ब्रह्मवैवर्तपुराणम्
द्वितीयं प्रकृतिखण्डम् - चतुस्त्रिंशोऽध्यायः
सावित्र्युपाख्याने सावित्र्यायमोपदेशसमाप्तिः -
सावित्र्युवाच
हरिभक्तिं देहि मह्यं सारभूतां सुदुर्लभाम् ।
त्वत्तः सर्वं श्रुतं देव नावशिष्टो वरो मम ॥ १ ॥
किंचित्कथय मे धर्मं श्रीकृष्णगुणकीर्तनम् ।
पुंसां लक्षोद्धारबीजं नरकार्णवतारकम् ॥ २ ॥
कारणं मुक्तिकार्याणां सर्वाशुभनिवारणम् ।
दारणं कर्मवृक्षाणां कृतपापौघहारकम् ॥ ३ ॥
मुक्तयः कतिधा सन्ति किं वा तासां च लक्षणम् ।
हरिभक्तेर्मूर्तिभेदं निषेकस्यापि लक्षणम् ॥ ४ ॥
तत्त्वज्ञानविहीना च स्त्रीजातिर्विधिनिर्मिता ।
किं तज्ज्ञानं सारभूतं वद वेदविदां वर ॥ ५ ॥
सर्वदानं ह्यनशनं तीर्थस्नानं व्रतं तपः ।
अज्ञाने ज्ञानदानस्य कलां नार्हन्ति षोडशीम् ॥ ६ ॥
पितुः शतगुणा माता गौरवेणातिरिच्यते ।
मातुः शतगुणैः पूज्यो ज्ञानदाता गुरुः प्रभो ॥ ७ ॥
यम उवाच
पूर्वं सर्वो वरो दत्तो यस्ते मनसि वाञ्छितः ।
अधुना हरिभक्तिस्ते वत्से भवतु मद्वरात् ॥ ८ ॥
श्रोतुमिच्छसि कल्याणि श्रीकृष्णगुणकीर्तनम् ।
वक्तृणां प्रश्नकर्तृणां श्रोतृणां कुलतारकम् ॥ ९ ॥
शेषो वक्त्रसहस्रेण नहि यद्वक्तुमीश्वरः ।
मृत्युंजयो न क्षमश्च वस्तुं पञ्चमुखेन च ॥ १० ॥
धाता चतुर्णां वेदानां विधाता जगतामपि ।
ब्रह्मा चतुर्मुखेनैव नालं विष्णुश्च सर्ववित् ॥ ११ ॥
कार्तिकेयः षण्मुखेन नापि वक्तुमलं ध्रुवम् ।
न गणेशः समर्थश्च योगीन्द्राणां गुरोर्गुरुः ॥ १२ ॥
सारभूताश्च शास्त्राणां वेदाश्चत्वार एव च ।
कलामात्रं यद्गुणानां न विदन्ति बुधाश्च ये ॥ १३ ॥
सरस्वती जडीभूता नालं यद्गुणवर्णने ।
सनत्कुमारो धर्मश्च सनकश्च सनातनः ॥ १४ ॥
सनन्दः कपिलः सूर्यो ये चान्ये ब्रह्मणः सुताः ।
विचक्षणा न यद्वक्तुं के वाऽन्ये जडबुद्धयः ॥ १५ ॥
न यद्वक्तुं क्षमाः सिद्धा मुनीन्द्रा योगिनस्तथा ।
के वाऽन्ये च वयं के वा भगवद्गुणवर्णने ॥ १६ ॥
ध्यायन्ति यत्पदाम्भोजं ब्रह्मविष्णुशिवादयः ।
अतिसाध्यं स्वभक्तानां तदन्येषां सुदुर्लभम् ॥ १७ ॥
कश्चित्किंचिद्विजानाति तद्गुणोत्कीर्तनं महत् ।
अतिरिक्तं विजानाति ब्रह्मा ब्रह्मविशारदः ॥ १८ ॥
ततोऽतिरिक्तं जानाति गणेशो ज्ञानिनां गुरुः ।
सर्वातिरिक्तं जानाति सर्वज्ञः शंभुरेव च ॥ १९ ॥
तस्मै दत्तं पुरा ज्ञानं कृष्णेन परमात्मना ।
अतीव निर्जने रम्ये गोलोके रासमण्डले ॥ २० ॥
तत्रैव कथितं किंचिद्यद्गुणोत्कीर्तनं पुनः ।
धर्माय कथयामास शिवलोके शिवः स्वयम् ॥ २१ ॥
धर्मस्तत्कथयामास पुष्करे भास्कराय च ।
पिता मम यमाराध्य मां प्राप तपसा सति ॥ २२ ॥
पूर्वं स्वविषयं चाहं न गृह्णामि प्रयत्नतः ।
वैराग्ययुक्तस्तपसे गन्तुमिच्छामि सुव्रते ॥ २३ ॥
तदा मां कथयामास पिता तद्गुणकीर्तनम् ।
यथागमं तद्वदामि निबोधातीव दुर्गमम् ॥ २४ ॥
तद्गुणं स न जानाति तदन्यस्य च का कथा ।
यथाऽऽकाशो न जानाति स्वान्तमेव वरानने ॥ २५ ॥
सर्वान्तरात्मा भगवान्सर्वकारणकारणम् ।
सर्वेश्वरश्च सर्वाद्यः सर्ववित्सर्वरूपधृक् ॥ २६ ॥
नित्यरूपो नित्यदेही नित्यानन्दो निराकृतिः ।
निरङ्कुशश्च निःशङ्को निर्गुणश्च निराश्रयः ॥ २७ ॥
निर्लिप्तः सर्वसाक्षी च सर्वाधारः परात्परः ।
प्रकृतिस्तद्विकारा च प्राकृतास्तद्विकारजाः ॥ २८ ॥
स्वयं पुमांश्च प्रकृतिः स्वयं च प्रकृतेः परः ।
रूपं विधत्तेऽरूपश्च भक्तानुग्रहहेतवे ॥ २९ ॥
अतीव कमनीयं च सुन्दरं सुमनोहरम् ।
नवीननीरदश्यामं किशोरं गोपवेषकम् ॥ ३० ॥
कन्दर्पकोटिलावण्यलीलाधाम मनोहरम् ।
शरन्मध्याह्नपद्मानां शोभामोषकलोचनम् ॥ ३१ ॥
शरत्पार्वणकोटीन्दुशोभासंशोभिताननम् ।
अमूल्यरत्नखचितं रत्नाभरणभूषितम् ॥ ३२ ॥
सस्मितं शोभितं शश्वदमूल्यपीतवाससा ।
परब्रह्मस्वरूपं च ज्वलन्तं ब्रह्मतेजसा ॥ ३३ ॥
सुखदृश्यं च शान्तं च राधाकान्तमनन्तकम् ।
गोपीभिर्वीक्ष्यमाणं च सस्मिताभिः समन्ततः ॥ ३४ ॥
रासमण्डलमध्यस्थं रत्नसिंहासनस्थितम् ।
वंशीं क्वणन्तं द्विभुजं वनमालाविभूषितम् ॥ ३५ ॥
कौस्तुभेन मणीन्द्रेण सुन्दरं वक्षसोज्ज्वलम् ।
कुङ्कुमागरुकस्तूरीचन्दनार्चितविग्रहम् ॥ ३६ ॥
चारुचम्पकमालाब्जमालतीमाल्यमण्डितम् ।
चारुचम्पकशोभाढ्यचूडावक्रिमराजितम् ॥ ३७ ॥
ध्यायन्ति चैवंभूतं वै भक्ता भक्तिपरिप्लुताः ।
यद्भयाज्जगतां धाता विधत्ते सृष्टिमेव च ॥ ३८ ॥
करोति लेखनं कर्मानुरूपं सर्वकर्मणाम् ।
तपसां फलदाता च कर्मणां च यदाज्ञया ॥ ३९ ॥
विष्णुः पाता च सर्वेषां यद्भयात्पाति संततम् ।
कालाग्निरुद्रः संहर्ता सर्वविश्वेषु यद्भयात् ॥ ४० ॥
शिवो मृत्युजयश्चैव ज्ञानिनां च गुरोर्गुरुः ।
यज्ज्ञानदानात्सिद्धेशो योगीशः सर्ववित्स्वयम् ॥ ४१ ॥
परमानन्दयुक्तश्च भक्तिवैराग्यसंयुतः ।
यत्प्रसादाद्वाति वातः प्रवरः शीघ्रगामिनाम् ॥ ४२ ॥
तपनश्च प्रतपति यद्भयात्संततं सति ।
यदाज्ञया वर्षतीन्द्रो मृत्युश्चरति जन्तुषु ॥ ४३ ॥
यदाज्ञया दहेद्वह्निर्जलमेव सुशीतलम् ।
दिशो रक्षन्ति दिक्पाला महाभीता यदाज्ञया ॥ ४४ ॥
भ्रमन्ति राशिचक्राणि ग्रहा वै यद्भयेन च ।
भयात्फलन्ति वृक्षाश्च पुष्पन्त्यपि च यद्भयात् ॥ ४५ ॥
भयात्फलानि पक्वानिनिष्फलास्तरवो भयात् ।
यदाज्ञया स्थलस्थाश्च न जीवन्ति जलेषु च ॥ ४६ ॥
तथा स्थले जलस्थाश्च न जीवन्ति यदाज्ञया ।
अहं नियमकर्ता च धर्माधर्मे च यद्भयात् ॥ ४७ ॥
कालश्च कलयेत्सर्वं भ्रमत्येव यदाज्ञया ।
अकाले न हरेत्कालो मृत्युर्वै यद्भयेन च ॥ ४८ ॥
ज्वलदग्नौ पतन्तं च गभीरे च जलार्णवे ।
वृक्षाग्रात्तीक्ष्णखड्गे च सर्पादीनां मुखेषु च ॥ ४९ ॥
नानाशस्त्रास्त्रविद्धं च रणेषु विषमेषु च ।
पुष्पचन्दनतल्पे च बन्धुवर्गैश्च रक्षितम् ॥ ५० ॥
शयानं तन्त्रमन्त्रैश्च काले कालो हरेद्भयात् ।
धत्ते वायुस्तोयराशिं तोयं कूर्मं यदाज्ञया ॥ ५१ ॥
कूर्मोऽनन्तं स च क्षोणीं समुद्रान्सप्त पर्वतान् ।
सर्वाश्चैव क्षमारूपो नानारूपं बिभर्ति सः ॥ ५२ ॥
यतः सर्वाणि भूतानि लीयन्तेऽन्ते च तत्र वै ।
इन्द्रायुश्चैव दिव्यानां युगानामेकसप्ततिः ॥ ५३ ॥
अष्टाविंशच्छक्रपाते ब्रह्मणः स्यादहर्निशम् ।
षष्ट्याऽधिके पञ्चशते सहस्रे पञ्चविंशतौ ॥ ५४ ॥
युगे नराणां शक्रायुरेवं संख्याविदो विदुः ।
एवं त्रिंशद्दिनैर्मासो द्वाभ्यां ताभ्यामृतुः स्मृतः ॥ ५५ ॥
ऋतुभिः षड्भिरेवाब्दं शताब्दं ब्रह्मणो वयः ।
ब्रह्मणश्च निपाते वै चक्षुरुन्मीलन हरेः ॥ ५६ ॥
चक्षुर्निमीलने तस्य लयं प्राकृतिकं विदुः ।
प्रलये प्राकृताः सर्वे देवाद्याश्च चराचराः ॥ ५७ ॥
लीना धातरि धाता च श्रीकृष्णे नाभिपङ्कजे ।
विष्णुः क्षीरोदशायी च वैकुण्ठे यश्चतुर्भुजः ॥ ५८ ॥
विलीना वामपार्श्वे च कृष्णस्य परमात्मनः ।
इन्द्राद्या भैरवाद्याश्च यावन्तश्च शिवानुगाः ॥ ५९ ॥
शिवाधारे शिवे लीना ज्ञानानन्दे सनातने ।
ज्ञानाधिदेवः कृष्णस्य महादेवस्य चाऽत्मनः ॥ ६० ॥
तस्य ज्ञाने विलीनश्च बभूवाथ क्षणं हरेः ।
दुर्गायां विष्णुमायायां विलीनाः सर्वशक्तयः ॥ ६१ ॥
सा च कृष्णस्य बुद्धौ च बुद्ध्यधिष्ठातृदेवता ।
नारायणांशः स्कन्दश्च लीनो वक्षसि तस्य च ॥ ६२ ॥
श्रीकृष्णांशश्च तद्बाहौ देवाधीशो गणेश्वरः ।
पद्मांशभूता पद्मायां सा राधायां च सुव्रते ॥ ६३ ॥
गोप्यश्चापि च तस्यां च सर्वा वै देवयोषितः ।
कृष्णप्राणाधिदेवी सा तस्य प्राणेषु सा स्थिता ॥ ६४ ॥
सावित्री च सरस्वत्यां वेदशास्त्राणि यानि च ।
स्थिता वाणी च जिह्वायां तस्यैव परमात्मनः ॥ ६५ ॥
गोलोकस्थस्य गोपाश्च विलीनास्तस्य लोमसु ।
तत्प्राणेषु च सर्वेषां प्राणा वाता हुताशनः ॥ ६६ ॥
जठराग्नौ विलीनश्च जलं तद्रसनाग्रतः ।
वैष्णवाश्चरणाम्भोजे परमानन्दसंयुताः ॥ ६७ ॥
सारात्सारतरा भक्तिरसपीयूषपायिनः ।
विराट्क्षुद्रश्च महति लीनः कृष्णे महान्विराट् ॥ ६८ ॥
यस्यैव लोमकूपेषु विश्वानि निखिलानि च ।
यस्य चक्षुर्निमेषेण महांश्च प्रलयो भवेत् ॥ ६९ ॥
चक्षुरुन्मीलने सृष्टिर्यस्यैव परमात्मनः ।
यावन्निमेषे सृष्टिः स्यात्तावदुन्मीलने व्ययः ॥ ७० ॥
ब्रह्मणश्च शताब्देन सृष्टिस्तत्र लयः पुनः ।
ब्रह्मसृष्टिलयानां च संख्या नास्त्येव सुव्रते ॥ ७१ ॥
यथा भूरजसां चैव संख्यानं च निशामय ।
चक्षुर्निमेषे प्रलयो यस्य सर्वान्तरात्मनः ॥ ७२ ॥
उन्मीलने पुनः सृष्टिर्भवेदेवेश्वरेच्छया ।
तद्गुणोत्कीर्तनं वक्तुं ब्रह्माण्डेषु च कः क्षमः ॥ ७३ ॥
यथा श्रुतं तातवक्त्रात्तथोक्तं च यथागमम् ।
मुक्तयश्च चतुर्वेदैर्निरुक्ताश्च चतुर्विधाः ॥ ७४ ॥
तत्प्रधाना हरेर्भक्तिर्मुक्तेरपि गरीयसी ।
सालोक्यदा हरेरेका चान्या सारूप्यदाऽपरा ॥ ७५ ॥
सामीप्यदा च निर्वाणदात्रीचैवमिति स्मृतिः ।
भक्तास्ता न हि वाञ्छन्ति विना तत्सेवनादिकम् ॥ ७६ ॥
सिद्धत्वममरत्वं च ब्रह्मत्वं चावहेलया ।
जन्ममृत्युजराव्याधिभयशोकादिखण्डनम् ॥ ७७ ॥
धारणं दिव्यरूपस्य विदुर्निर्वाणमोक्षदम् ।
मुक्तिश्च सेवारहिता भक्तिः सेवाविवर्द्धिनी ॥ ७८ ॥
भक्तिमुक्त्योरयं भेदो निषेकलक्षणं शृणु ।
विदुर्बुधा निषेकं च भोगं च कृतकर्मणाम् ॥ ७९ ॥
तत्खण्डनं च शुभदं परं श्रीकृष्णसेवनम् ।
तत्त्वज्ञानमिदं साध्वि सारं वै लोकवेदयोः ॥ ८० ॥
विघ्नघ्नं शुभदं चोक्तं गच्छ वत्से यथासुखम् ।
इत्युक्त्वा सूर्यपुत्रश्च जीवयित्वा चतत्पतिम् ॥ ८१ ॥
तस्यै शुभाशिषं दत्त्वा गमनं कर्तुमुद्यतः ।
दृष्ट्वा यमं च गच्छन्तं सावित्री तं प्रणम्य च ॥ ८२ ॥
रुरोद चरणे धृत्वा सद्विच्छेदोऽतिदुःखदः ।
सावित्रीरोदनं श्रुत्वा यमः सोऽयं कृपानिधिः ॥ ८३ ॥
तामित्युवाच संतुष्टस्त्वरोदीच्चापि नारद ॥ ८४ ॥
यम उवाच
लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते ।
अन्ते यास्यसि गोलोके श्रीकृष्णभवनं शुभे ॥ ८५ ॥
गत्वा च स्वगृहं भद्रे सावित्र्याश्च व्रतं कुरु ।
द्विसप्तवर्षपर्यन्तं नारीणां मोक्षकारणम् ॥ ८६ ॥
ज्येष्ठे शुक्लचतुर्दश्यां सावित्र्याश्च व्रतं कुरु ।
शुक्लाष्टम्यां भाद्रपदे महालक्ष्म्या व्रतं तथा ॥ ८७ ॥
द्व्यष्टवर्षवतं चेदं प्रत्यब्दं पक्षमेव च ।
करोति परया भक्त्या सा याति च हरेः पदम् ॥ ८८ ॥
प्रतिमङ्गलवारे च देवीं मङ्गलचण्डिकाम् ।
प्रतिमासं शुक्लषष्ठ्यां षष्ठीं मङ्गलदायिकाम् ॥ ८९ ॥
तथा चाऽऽषाडसंक्रान्त्यां मनसा सर्वसिद्धिदाम् ।
राधां रासे च कार्तिक्यां कृष्णप्राणाधिकां प्रियाम् ॥ ९० ॥
उपोष्य शुक्लाष्टम्यां च प्रतिमासे वरप्रदाम् ।
विष्णुमायां भगवतीं दुर्गा दुर्गतिनाशिनीम् ॥ ९१ ॥
प्रकृतिं जगदम्बां च पतिपुत्रवतीषु च ।
पतिव्रतासु शुद्धासु यन्त्रेषु प्रतिमासु च ॥ ९२ ॥
या नारी पूजयेद्भक्त्या धनसंतानहेतवे ।
इह लोके सुखं भुक्त्वा यात्यन्ते श्रीहरेः पदम् ॥ ९३ ॥
इत्युक्त्वा तां धर्मराजो जगाम निजमन्दिरम् ।
गृहीत्वा स्वामिनं सा च सावित्री च निजालयम् ॥ ९४ ॥
सावित्री सत्यवन्तं च वृत्तान्तं च यथाक्रमम् ।
अन्यांश्च कथयामास बान्धवांश्चैव नारद ॥ ९५ ॥
सावित्रीजनकः पुत्रान्स प्रापद्वै क्रमेण च ।
श्वशुरश्चक्षुषी राज्यं सा च पुत्रान्वरेणच ॥ ९६ ॥
लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते ।
जगाम स्वामिना सार्धं गोलोकं सा पतिव्रता ॥ ९७ ॥
सवितुश्चाधिदेवी या मन्त्राधिष्ठातृदेवता ।
सावित्री चापि वेदानां सावित्री तेन कीर्तिता ॥ ९८ ॥
इत्येवं कथितं वत्स सावित्र्याख्यानमुत्तमम् ।
जीवकर्मविपाकं च किं पुनः श्रोतुमिच्छसि ॥ ९९ ॥
इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे सावित्र्युपाख्याने सावित्र्या
यमोपदेशसमाप्तिर्नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
GO TOP
|