि च ।
अमृल्यरत्नसखचितं निर्मितं विश्वकर्मणा ।
आसनं च विचित्रं च महालक्ष्मि प्रगृह्यताम् ॥ १५ ॥
शुद्धं गङ्गोदकमिदं सर्ववन्दितमीप्सितम् ।
पापेध्मवह्निरूपं च गृह्यतां कमलालये ॥ १६ ॥
पुष्पचन्दनदूर्वादिसंयुतं जाह्नवीजलम् ।
शङ्खगर्भस्थितं शुद्धं गृह्यतां पद्मवासिनि ॥ १७ ॥
सुगन्धियुक्तं तैलं च सुगन्धामलकीजलम् ।
देहसौन्दर्यबीजं च गृह्यतां श्रीहरिप्रिये ॥ १८ ॥
वृक्षनिर्यासरूपं च गन्धद्रव्यादिसंयुतम् ।
कृष्णकान्ते पवित्रो वै धूपोऽयं प्रतिगृह्यताम् ॥ १९ ॥
मलयाचलसंभूतं वृक्षसारं मनोहरम् ।
सुगन्धियुक्तं सुखदं चन्दनं देवि गृह्यताम् ॥ २० ॥
जगच्चक्षुःस्वरूपं च ध्वान्तप्रध्वंसकारणम् ।
प्रदीपं शुद्धरूपं च गृह्यतां परमेश्वरि ॥ २१ ॥
नानोपहाररूपं च नानारससमन्वितम् ।
नानास्वादुकरं चैव नैवेद्यं प्रतिगृह्यताम् ॥ २२ ॥ ।
अन्नं ब्रह्मस्वरूपं च प्राणरक्षणकारणम् ।
तुष्टिदं पुष्टिदं चान्नं मधुरं प्रतिगृह्यताम् ॥ २३ ॥
शाल्यक्षतसुपक्वं च शर्करागव्यसंयुतम् ।
सुस्वादु रम्यं पद्मे च परमान्नं प्रगृह्यताम् ॥ २४ ॥
शर्करागव्यपक्वं च सुस्वादु सुमनोहरम् ।
मया निवेदितं लक्ष्मि स्वस्तिकं प्रतिगृह्यताम् ॥ २५ ॥
नानाविधानि रम्याणि पक्वानि च फलानि तु ।
स्वादुरस्यानि कमले गृह्यतां फलदानि च ॥ २६ ॥
सुरभिस्तनसंभूतं सुस्वादु सुमनोहरम् ।
मर्त्यामृतं च गव्यं वै गृह्यतामच्युतप्रिये ॥ २७ ॥
सुस्वादुरससंयुक्तमिक्षुवृक्षरसोद्भवम् ।
अग्निपक्वमपक्वं वा गुडं वै देवि गृह्यताम् ॥ २८ ॥
यवगोधूमसस्यानां चूर्णरेणुसमुद्भवम् ।
सुपक्वगुडगव्याक्तं मिष्टान्नं देवि गृह्यताम् ॥ २९ ॥
सस्यचूर्णोद्भवं पक्वं स्वस्तिकादिसमन्वितम् ।
मया निवेदितं देवि पिष्टकं प्रतिगृह्यताम् ॥ ३० ॥
पार्थिवं वृक्षभेदे च विविधैर्द्रव्यकारणम् ।
सुस्वादुरससंयुक्तमैक्षवं प्रतिगृह्यताम् ॥ ३१ ॥
शीतवायुप्रदं चैव दाहे च सुखदं परम् ।
कमले गृह्यतां चेदं व्यजनं श्वेतचामरम् ॥ ३२ ॥
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।
जिह्वाजाड्यच्छेदकरं ताम्बूलं देवि गृह्यताम् ॥ ३३ ॥
सुवासितं शीतलं च पिपासानाशकारणम ।
जगज्जीवनरूपं च जीवनं देवि गृह्यताम् ॥ ३४ ॥
देहसौन्दर्यबीजं च सदा शोभाविवर्धनम् ।
कार्पासजं च कृमिजं वसनं देवि गृह्यताम् ॥ ३५ ॥
रलस्वर्णविकारं च देहसौख्यविवर्धनम् ।
शोभाधारं श्रीकरं च भूषणं प्रतिगृह्यताम् ॥ ३६ ॥
नानाकुसुमनिर्माणं बहुशोभाप्रदं परम् ।
सुरलोकप्रियं शुद्धं माल्यं देवि प्रगृह्यताम् ॥ ३७ ॥
शुद्धिदं शुद्धिरूपं च सर्वमङ्गलमङ्गलम् ।
गन्धवस्तूद्भवं रम्यं गन्धं देवि प्रगृह्यताम् ॥ ३८ ॥
पुण्यतीर्थोदकं चैव विशुद्धं शुद्धिदं सदा ।
गृह्यतां कृष्णकान्ते त्वं रम्यमाचमनीयकम् ॥ ३९ ॥
रत्नसारैः संग्रथितं पुष्पचन्दनसंयुतम् ।
रत्नभूषणभूषाढ्यं सुतल्पं प्रतिगृह्यताम् ॥ ४० ॥
यद्यद्द्रव्यमपूर्वं च पृथिव्यामतिदुर्लभम् ।
देवभूपाढ्यभोग्यं च तद्द्रव्यं देवि गृह्यताम् ॥ ४१ ॥
द्रव्याण्येतानि दत्त्वा वै मूलेन च पुरंदरः ।
मूलं जजाप भक्त्या च दशलक्षं विधानतः ॥ ४२ ॥
जपेन दशलक्षेण मन्त्रसिद्धिर्बभूव ह ।
मन्त्रश्च ब्रह्मणा दत्तः कल्पवृक्षश्च सर्वदा ॥ ४३ ॥
लक्ष्मीर्माया कामवाणी ततः कमलवासिनी ।
स्वाहान्तो वैदिको मन्त्रराजोऽयं द्वादशाक्षरः ॥ ४४ ॥
श्रीं ह्रीं क्लीं ऐं कमलवासिन्यै स्वाहा ।
कुबेरोऽनेन मन्त्रेण सर्वैश्वर्यमवाप्तवान् ॥ ४५ ॥
राजराजेश्वरो दक्षः सावर्णिर्मनुरेव च ।
मङ्गलोऽनेन मन्त्रेण सप्तद्वीपवतीपतिः ॥ ४६ ॥
प्रियव्रतोत्तानपादौ केदारो नृप एव च ।
एते च सिद्धा राजेन्द्रा मन्त्रेणानेन नारद ॥ ४७ ॥
सिद्धे मन्त्रे महालक्ष्मीर्ददौ शक्राय दर्शनम् ।
रत्नेन्द्रव्यूहखचितविमानस्था वरप्रदा ॥ ४८ ॥
सप्तद्वीपवतीं पृथ्वीं छादयन्ती त्विषा च सा ।
श्वेतचम्पकवर्णाभा रत्नभूषणभूषिता ॥ ४९ ॥
ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकारिका ।
बिभ्रती रत्नमालां च कोटिचन्द्रसमप्रभा ॥ ५० ॥
दृष्ट्वा जगत्प्रसूं शान्तां तां तुष्टाव पुरंदरः ।
पुलकाडित्कतसर्वाङ्गः साश्रुनेत्रः कृताञ्जलिः ॥ ५१ ॥
ब्रह्मणा च प्रदत्तेन स्तोत्रराजेन संयतः ।
सर्वाभीष्टप्रदेनैव वैदिकेनैव तत्र च ॥ ५२ ॥
इन्द्र उवाच
ॐ नमः कमलवासिन्यै नारायण्यै नमो नमः ।
कृष्णप्रियायै सारायै पद्मायै च नमो नमः ॥ ५३ ॥
पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः ।
पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ ५४ ॥
सर्वसंपत्स्वरूपायै सर्वदात्र्यै नमो नमः ।
सुखदायै मोक्षदाय सिद्धिदायै नमो नमः ॥ ५५ ॥
हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ।
कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ॥ ५६ ॥
कृष्णशोभास्वरूपायै रत्नाढ्यायै नमो नमः ।
संपत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ॥ ५७ ॥
सस्याधिष्ठातृदेव्यै च सस्यलक्ष्म्यै नमो नमः ।
नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः ॥ ५८ ॥
वैकुण्ठे च महालक्ष्मीर्लक्ष्मीः क्षीरोदसागरे ।
स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥ ५९ ॥
गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता ।
सुरभिः सा गवां माता दक्षिणा यज्ञकामिनी ॥ ६० ॥
अदितिर्देवमाता त्वं कमला कमलालये ।
स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥ ६१ ॥
त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुंधरा ।
शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा ॥ ६२ ॥
क्रोधहिंसावर्जिता च वरदा च शुभानना ।
परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥ ६३ ॥
यया विना जगत्सर्वं भस्मोभूतमसारकम् ।
जीवन्मृतं च विश्वं च शवतुल्यं यया विना ॥ ६४ ॥
सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी ।
यया विना न संभाष्यो बान्धवैर्बान्धवः सदा ॥ ६५ ॥
त्वया हीनो बन्धुहीनस्त्वया युक्तः सबान्धवः ।
धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ ६६ ॥
स्तनंधयानां त्वं माता शिशूनां शैशवे यथा ।
तथा त्वं सर्वदा माता सर्वेषां सर्वविश्वतः ॥ ६७ ॥
त्यक्तस्तनो मातृहीनः स चेज्जीवतिदैवतः ।
त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥ ६८ ॥
सुप्रसन्नस्वरूपा त्वं मे प्रसन्ना भवाम्बिके ।
वैरिग्रस्तं च विषयं देहि मह्यं सनातनि ॥ ६९ ॥
वयं यावत्त्वया हीना बन्धुहीनाश्च भिक्षुकाः ।
सर्वसंपद्विहीनाश्च तावदेव हरिप्रिये ॥ ७० ॥
राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि ।
कीर्तिं देहि धनं देहि पुत्रान्मह्यं च देहि वै ॥ ७१ ॥
कामं देहि मतिं देहि भोगान्देहि हरिप्रिये ।
ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ॥ ७२ ॥
सर्वाधिकारमेवं वै प्रभावं च प्रतापकम् ।
जयं पराक्रमं युद्धे परमैश्वर्यमेव च ॥ ७३ ॥
इत्युक्त्वा तु महेन्द्रश्च सर्वेः सुरगणैः सह ।
ननाम साश्रुनेत्रोऽयं मूर्ध्ना चैव पुनः पुनः ॥ ७४ ॥
बह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः ।
सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः ॥ ७५ ॥
देवेभ्यश्च वरं दत्त्वा पुष्पमालां मनोहराम् ।
केशवाय ददौ लक्ष्मीः संतुष्टा सुरसंसदि ॥ ७६ ॥
ययुर्देवाश्च संतुष्टाः स्वं स्वं स्थानं च नारद ।
देवी ययौ हरेः क्रोडं हृष्टा क्षीरोदशायिनः ॥ ७७ ॥
ययतुस्तौ स्वस्वगृहं ब्रह्मेशानौ च नारद ।
दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ॥ ७८ ॥
इदं स्तोत्रं महापुण्यं त्रिसंध्यं यः पठेन्नरः ।
कुबेरतुल्यः स भवेद्राजराजेश्वरो महान् ॥ ७९ ॥
सिद्धस्तोत्रं यदि पठेत्सोऽपि कल्पतरुर्नरः ।
पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ ८० ॥
सिद्धं स्तोत्रं यदि पक्ष्येमासमेकं च संयतः ।
महासुखी च राजेन्द्रो भविष्यति न संशयः ॥ ८१ ॥
नारद उवाच
पुष्पं दुर्वाससा दत्तभक्ति वै यस्य मस्तके ।
तस्य सर्वा पुरः पूजेत्युक्तं पूर्वं त्वया प्रभो ॥ ८२ ॥
तदेव स्थापितं पुष्पं गजेन्द्रस्यैव मस्तके ।
यतो जन्म गणेशस्य स च मत्तो वनं गतः ॥ ८३ ॥
मूर्ध्नि च्छिन्ने गणपतेः शनेर्दृष्ट्या पुरा मुने ।
तत्स्कन्धे योजयामास हस्तिमस्तं हरिः स्वयम् ॥ ८४ ॥
अधुनोक्तं देवषट्कं संपूज्य च पुरंदरः ।
पूजयामास लक्ष्मीं च क्षीरोदे च सुरैः सह ॥ ८५ ॥
अहो पुराणवक्तृणां दुर्बोधं वचनं नृणाम् ।
सुव्यक्तमस्य सिद्धान्तं वद वेदविदां वर ॥ ८६ ॥
नारायण उवाच
यदा शशाप शक्रं च दुर्वासा मुनिपुंगवः ।
तदा नास्त्येव तज्जन्म पूजाकाले बभूव सः ॥ ८७ ॥
सुचिरं दुःखिता देवा बभ्रमुर्ब्रह्मशापतः ।
पश्चात्प्रापुश्च तां लक्ष्मीं वरेण च हरेर्मुने ॥ ८८ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
लक्ष्म्युपाख्यानेलक्ष्मोपूजाविधानं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
GO TOP
|