ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - सप्तत्रिंशोध्यायः

कर्मफलनिरूपणम् -


नारद उवाच
हरेर्गुणं समाकर्ण्य ज्ञानं प्राप्य पुरंदरः ।
किं चकार गृहं गत्वा तन्मे व्याख्यातुमर्हसि ॥ १ ॥
नारायण उवाच
श्रीकृष्णस्य गुणं श्रुत्वा वीतरागो बभूव सः ।
वैराग्यं वर्धयामास तस्य ब्रह्मन्दिने दिने ॥ २ ॥
मुनिस्थानाद्‌गृहं गत्वा स ददर्शामरावतीम् ।
दैत्यैरसुरसघैश्च समाकीर्णां भयाकुलाम् ॥ ३ ॥
विषण्णबान्धवां चैव बन्धुहीनां च कुत्रचित् ।
पितृमातृकलत्रादिविहीनामतिचञ्चलाम् ॥ ४ ॥
शत्रुग्रस्ता च दृष्ट्‍वा तामगमद्वाक्पतिं प्रति ।
शक्रो मन्दाकिनीतीरे ददर्श गुरुमीश्वरम् ॥ ५ ॥
ध्यायमानं परं ब्रह्म गङ्‌गातोये स्थितं परम् ।
सूर्याभिसंमुखं पूर्वमुखं वै विश्वतोमुखम् ॥ ६ ॥
साश्रुनेत्रं पुलकितं परमानन्दसंयुतम् ।
वरिष्ठं च गरिष्ठं च धर्मिष्ठं चेष्टसेविनम् ॥ ७ ॥
श्रेष्ठं च बन्धुवर्गाणामतिश्रेष्ठं च मानिनाम् ।
ज्येष्ठं च भ्रातृवर्गाणां नेष्टं च सुरवैरिणाम् ॥ ८ ॥
दृष्ट्‍वा गुरुं जपन्तं च तत्र तस्थौ सुरेश्वरः ।
प्रहरान्ते गुरुं दृष्ट्‍वा चोत्थितं प्रणनाम सः ॥ ९ ॥
प्रणम्य चरणाम्भोजे रुरोदोच्चैर्मुहुर्मुहुः ।
वृत्तान्तं कथयामास ब्रह्मशापादिकं तथा ॥ १० ॥
पुनर्वरो मया लब्धो ज्ञानप्राप्ति सुदुर्लभाम् ।
वैरिग्रस्तां स्वीयपुरीं क्रमेणैव सुरेश्वरः ॥ ११ ॥
शिष्यस्य वचनं श्रुत्वा सतां बुद्धिमतां वरः ।
बृहस्पतिरुवाचेदं कोपरक्तान्तलोचनः ॥ १२ ॥
बृहस्पतिरुवाच
श्रुतं सर्वं सुरश्रेष्ठ मारोदीर्वचनं शृणु ।
न कातरो हि नीतिज्ञो विपत्तौ स्यात्कदाचन ॥ १३ ॥
संपत्तिर्वा विपत्तिर्वा नश्वरा स्वप्नरूपिणो ।
पूर्वस्वकर्मायत्ता च स्वयं कर्ता तयोरपि ॥ १४ ॥
सर्वेषां च भवत्येव शश्वज्जन्मनि जन्मनि ।
चक्रनेमिस्त्वेणैव तत्र का परिदेवना ॥ १५ ॥
भुङ्‌क्ते हि स्वकृतं कर्म सर्वत्रापि च भारते ।
शुभाशुभं च यत्किंचित्स्वकर्मफलभुक्पुमान् ॥ १६ ॥
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ १७ ॥
इत्येवमुक्तं वेदे च कृष्णेन परमात्मना ।
साम्नि कौथुमशाखायां संबोध्य स्वकुलोद्‌भवम् ॥ १८ ॥
जन्म भोगावशेषे च सर्वेषां कृतकर्मणाम् ।
अनुरूपं च तेषां वै भारतेऽन्यत्र चैव हि ॥ १९ ॥
कर्मणा ब्रह्मशापं च कर्मणा च शुभाशिषम् ।
कर्मणा च महालक्ष्मीं लभेद्‌दैन्यं च कर्मणा ॥ २० ॥
कोटिजन्मार्जितं कर्म जीविनामनुगच्छति ।
न हि त्यजेद्विना भोगात्तं छायेव पुरंदर ॥ २१ ॥
कालभेदे देशभेदे पात्रभेदे च कर्मणाम् ।
न्यूनताऽधिकता वाऽपि भवेदेव हि कर्मणाम् ॥ २२ ॥
वस्तुदाने च वस्तूनां समं पुण्यं समं दिने ।
दिनभेदे कोटिगुणमसंख्यं वाऽधिकं ततः ॥ २३ ॥
समदेशे च वस्तूनां दाने पुण्यं समं वृषन् ।
देशभेदे कोटिगुणमसंख्यं वाऽधिकं ततः ॥ २४ ॥
समे पात्रे समं पुण्यं वस्तूनां कर्तुरेव च ।
पात्रभेदे शतगुणमसंख्यं वा ततोऽधिकम् ॥ २५ ॥
यथा फलन्ति सस्यानि न्यूनान्यप्यधिकानि च ।
कर्षकाणां क्षेत्रभेदे पात्रभेदे फलं तथा ॥ २६ ॥
सामान्यदिवसे विप्रे दानं समफलं भवेत् ।
अमायां रविसंक्रान्त्यां फलं शतगुणं भवेत् ।
चातुर्मास्यां पौर्णमास्यामनन्तफलमेव च ॥ २७ ॥
ग्रहणे शशिनः कोटिगुणं च फलमेव च ।
सूर्यस्य ग्रहणे चापि ततो दशगुणं फलम् ॥ २८ ॥
अक्षयायामक्षयं चाप्यसंख्यफलमुच्यते ।
एवमन्यत्र पुण्याहे फलाधिक्यं भवेदिह ॥ २९ ॥
यथा दाने तथा स्नाने जपे वै पुण्यकर्मसु ।
एवं सर्वत्र बोद्धव्यं नराणां कर्मणां फलम् ॥ ३० ॥
सामान्यदेशे दानं च विप्रे समफलं भवेत् ।
तीर्थे देवगृहे चैव फलं शतगुणं स्मृतम् ॥ ३१ ॥
गङ्‌गायां वै कोटिगुणं क्षेत्रे नारायणेऽव्ययम् ।
कुरुक्षेत्रे बदर्यां च काश्यां कोटिगुणं तथा ॥ ३२ ॥
यथा च वै कोटिगुणं तथा वै विष्णुमन्दिरे ।
केदारे वै लक्षगुणं हरिद्वारे तथा फलम् ॥ ३३ ॥
पुष्करे भास्करक्षेत्रे दशलक्षगुणं फलम् ।
एवं सर्वत्र बोद्धव्यं फलाधिक्यं क्रमेण च ॥ ३४ ॥
सामान्यब्राह्मणे दानं सममेव फलं लभेत् ।
लक्षं त्रिसंध्यं पूते च पण्डिते च जितेन्द्रिये ॥ ३५ ॥
विष्णुमन्त्रोपासके च बुधे कोटिगुणं फलम् ।
एवं सर्वत्र बोद्धव्यं फलाधिक्यं गुणाधिके ॥ ३६ ॥
यथा दण्डेन सूत्रेण शरावेण जलेन च ।
कुम्भं निर्माति चक्रेण कुम्भकारो मृदा भुवि ॥ ३७ ॥
तथैव कर्मसूत्रेण फलं धाता ददाति च ।
यस्याऽऽज्ञया सृष्टिविधौ तं च नारायणं भज ॥ ३८ ॥
स विधाता विधातुश्च पातुः पाता जगत्त्रये ।
स्रष्टुः स्रष्टा च संहर्तुः संहर्ता कालकालकः ॥ ३९ ॥
महविपत्तो संसारे यः स्मरेन्मधुसूदनम् ।
विपत्तौ तस्य संपत्तिर्भवेदित्याह शङ्‌करः ॥ ४० ॥
इत्येवमुक्त्वा जीवश्च समालिङ्‌ग्य सुरेश्वरम् ।
दत्त्वा शुभाशिषं चेष्टं बोधयामास नारद ॥ ४१ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे लक्ष्म्युपाख्याने बृहस्पतिमहेन्द्रसंवादे
कर्मफलनिरूपणं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥


GO TOP