ब्रह्मवैवर्तपुराणम्
द्वितीयं प्रकृतिखण्डम् - त्रयस्त्रिंशोऽध्यायः
यमलोकस्थनरककुण्डलक्षणप्रकथनम् -
यम उवाच
पूर्णन्दुमण्डलाकारं सर्वकुण्डं च वर्तुलम् ।
अतीव निम्नं पाषाणभेदैश्च खचितं सति ॥ १॥
न नश्वरं चाऽऽप्रलयं निर्मितं चेश्वरेच्छया ।
क्लेशदं वै पातकिनां नानारूपं तदालयम् ॥२॥
ज्वलदङ्गाररूपं च शतहस्तशिखान्वितम् ।
परितः क्रोशमानं च वह्निकुण्डं प्रकीर्तितम् ॥३॥
महच्छब्दं प्रकुर्वद्भिः पापिभिः परिपूरितम् ।
रक्षितं मम दूतैश्च ताडितैश्चापि संततम् ॥४॥
प्रतस्तोदकपूर्णं च हिंस्रजन्तुसमन्वितम् ।
महाघोरान्धकारं च पापिसंघेन संकुलम् ॥५॥
प्रकुर्वता काकुशब्दं प्रहारैर्घूर्णितेन च ।
क्रोशार्धमानं मद्दूतैस्ताडितेन च रक्षितम् ॥६॥
तप्तक्षारोदकैः पूर्णं नक्रैश्च परिवेष्टितम् ।
संकुलं पापिभिश्चैव क्रोशमानं भयानकम् ॥७॥
त्राहीति शब्द कुर्वद्भिर्मम दूतैश्च ताडितैः ।
प्रचलद्भिरनाहारैः शुष्ककण्ठौष्ठतालुकैः ॥८॥
विण्मूत्रैरेव पूर्णं च क्रोशमानं च कुत्सितम् ।
अतिदुर्गन्धिसंयुक्तं व्याप्तं पापिभिरेव च ॥९॥
ताडितैर्मम दूतैश्चाप्यनाहारैरुपद्रवैः ।
रक्षेति शब्दं कुर्वद्भिस्तत्कीटैरेव भक्षितम् ॥ १०॥
तप्तमूत्रद्रवैः पूर्णं मूत्रकीटैश्च संकुलम् ।
युक्तं महापापिभिश्च तत्कीटैर्दंशितं सदा ॥ ११ ॥
गव्यूतिमान ध्वान्ताक्तं शब्दकृद्भिश्च संततम् ।
मद्दूतैस्ताडितैर्घोरैः शुष्ककण्ठौष्ठतालुकः ॥ १२॥
श्लेष्मपूर्णं क्रोशमितं वेष्टितं चेष्टितैः सदा ।
तद्भोजिभिः पापिभिश्च तत्कीटैर्भक्षितः सदा ॥ १३॥
क्रोशार्धं गरपूर्णं च गरभोजिभिरन्वितम् ।
गरकीटैर्भक्षितैश्च पापिभिः पूर्णमेव च ॥ १४॥
ताडितैर्मम दूतैश्च शब्दकृद्भिश्च कम्पितैः ।
सर्पाकारैर्वज्रदंष्ट्रैः शुष्ककण्ठैः सुदारुणैः ॥ १५॥
नेत्रयोर्मलपूर्णं च क्रोशार्धं कीटसंयुतम् ।
पापिभिः संकुलं शश्वद्द्रवद्भिः कीटभक्षितैः ॥ १६॥
वसारसेन पूर्णं च क्रोशतुर्यं सुदुःसहम् ।
तद्भोजिभिः पातकिभिर्व्याप्तं दूतैश्च ताडितैः ॥ १७॥
शुक्रपूर्णं क्रोशतुर्यं शुक्रकीटैश्च भक्षितैः ।
क्रन्दद्भिः पापिभिः शश्वत्संकुलं व्याकुलैर्भिया ॥ १८॥
दुर्गन्धिरक्तपूर्णं च वापीमानं गभीरकम् ।
तद्भोजिभिः पापिभिश्च संकुलं कीटभक्षितैः ॥ १९॥
पूर्णं नेत्राश्रुभिर्नृणां वाप्यर्धं पापिभिर्युतम् ।
ताडितैर्मम दूतैश्च तद्भक्ष्यैः कीटभक्षितैः ॥२०॥
नृणां गात्रमलैः पूर्णं तद्भक्ष्यैः पापिभिर्युतम् ।
ताडितैर्मम दूतैश्च व्यग्रैश्च कीटभक्षितं ॥२१ ॥
कर्णविट्परिपूर्णं च तद्भक्ष्यैः पापिभिर्युतम् ।
वापीतुर्यप्रमाणं च रुदद्भिः कोटभक्षितैः ॥२२॥
मज्जापूर्णं नराणां च महादुर्गन्धिसंयुतम् ।
महापातकिभिर्युक्तं वापीतुर्यप्रमाणकम् ॥२३ ॥
परिपूर्णं स्निग्धमासैर्मम दूतैश्च ताडितैः ।
पापिभिः संकुलं चैव वापीमानं भयानकम् ॥२४॥
कन्याविक्रयिभिश्चैव तद्भक्ष्यैः कीटभक्षितैः ।
त्राहीति शब्दं कुर्वद्भिस्त्रासितैश्च भयानकम् ॥२५॥
वापीतुर्यप्रमाणं च नखादिकचतुष्टयम् ।
पापिभिः संकुलं शश्वन्मम दूतैश्च ताडितैः ॥२६॥
प्रतप्तताम्रकुण्डं ताम्रपर्युन्मुखान्वितम् ।
ताम्राणां प्रतिमालक्षैः प्रतप्तैरावृतं सदा ॥२७॥
प्रत्येकं प्रतिमाश्लिष्टै रुदद्भिः पापिभिर्युतम् ।
गव्यूतिमानं विस्तीर्णं मम दूतैश्च ताडितैः ॥२८॥
प्रतन्तलोहधारं च ज्वलदङ्गारसंयुतम् ।
लौहानां प्रतिमालक्षैः प्रतप्तैरावृतं सदा ॥२९॥
प्रत्येकं सर्वसंश्लिष्टैः शश्वद्विचलितैर्भिया ।
रक्ष रक्षेति शब्दं च कुर्वद्भिदूतताडतः ॥३०॥
महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम् ।
भयानकं ध्वान्तयुक्तं लौहकुण्डं प्रकीर्तितम् ॥३१ ॥
घर्मकुण्डं तप्तसुराकुण्डं वाप्यर्घमेव च ।
तद्भोजिभिः पापिभिश्च व्याप्तं मद्दूतताडितैः ॥३२॥
अधः शाल्मलिवृक्षस्य तीक्ष्णकण्टककुण्डकम् ।
लक्षपौरुषमानं च क्रोशमानं च दुःखदम् ॥३३॥
धनुर्मानैः कण्टकैश्च सुतीक्ष्णैः परिवेष्टितम् ।
प्रत्येकं कण्डकैर्विद्धं महापातकिभिर्युतम् ॥३४॥
वृक्षाग्रान्निपतद्भिश्च मम दूतैश्च ताडितैः ।
जलं देहीति शब्दं च कुर्वद्भिः शुष्कतालुकैः ॥३५॥
महाभयातिव्यग्रैश्च दण्डसंभिन्नमस्तकैः ।
प्रचलद्भिर्यथा तप्ततैले जीविभिरेव च ॥३६॥
विषौघैस्तक्षकादीनां पूर्णं च क्रोशमानकम् ।
तद्भक्ष्यैः पापिभिर्युक्तं मम दूतैश्च ताडितैः ॥३७॥
प्रतप्ततैलपूर्णं च कीटादिपरिवर्जितम् ।
तद्भक्ष्यैः पापिभिर्युक्तं दग्धगात्रैश्च वेष्टितैः ॥३८॥
काकुशब्दं प्रकुर्वद्भिश्चलद्भिर्दूतताडितैः ।
महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम् ॥३९॥
शस्त्रकुण्डं ध्वान्तयुक्तं क्रोशमानं भयानकम् ।
शूलाकारैः सुतीक्ष्णाग्रैलौहशस्त्रैश्च वेष्टितम् ॥४०॥
शस्त्रतल्पस्वरूपंच क्रोशतुर्यप्रमाणकम् ।
पातकिभिर्वेष्टितं च कुन्तविद्धैश्च वेष्टितम् ॥४१॥
ताडितैर्मम दूतैश्च शुष्ककठाष्ठतालुकैः ।
कीटैः संपीड्यमानैश्च सर्पयानैर्भयङ्करैः ॥४२॥
तीक्ष्णदन्तैश्च विकृतैर्व्याप्तं ध्वान्तयुतं सति ।
महापातकिभिर्युक्तं भीतैर्वा कीटभक्षितैः ।
रुदद्भिः क्रोशमानं च मम दूतैश्च ताडितैः ॥४३॥
अतिदुर्गन्धिसंयुक्तं क्रोशार्धं पूयसंयुतम् ।
तद्भक्ष्यैः पापिभिर्युक्तं मम दूतैश्च ताडितैः ॥४४॥
द्विगव्यूतिप्रमाणं च हिमतोयप्रपूरितम् ।
तालवृक्षप्रमाणैश्च सर्पकोटिभिरावृतम् ॥४५ ॥
सर्पवेष्टितगात्रैश्च पापिभिः सर्पभक्षितैः ।
संकुलं शब्दकृद्भिश्च मम दूतैश्च ताडितैः ॥४६॥
कुण्डत्रयं मशादीनां पूर्णं च मशकादिभिः ।
सर्वं क्रोशार्धमात्रं च महापातकिभिर्युतम् ॥४७॥
हस्तपादादिभिर्बद्धैः क्षत्रैः क्षतजलोहितैः ।
हाहेति शब्दं कुर्वद्भिः प्रचलद्भिश्च संततम् ॥४८॥
वज्रवृश्चिकयोः कुण्डं ताभ्यां च परिपूरितम् ।
वाप्यर्धं पापिभिर्युक्तं वज्रवृश्चिकदंशितैः ॥४९॥
कुण्डत्रयं शरादीनां तैरेव परिपूरितम् ।
तैर्विद्धैः पापिभिर्युक्तं वाप्यर्थे रक्तलोहितैः ॥५०॥
तत्तपङ्कोदकैः पूर्णं सध्वान्तं गोलकुण्डकम् ।
कीटैः संपीड्यमानैश्च भक्षितैः पापिभिर्युतम् ॥५१॥
वाप्यर्धं परिपूर्णं च जलस्थैर्नक्रकोटिभिः ।
दारुणैर्विकृताकारैर्भक्षितैः पापिभिर्युतम् ॥५२॥
विण्मूत्रश्लेष्मभक्ष्यैश्च संयुक्तं शतकोटिभिः ।
काकैश्च विकृताकारैर्धनुर्लक्षं च पापिभिः ॥५३ ॥
संचालवाजयोः कुण्डं ताभ्यां च परिपूरितम् ।
भक्षितैः पापिभिर्युक्तं शब्दकृद्भिश्च संततम् ॥५४॥
धनुः शतं वज्रयुक्तं पापिभिः संकुलं सदा ।
शब्दकृद्भिर्वज्रदग्धैरन्तर्ध्वान्तमयं सदा ॥५५॥
वापीद्विगुणमानं च तप्तप्रस्तरनिर्मितम् ।
ज्वलदङ्गारसदृशं चलद्भिः पापिभिर्युतम् ॥५६॥
क्षुरधारोपमैस्तीक्ष्णैः पाषाणैर्निर्मितं परम् ।
महापातकिभिर्युक्तं क्षतं क्षतजलोहितैः ॥५७॥
दुर्गन्धिलालापूर्णं च तद्भक्ष्यैः पापिभिर्युतम् ।
क्रोशमानं गभीरं च मम दूतैश्च ताडितैः ॥५८॥
'तस्ततोयेऽञ्जनाकारैः परिपूर्णं धनुः शतम् ।
चलद्भिः पापिभिर्युक्तं मम दूतैश्च ताडितैः ॥५९॥
पूर्णं चूर्णद्रवैः क्रोशमानं पापिभिरन्वितम् ।
तद्भोजिभिः प्रदग्धैश्च मम दूतैश्च ताडितैः ॥६०॥
कुण्डं कुलालचकक्राभं घूर्णमानं च संततम् ।
सुतीक्ष्याषोडशारं च घूर्णितः पापिभिर्युतम् ॥६१ ॥
अतीव वक्रं निम्नं च द्विगव्यूतिप्रमाणकम् ।
कन्दराकारनिर्माणं तप्तोदकसमन्वितम् ॥६२॥
महापातकिभिर्युक्तं भक्षितैर्जलजन्तुभिः ।
प्रचलद्भिः शब्दकृद्भिर्ध्वान्तयुक्तं भयानकम् ॥६३॥
कोटिभिर्विकृताकारैः कच्छपैश्च सुदारुणैः ।
जलस्थैः संयुतं तैश्च भक्षितैः पापिभिर्युतम् ॥६४॥
ज्वालाकलापैस्तेजोभिर्निर्मितं क्रोशमानकम् ।
शब्दकृद्भिः पापिभिश्च चलद्भिः संयुतं सदा ॥६५॥
क्रोशमानं गभीरं च तप्तभस्मभिरवितम् ।
शश्वच्चलद्भिः संयुक्तं पापिभिर्भस्मभक्षितैः ॥६६॥
तप्तपाषाणलोष्टानां समूहैः परिपूरितम् ।
पापिभिर्दग्धगात्रैश्च युक्तं वै शुष्कतालुकैः ॥६७॥
क्रोशमानं ध्वान्तमयं गभीरमतिदारुणैः ।
ताडितैर्मम दूतैश्च दग्धकुण्डं प्रकीर्तितम् ॥६८॥
अत्यूर्मियुस्ततोयं च प्रतप्तक्षारसंयुतम् ।
नानाप्रकारविकृतं जलजन्तुसमन्वितम् ॥६९॥
द्विगव्यूतिप्रमाणं च गभीरं ध्वान्तसंयुतम् ।
तद्भक्ष्यैः पापिभिर्युक्तं दंशितैर्जलजन्तुभिः ॥७०॥
चलद्भिः क्रन्दमानैश्च न पश्यद्भिः परस्परम् ।
उत्तप्तसूर्मिकुण्डं च कीर्तितं च भयानकम् ॥७१॥
असिपत्रवनस्यैवाप्युच्चैस्तालतरोरधः ।
क्रोशार्धमानकुण्डं च पतत्पत्रसमन्वितम् ॥७२॥
पापिनां रक्तपूर्णं च वृक्षाग्रात्पततां परम् ।
परित्राहीति शब्दं च कुर्वतामसतामपि ॥७३॥
गभीरं ध्वान्तसंयुक्तं रक्तकीटसमन्वितम् ।
तदसीपत्रकुण्डं च कीर्तितं च भयानकम् ॥७४॥
धनुःशतप्रमाणं च क्षुराकारास्त्रसंकुलम् ।
पापिनां रक्तपूर्णं च क्षुरधारं भयानकम् ॥७५॥
सूचीवाश्यास्त्रसंयुक्तं पापिरक्तौघपूरितम् ।
पञ्चाशद्धनुरायामं क्लेशदं सूचिकामुखम् ॥७६॥
गोधाह्वजन्तुभेदस्य मुखाकृति भयानकम् ।
कूपरूपं गभीरं च धनुर्विंशतिमानकम् ॥७७॥
महापातकिनां चैव महाक्लेशकरं परम् ।
तत्कीटभक्षितानां च नम्रास्यानां च संततम् ॥७८॥
कुण्डं नक्रमुखाकारं धनुःषोडशमानकम् ।
गभीरं कूपरूपं च पापिष्ठैः संकुलं सदा ॥७९॥
गजेन्द्राणां समूहेन व्याप्तं कुण्डाकृति स्थलम् ।
गजदन्तहतानां च पापिनां रक्तपूरितम् ॥८०॥
तत्कीटभक्षितानां च दीनशब्दकृतं सदा ।
धनुःशतप्रमाणं च कीर्तितं गजदंशनम् ॥८१॥
धनुस्त्रिंशत्प्रमाणं च कुण्डं वै गोमुखाकृति ।
पापिनां दुःखदं चैव गोमुखं परिकीर्तितम् ॥८२॥
भ्रमितं कालचक्रेण संततं च भयानकम् ।
कुम्भाकारं ध्वान्तयुक्तं द्विगव्यूतिप्रमाणकम् ॥८३॥
लक्षमानवमानं च गभीरमतिविस्तृतम् ।
कुत्रचित्तप्ततैलं च कुण्डाभ्यन्तरमन्तिके ॥८४॥
कुत्रचित्तप्तलौहादिकुण्डं तामादिकं तथा ।
कुत्रचित्तप्तपाषाणकुण्डाभ्यन्तरमन्तिके ॥८५॥
पापिनां च प्रधानैश्च महापातकिभिर्युतम् ।
परस्परं न पश्यद्भिः शब्दकृद्भिश्च संततम् ॥८६॥
ताडितैर्मम दूतैश्च दण्डैश्च मुसलैस्तथा ॥८७॥
घूर्णमानैः पतद्भिश्च मूर्च्छितैश्च मुहुर्मुहुः ।
पातितैर्मम दूतैश्चाप्यत्यूर्ध्वात्पतितैः क्षणम् ॥८८॥
यावन्तः पापिनः सन्ति सर्वकुण्डेषु सुन्दरि ।
ततश्चतुर्गुणाः सन्ति कुम्भीपाके च दुस्तरे ॥८९॥
सुचिरं पतिताश्चैव भोगदेहविवर्जिताः ।
सर्वकुण्डप्रधानं च कुम्भीपाकं प्रकीर्तितम् ॥९०॥
कालनिर्मितसूत्रेण निबद्धा यत्र पापिनः ।
उत्थापिताश्च मद्दूतैः क्षणमेव निमज्जिताः ॥९१॥
निःश्वासबन्धाः सुचिरं कुण्डानामन्तरे तथा ।
अतीव क्लेशयुक्ताश्च भोगदेहा अनश्वरा ॥९२॥
दण्डेन मुसलेनैव मम दूतैश्च ताडिताः ।
प्रतप्ततोययुक्तं च कालसूत्रं प्रकीर्तितम् ॥९३॥
अवटः कूपभेदश्च यत्रोदं च तदाकृति ।
प्रतप्ततोयपूर्णं च धनुर्विंशत्प्रमाणकम् ॥९४॥
व्याप्तं महापापिभिश्च दग्धगात्रैश्च संततम् ।
मद्दूतैस्ताडितैः शश्वदवटोदं प्रकीर्तितम् ॥९५॥
यत्तोयस्पर्शमात्रेण सर्वव्याधिश्च पापिनाम् ।
भवेदकस्मात्पततां यत्र कुण्डे धनुःशते ॥९६॥
सर्वे रुद्धाः पापिनश्च व्यथन्ते यत्र संततम् ।
हाहेति शब्दं कुर्वन्तस्तदेवारुन्तुदं विदुः ॥९७॥
तप्तपांसुपराकोर्णं ज्वलद्भिस्तु सुदग्धकैः ।
तद्भक्ष्यैः पापिभिर्युक्तं पांसुभोजं धनुःशतम् ॥९८॥
पततां पापिनां यत्र भवेदेव प्रकम्पनम् ।
पापमात्रेण पापी वै भवेत्शापेन वेष्टितः ॥९९॥
क्रोशमाने च कुण्डे वै विदुस्तत्पाशवेष्टनम् ।
धनुर्विंशतिमानं च शूलप्रोतं प्रकीर्तितम् ॥ १००॥
पातमात्रेण पापी च शूलेन ग्रथितो भवेत् ।
पततां पापिनां यत्र भवेदेव प्रकम्पनम् ॥ १०१ ॥
अतीव हिमतोये च क्रोशार्धं च प्रकम्पनम् ।
ददत्येव हि मद्दूता यत्रोल्काः पापिनांमुखे ॥ १०२॥
धनुर्विंशतिमानं च तदुल्काभिश्च संकुलम् ।
लक्षमानवमानं च गम्भीरं च धनुःशतम् ॥१०३॥
नानाप्रकारक्रिमिभिः संयुक्तं च भयानकैः ।
अत्यन्धकारव्याप्तं यत्कूपाकार च वर्तुलम् ॥ १०४॥
तद्भक्ष्यैः पापिभिर्युक्तं नव पश्यद्भिः परस्परम् ।
तप्ततोयप्रदग्धैश्च चलद्भिः कीटभक्षितैः ।
ध्वान्तेन चक्षुषा चान्धैरन्धकूपं प्रकीर्तितम्, ॥१०५॥
नानाप्रकारशस्त्रौघैर्यत्र विद्धाश्च पापिनः ।
धनुर्विंशतिमानं च वेधनं तत्प्रकीर्तितम् ॥ १०६॥
दण्डेन ताडिता यत्र मम दूतैश्च पापिनः ।
धनुः षोडशमानं च तत्कुण्डं दण्डताडनम् ॥ १०७॥
निबद्धाश्च महाजालैर्यथा मीनाश्च पापिनः ।
धनुस्त्रिंशत्प्रमाणं च जालबद्धं प्रकीर्तितम् ॥ १०८॥
पततां पापिनां कुण्डे देहाश्चूर्णीभवन्ति च ।
लौहवेदिनिबद्धान्तः कोटिमानवमानकम् ॥ १०९॥
गभीरं ध्वान्तयुक्तं च धनुर्विंशतिमानकम् ।
मूर्च्छितानां जडानां तद्देहचूऽर्णं प्रकीर्तितम् ॥ ११०॥
दलिताः पापिनो यत्र मद्दूतैर्मुसलैः सदा ।
धनुः षोडशमानंच तत्कुण्डं दलनं स्मृतम् ॥ १११॥
पातमात्रे यत्र पापी शुष्ककण्ठौष्ठतालुकः ।
वालुकासु चलाम् धनुस्त्रिंशत्प्रमाणकम् ॥ ११२॥
शतमानवमानं च गभीरं ध्वान्तसंयुतम् ।
जलाहारैर्विरहितं शोषणं तत्प्रकीर्तितम् ॥ ११३॥
नानाचर्मकषायोदैः परिपूर्णं धनुःशतम् ।
शतमानवमानं च गभीरं ध्वान्तसंयुतम् ।
दुर्गन्धियुक्तं तद्भक्ष्यैः पापिभिः संकुलं महत् ॥ ११४॥
शूर्पाकारमुखं कुण्डं धनुर्द्वादशमानकम् ।
तप्तलोहवालुकाभिः पूर्णं पातकिभिर्युतम् ॥ ११५॥
अन्तराग्निशिखानां च ज्वालाव्याप्तमुखं सदा ।
धनुर्विंशतिमानं च यस्य कुण्डस्य सुन्दरि ॥ ११६॥
ज्वालाभिर्दग्धगात्रैश्च पाणिभिर्व्याप्तमेव यत् ।
तन्महत्क्लेशदं शश्वत्कुण्डं ज्वालामुखं स्मृतम् ॥ ११७॥
पातमात्राद्यत्र पापी मूर्च्छितो जिह्मितो भवेत् ।
तप्तेष्टकाभ्यन्तरितं वाप्यर्धं जिह्मकुण्डकम् ॥ ११८॥
धूमान्धकारयुक्तं च धूमान्धैः पापिभिर्युतम् ।
धनुःशतं श्वासबद्धैर्धूमान्ध परिकीर्तितम् ॥ ११९॥
पातमात्राद्यत्र पापी नागैः संवेष्टितो भवेत् ।
धनुः शतं नागपूर्णं नागवेष्टनकुण्डकम् ॥ १२०॥
षडशीतिश्च कुण्डानि मयोक्तानि निशामय ।
लक्षणं चापि तेषां च किं भूयः श्रोतुमिच्छसि ॥ १२१॥
इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे सावित्र्युपाख्याने
यमलोकस्थनरककुण्डलक्षणप्रकथनं
नाम त्रयस्त्रिंशोऽध्यायः ॥३३॥
GO TOP
|