ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - चत्वारिंशोऽध्यायः

स्वाहोपाख्याने स्वाहाजन्मादिकथनम् -


नारद उवाच
नारायण महाभाग समश्चैव त्वया प्रभो ।
रूपेण च गुणैश्चैव यशसा तेजसा त्विषा ॥ १ ॥
त्वमेव ज्ञानिनां श्रेष्ठः सिद्धानां योगिनां तथा ।
तपस्विनां मुनीनां च परो वेदविदां तथा ।
महालक्ष्म्या उपाख्यानं विज्ञातं महदद्‌भुतम् ॥ २ ॥
अन्यत्किचिदुपाख्यानं निगूढं वद सांप्रतम् ।
अतीव गोपनीयं यदुपयुक्तं च सर्वतः ।
अप्रकाश्यं पुराणेषु वेदोक्तं धर्मसंयुतम् ॥ ३ ॥
नारायण उवाच
नानाप्रकारमाख्यानमप्रकाश्यं पुराणतः ।
श्रुतौ कतिविधं गूढमास्ते ब्रह्मन्सुदुर्लभम् ॥ ४ ॥
तेषु यत्सारभूतं च श्रोतुं किं वा त्वमिच्छसि ।
तन्मे ब्रूहि महाभाग पश्चाद्वक्ष्यामि तत्पुनः ॥ ५ ॥
नारद उवाच
स्वाहा देवहविर्दाने प्रशस्ता सर्वकर्मसु ।
पितृदाने स्वधा शस्ता दक्षिणा सर्वतो वरा ॥ ६ ॥
एतासां चरितं जन्म फलं प्राधान्यमेव च ।
श्रोतुमिच्छामि ते वक्त्राद्‌वद वेदविदां वर ॥ ७ ॥
सौतिरुवाच
नारदस्य वचः श्रुत्वा प्रहस्य मुनिपुंगवः ।
कथां कथितुमारेभे पुराणोक्तां पुरातनीम् ॥ ८ ॥
नारायण उवाच
सृष्टेः प्रथमतो देवाश्चाऽहारार्थं ययुः पुरा ।
ब्रह्मलोके ब्रह्मसभामगम्यां सुमनोहराम् ॥ ९ ॥
गत्वा निवेदनं चक्रुर्मुने त्वाहारहेतुकम् ।
ब्रह्मा श्रुत्वा प्रतिज्ञाय सिषेवे श्रीहरेः पदम् ॥ १० ॥
यज्ञरूपो हि भगवगन्कलया च बभूव सः ।
यज्ञे यद्यद्धविर्दानं दत्तं तेभ्यश्च वेधसा ॥ ११ ॥
हविर्ददति विप्राश्च भक्ता च क्षत्रियादयः ।
सुरा नैव प्राप्नुवन्ति तद्‌दानं मुनिपुंगव ॥ १२ ॥
देवा विषण्णास्ते सर्वे तत्सभां च पुनर्ययुः ।
गत्वा निवेदनं चक्रुराहाराभावहेतुकम् ॥ १३ ॥
ब्रह्मा श्रुत्वा तु मनसा श्रीकृष्णं शरणं ययौ ।
प्रकृतिं पूजयामास ध्यायन्नेव तदाज्ञया ॥ १४ ॥
प्रकृतिः कलया चैव सर्वशक्तिस्वरूपिणी ।
बभूव दाहिका शक्तिरग्नेः स्वाहास्वरूपिणी ॥ १५ ॥
ग्रीष्ममध्याह्नमार्तण्डप्रभान्यक्कारकारिणी ।
अतीव सुन्दरी रामा रमणीया मनोहरा ॥ १६ ॥
ईषहास्यप्रसन्नास्या भक्तानुग्रहकारिणी ।
उवाचेति विधेरग्रे पद्मयोने वरं वृणु ॥ १७ ॥
विधिस्तद्वचनं श्रुत्वा संभमात्समुवाच ताम् ॥ १८ ॥
ब्रह्मोवाच
त्वमग्नेर्दाहिकाशक्तिर्भवपत्‍नी च सुन्दरी ।
दग्धुं न शक्तः स्वहुतं हुताशश्च त्वया विना ॥ १९ ॥
त्वन्नामोच्चार्य मन्त्रान्ते यद्‌दास्यति हविर्नरः ।
सुरेभ्यस्तत्प्राप्नुवन्ति सुराः सानन्दपूर्वकम् ॥ २० ॥
अग्नेः संपत्स्वरूपा च श्रीरूपा च गृहेश्वरी ।
देवानां पूजिता शश्वन्नरादीनां भवाम्बिके ॥ २१ ॥
ब्रह्मणश्च वचः श्रुत्वा सा विषण्णा बभूव ह ।
तमुवाच स्वयं देवी स्वाभिप्रायं स्वयंभुवम् ॥ २२ ॥
स्वाहोवाच
अहं कृष्णं भजिष्यामि तपसा सुचिरेण च ।
ब्रह्मंस्तदन्यद्यत्किंचित्स्वप्नवद्‌भ्रम एव च ॥ २३ ॥
विधाता जगतां त्वं च शंभुर्मृत्युञ्जयः प्रभुः ।
बिभर्ति शेषो विश्वं च धर्मः साक्षी च देहिनाम् ॥ २४ ॥
सर्वाद्यपूज्यो देवानां गणेषु च गणेश्वरः ।
प्रकृतिः सर्वसूः सर्वैः पूजिता यत्प्रसादतः ॥ २५ ॥
ऋषयो मुनयश्चैव पूजिता यं निषेव्य च ।
तत्पादपद्मं ब्रह्मैक्यभावाद्वै चिन्तयाम्यहम् ॥ २६ ॥
पद्मास्या पाद्ममित्युक्त्वा पद्मलाभानुसारतः ।
जगाम तपसे पाद्मे पद्मादीशस्य पद्मजा ॥ २७ ॥
तपस्तेपे लक्षवर्षमेकपादेन पद्मजा ।
तदा ददर्श श्रीकृष्णं निर्गुणं प्रकृतेः परम् ॥ २८ ॥
अतीव कमनीयं च रूपं दृष्ट्‍वा च सुन्दरी ।
मूर्च्छां संप्राप कामेन कामेशस्य च कामुकी ॥ २९ ॥
विज्ञाय तदभिप्रायं सर्वज्ञस्तामुवाच सः ।
स्वक्रोडे च समुत्थाप्य क्षीणाङ्‌गीं तपसा चिरम् ॥ ३० ॥
श्रीकृष्ण उवाच
वाराहे च त्वमंशेन मम पत्‍नी भविष्यसि ।
नाम्ना नाग्नजिती कन्या कान्ते नग्नजितस्य च ॥ ३१ ॥
अधुनाऽग्नेर्दाहिका त्वं भव पत्‍नी च भाविनि ।
मन्त्राङ्‌गरूपा पूता च मत्प्रसादाद्‌भविष्यसि ॥ ३२ ॥
वह्निस्त्वां भक्तिभावेन संपूज्य च गृहेश्वरीम् ।
रमिष्यते त्वया सार्धं रामया रमणीयया ॥ ३३ ॥
इत्युक्त्वाऽन्तर्दधे देवो देवीमाश्वास्य नारद ।
तत्राऽऽजगाम संत्रस्तो वह्निर्ब्रह्मनिदेशतः ॥ ३४ ॥
ध्यानैश्च सामवेदोक्तैर्ध्यात्वा तां जगदम्बिकाम् ।
संपूज्य परितुष्टाव पाणिं जग्राह मन्त्रतः ॥ ३५ ॥
तदा दिव्यं वर्षशतं स रेमे रामया सह ।
अतीव निर्जने रम्ये संभोगसुखदे सदा ॥ ३६ ॥
बभूव गर्भस्तस्याश्च हुताशस्यैव तेजसा ।
तद्‌दधार च सा देवीं दिव्यं द्वादशवत्सरम् ॥ ३७ ॥
ततः सुषाव पुत्रांश्च रमणीयान्मनोहरान् ।
दक्षिणाग्निगार्हपत्याहवनीयान्क्रमेण च ॥ ३८ ॥
ऋषयो मुनयश्चैव ब्राह्मणाः क्षत्रियादयः ।
स्वाहान्तं मन्त्रमुच्चार्य हविर्ददति नित्यशः ॥ ३९ ॥
स्वाहायुक्तं च मन्त्रं च यो गृह्णाति प्रशस्तकम् ।
सर्वसिद्धिर्भवेत्तस्य ब्रह्मन्ग्रहणमात्रतः ॥ ४० ॥
विषहीनो यथा सर्पो वेदहीनो यथा द्विज ।
पतिसेवाविहीना स्त्री विद्याहीनो यथा नरः ॥ ४१ ॥
फलशाखाविहीनश्च यथा वृक्षो हि निन्दितः ।
स्वाहाहीनस्तथा मन्त्रो न द्रुतं फलदायकः ॥ ४२ ॥
परितुष्टा द्विजाः सर्वे देवाः संप्रापुराहुतिम् ।
स्वाहान्तेनैव मन्त्रेण सफलं सर्वकर्म च ॥ ४३ ॥
इत्येवं वर्णितं सर्व स्वाहोपाख्यानमुत्तमम् ।
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥ ४४ ॥
नारद उवाच
स्वाहापूजाविधानं च ध्यानं स्तोत्रं मुनीश्वर ।
संपूज्य वह्निस्तुष्टाव येन तां वद मे प्रभो ॥ ४५ ॥
नारायण उवाच
ध्यानं च सामवेदोक्तं स्तोत्रं पूजविधानकम् ।
वदामि श्रूयतां ब्रह्मन्सावधानं निशामय ॥ ४६ ॥
सर्वयज्ञारम्भकाले शालग्रामे घटेऽथवा ।
स्वाहां संपूज्य यत्‍नेन यज्ञं कुर्यात्फलाप्तये ॥ ४७ ॥
स्वाहां मन्त्राङ्‌गभूतां च मन्त्रसिद्धिस्वरूपिणीम् ।
सिद्धां च सिद्धिदां नृणां कर्मणां फलदां भजे ॥ ४८ ॥
इति ध्यात्वा च मूलेन दत्त्वा पाद्यादिकं नरः ।
सर्वसिद्धिं लभेत्स्तुत्वा मूलं स्तोत्रं मुने शृणु ॥ ४९ ॥
ॐ ह्रीं श्रीं वह्निजायायै देव्यै स्वाहेत्यनेन च ।
यः पूजयेच्च तां देवीं सर्वेष्टं लभते ध्रुवम् ॥ ५० ॥
वह्निरुवाच
स्वाहाऽऽद्या प्रकृतेरंशा मन्त्रतन्त्राङ्‌गरूपिणी ।
मन्त्राणां फलदात्री च धात्री च जगतां सती ॥ ५१ ॥
सिद्धिस्वरूपा सिद्धा च सिद्धिदा सर्वदा नृणाम् ।
हुताशदाहिकाशक्तिस्तत्प्राणाधिकरूपिणी ॥ ५२ ॥
संसारसाररूपा च घोरसंसारतारिणी ।
देवजीवनरूपा च देवपोषणकारिणी ॥ ५३ ॥
षोडशैतानि नामानि य पठेद्युक्तिसंयुतः ।
सर्वसिद्धिर्भवेत्तस्य चेह लोके परत्र च ॥ ५४ ॥
नाङ्‌गहीनो भवेत्तस्य सर्वकर्मसु शोभनम् ।
अपुत्रो लभते पुत्रमभार्यो लभते प्रियाम् ॥ ५५ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
स्वाहोपाख्याने स्वाहाजन्मादिकथनं नाम चत्वारिंशोऽध्यायः ॥ ४० ॥


GO TOP