ब्रह्मवैवर्तपुराणम्
द्वितीयं प्रकृतिखण्डम् - अष्टत्रिंशोऽध्यायः
लक्ष्म्युपाख्याने समुद्रमथनम् -
नारायण उवाच
हरिं ध्यात्वा हरिर्ब्रह्मञ्जगाम ब्रह्मणः सभाम् ।
बृहस्पतिं पुरस्कृत्य सर्वैः सुरगणैः सह ॥ १ ॥
शीघ्रं गत्वा ब्रह्मलोकं दृष्ट्वा च कमलोद्भवम् ।
प्रणेमुर्देवताः सर्वा गुरुणा सह नारद ॥ २ ॥
वृत्तान्तं कथयामास सुराचार्यो विधिं विभुम् ।
प्रहस्योवाच तच्छ्रुत्वा महेन्द्रं कमलोद्भवः ॥ ३ ॥
ब्रह्मोवाच
वत्स मद्वंशजातोऽसि प्रपौत्रो मे विचक्षणः ।
बृहस्पतेश्च शिष्यस्त्वं सुराणामधिपः स्वयम् ॥ ४ ॥
मातामहस्ते दक्षश्च विष्णुभक्तः प्रतापवान् ।
कुलत्रयं यस्य शुद्धं कथं सोऽहंकृतो भवेत् ॥ ५ ॥
माता पतिव्रता यस्य पिता शुद्धो जितेन्द्रियः ।
मातामही मातुलश्च कथं सोऽहंकृतो भवेत् ॥ ६ ॥
जनः पैतृकदोषेण दोषान्मातामहस्य च ।
गुरोर्दोषान्नीतिदोषैर्हरिद्वेषी भवेद्ध्रुवम् ॥ ७ ॥
सर्वान्तरात्मा भगवान्सर्वदेहेष्ववस्थितः ।
यस्य देहात्स प्रयाति स शवस्तत्क्षणं भवेत् ॥ ८ ॥
मनोऽहमिन्द्रियेशश्च ज्ञानरूपो हि शङ्करः ।
असवः प्रकृतिर्विष्णुर्बुद्धिर्भगवती सती ॥ ९ ॥
निद्रादयः शक्तयश्च ताः सर्वाः प्रकृतेः कलाः ।
आत्मनः प्रतिबिम्बं च जीवो भोगी शरीरभृत् ॥ १० ॥
आत्मनीशे गते देहात्सर्वे यान्ति ससंभ्रमात् ।
यथा वर्त्मनि गच्छन्तं नरदेवमिवानुगाः ॥ ११ ॥
अहं शिवश्च शेषश्च विष्णुर्धर्मो महान्विराट् ।
वयं यदंशा भक्ताश्च तत्पुष्पं न्यक्कृतं त्वया ॥ १२ ॥
शिवेन पूजितं पादपद्मं पुष्पेण येन च ।
तच्च दुर्वाससा दत्तं दैवेनान्यकृतं सुर ॥ १३ ॥
तत्पुष्पं मस्तके यस्य कृष्णपादाब्जतश्च्युतम् ।
सर्वेषां वै सुराणां च तत्पूजा पुरतो भवेत् ॥ १४ ॥
दैवेन वञ्चितस्त्वं च दैवं च बलवत्तरम् ।
भाग्यहीनं जनं मूढं को वा रक्षितुमीश्वरः ॥ १५ ॥
कृष्णं न मन्यते यो हि श्रीनाथं सर्ववन्दितम् ।
प्रयाति रुष्टा तद्दासी महालक्ष्मीर्विहाय तम् ॥ १६ ॥
शतयज्ञेन या लब्धा दीक्षितेन त्वया पुरा ।
सा श्रीर्गताऽधुना कोपात्कृष्णनिर्माल्यवर्जनात् ॥ १७ ॥
अधुना गच्छ वैकुण्ठं मया च गुरुणा सह ।
निषेव्य तत्र श्रीनाथं श्रियं प्राप्स्यसि तद्वरात् ॥ १८ ॥
इत्येवमुक्त्वा स ब्रह्मा सर्वैः सुरगणैः सह ।
शीघ्रं जगाम वैकुण्ठं यत्र श्रीशस्तया सह ॥ १९ ॥
तत्र गत्वा परं ब्रह्म भगवन्तं सनातनम् ।
दृष्ट्वा तेजःस्वरूपं च प्रज्वलन्तं स्वतेजसा ॥ २० ॥
ग्रीष्ममध्याह्नमार्तण्डशतकोटिसमप्रभम् ।
शान्तं चानादिमध्यान्तं लक्ष्मीकान्तमनन्तकम् ॥ २१ ॥
चतुर्भुजैः पार्षदैश्च सरस्वत्या स्तुतं नतम् ।
भक्त्या चतुर्भिर्वेदैश्च गङ्गया परिषेवितम् ॥ २२ ॥
तं प्रणेमुः सुराः सर्वे मूर्ध्ना ब्रह्मपुरोगमाः ।
भक्तिनम्राः साश्रूनेत्रास्तुष्टुवुः पुरुषोत्तमम् ॥ २३ ॥
वृत्तान्तं कथयामास स्वयं ब्रह्मा कृताञ्जलिः ।
रुरुदुर्देवताः सर्वाः स्वाधिकारच्युताश्च ताः ॥ २४ ॥
स चापश्यत्सुरगणं विपद्ग्रस्तं भयाकुलम् ।
वस्त्रभूषणशून्यं च वाहनादिविवर्जितम् ॥ २५ ॥
शोभाशून्यं हतश्रीकं परिवारैरनावृतम् ।
उवाच कातरं दृष्ट्वा विपन्नभयभञ्जनः ॥ २६ ॥
नारायण उवाच
मा भैर्ब्रह्मन्हे सुराश्च भयं किं वो मयि स्थिते ।
दास्यामि लक्ष्मीमचलां परमैश्वर्यवर्धिनीम् ॥ २७ ॥
किंच मद्वचनं किंचिच्छ्रुयतां समयोचितम् ।
हितं सत्यं सारभूतं परिणामसुखावहम् ॥ २८ ॥
जनाश्चासंख्यविश्वस्था मदधीनाश्च संततम् ।
यथा तथाऽहं मद्भक्तैः पराधीनः स्वतन्त्रकः ॥ २९ ॥
यो यो रुष्टो हि मद्भक्ते मत्परे हि निरङ्कुशः ।
तद्गृहेऽहं न तिष्ठामि पद्मया सह निश्चितम् ॥ ३० ॥
दुर्वासाः शंकरांशश्च वैष्णवो मत्परायणः ।
तच्छापादागतोऽहं च सश्रीको वो गृहादपि ॥ ३१ ॥
यत्र शङ्खध्वनिर्नास्ति तुलसी च शिलार्चनम् ।
न भोजनं च विप्राणां न पद्मा तत्र तिष्ठति ॥ ३२ ॥
मद्भक्तानां च मे निन्दा यत्र यत्र भवेत्सुराः ।
महारुष्टा महालक्ष्मीस्ततो याति पराभवात् ॥ ३३ ॥
मद्भक्तिहीनो यो मूढो यो भुङ्क्ते हरिवासरे ।
मम जन्मदिने चापि याति श्रीस्तद्गृहादपि ॥ ३ ४ ॥
मन्नामविक्रयी यश्च विक्रीणाति स्वकन्यकाम् ।
यत्रातिथिर्न भुङ्क्ते च मत्प्रिया याति तद्गृहात् ॥ ३५ ॥
पापिनां यो गृहं याति शूद्रश्राद्धान्नभोजिनाम् ।
महारुष्टा ततो याति मन्दिरात्कमलालया ॥ ३६ ॥
शूद्राणां शवदाही च भाग्यहीनश्च वाडवः ।
याति रुष्टा तद्गृहाच्च देवी कमलवासिनी ॥ ३७ ॥
शूद्राणां सूपकारो यो ब्राह्मणो वृषवाहकः ।
तत्तोयपानभीता च कमला याति तद्गृहात् ॥ ३८ ॥
विप्रो यवनसेवी च देवलः शूद्रयाजकः ।
ततोऽपमानभीता च वैष्णवी याति तद्गृहात् ॥ ३९ ॥
विश्वासघाती मित्रघ्नो नरघाती कृतघ्नकः ।
अगम्यां याति यो विप्रो मद्भार्या याति तद्गृहात् ॥ ४० ॥
अशुद्धहृदयः क्रूरो हिंसको निन्दको द्विजः ।
ब्राह्मण्यां शूद्रजातश्च याति देवी च तद्गृहात् ॥ ४१ ॥
यो विप्रः पुंश्चलीपुत्रो महापापो च तत्पतिः ।
अवीरान्नं च यो भुङ्क्ते तस्माद्याति जगत्प्रसूः ॥ ४२ ॥
तृणं छिनत्ति नखरैस्तैर्वा यो हि लिखेन्महीम् ।
जिह्मो वा मलवासाश्च सा प्रयाति च तद्गृहात् ॥ ४३ ॥
सूर्योदये च द्विर्भोजी दिवाशायी च वाडवः ।
दिवा मैथुनकारी च तस्माद्याति हरिप्रिया ॥ ४४ ॥
आचारहीनो यो विप्रो यश्च शूद्रप्रतिग्रही ।
अदीक्षितो हि यो मूढस्तस्माल्लोला प्रयाति च ॥ ४५ ॥
स्निग्धपादश्च नग्नो वा यः शेते ज्ञानदुर्बलः ।
शश्वद्धर्माऽतिवाचालो याति वै तद्गृहात्सती ॥ ४६ ॥
शिरस्नातश्च तैलेन योऽन्यदङ्गमुपस्पृशेत् ।
स्वाङ्गे च वादयेद्वाद्यं रमा याति च तद्गृहात् ॥ ४७ ॥
व्रतोपवासहीनो यः संध्याहीनोऽशुचिर्द्विजः ।
विष्णुभक्तिविहीनो यस्तस्माद्याति हरिप्रिया ॥ ४८ ॥
ब्राह्मणान्निन्दयेद्यो हि तान्वै द्वेष्टि च संततम् ।
हिंसाकारी दयाहीनो याति सर्वप्रसूस्ततः ॥ ४९ ॥
यत्र यत्र हरेरर्चा हरेरुत्कीर्तनं शुभम् ।
तत्र तिष्ठति सा देवी कमला सर्वमङ्गला ॥ ५० ॥
यत्र प्रशंसा कृष्णस्य तद्भक्तस्य पितामह ।
सा च कृष्णप्रिया देवी तत्र तिष्ठति संततम् ॥ ५१ ॥
यत्र शङ्खध्वनिः शङखः शिला च तुलसीदलम् ।
तत्सेवा वन्दनं ध्यानं तत्र सा तिष्ठति स्वयम् ॥ ५२ ॥
शिवलिङ्गार्चनं यत्र तस्य चोत्कीर्तनं शुभम् ।
दुर्गार्चनं तद्गुणाश्च तत्र पद्मनिवासिनी ॥ ५३ ॥
विप्राणां सेवनं यत्र तेषां वै भोजनं शुभम् ।
अर्चनं सर्वदेवानां तत्र पद्ममुखी सती ॥ ५४ ॥
इत्युक्त्वा च सुरान्सर्वान्रमामाह रमापतिः ।
क्षीरोदसागरे जन्म लभस्व कलया रमे ॥ ५५ ॥
इत्युक्त्वा तां जगन्नाथो ब्रह्माणं पुनराह च ।
मथित्वा सागरं लक्ष्मीं देवेभ्यो देहि पद्मज ॥ ५६ ॥
इत्युक्त्वा कमलाकान्तो देवश्चान्तरधान्मुने ।
देवाश्चिरेण कालेन ययुः क्षीरोदसागरम् ॥ ५७ ॥
मन्थानं मन्दरं कृत्वा कूर्मं कृत्वा च भाजनम् ।
रज्जुं कृत्वा वासुकिं च ममन्थुश्चैव सागरम् ॥ ५८ ॥
धन्वन्तरिं च पीयुऽषमुच्चैःश्रवसमीप्सितम् ।
नानारत्नं हस्तिरत्नं प्रापुर्लक्ष्मीं पुरातनीम् ॥ ५९ ॥
वनमालां ददौ सा च क्षीरोदशायिने मुने ।
सर्वेश्वराय रम्याय विष्णवे वैष्णवी सती ॥ ६० ॥
देवैः स्तुता पूजिता च ब्रह्मणा शङ्करेण च ।
ददौ दृष्टिं सुरगृहे ब्रह्मशापविमोचिकाम् ॥ ६१ ॥
प्रापुर्देवाः स्वविषयं दैन्यैर्ग्रस्तं भयङ्करैः ।
महालक्ष्मीप्रसादेन वरदानेन नारद ॥ ६२ ॥
इत्येवं कथितं सर्वं लक्ष्म्युपाख्यानमुऽत्तमम् ।
सुखदं सारभूतं चकिं भूयः श्रोतुमिच्छसि ॥ ६३ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
लक्ष्म्युपाख्याने समुद्रमथनं नामाष्टत्रिशोऽध्यायः ॥ ३८ ॥
GO TOP
|