ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - एकविंशोऽध्यायः

तुलस्युपाख्यानम् -


नारद उवाच
नारायणश्च भगवान्वीर्याधानं चकार ह ।
तुलस्यां केन रूपेण तन्मे व्याख्यातुमर्हसि ॥ १ ॥
श्रीनारायण उवाच
नारायणश्च भगवान्देवानां साधनेन च ।
शङ्खचूडस्य रूपेण रेमे तद्‌रामया सह ॥ २ ॥
शङ्खचूडस्य कवचं गृहीत्वा मायया हरिः ।
पुनर्विधाय तद्‌रूपं जगाम तुलसीगृहम् ॥ ३ ॥
दुन्दुभिं वादयामास तुलसीद्वारसंनिधौ ।
जयशब्दरवद्वारा बोधयामास सुन्दरीम् ॥ ४ ॥
तच्छ्रुत्वा सा च साध्वी च परमानन्दसंयुता ।
राजमार्गगवाक्षेण ददर्श परमादरात् ॥ ५ ॥
ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मङ्‌गलम् ।
बन्दिभ्यो भिक्षुकेभ्यश्च वाचिकेभ्यो धनं ददौ ॥ ६ ॥
अवरुह्य रथाद्‌देवो देव्याश्च भवनं ययौ ।
अमूल्यरत्‍नसंक्लृप्तं सुन्दरं सुमनोहरम् ॥ ७ ॥
दृष्ट्‍वा च पुरतः कान्तं शान्तं कान्ता मुदाऽन्विता ।
तत्पादं क्षालयामास ननाम च रुरोद च ॥ ८ ॥
रत्‍नसिंहासने रम्ये वासयामास कामुकी ।
ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ॥ ९ ॥
अद्य मे सफलं जन्म ह्यद्य मे सफलाः क्रियाः ।
रणागतं च प्राणेशं पश्यन्त्याश्च पुनर्गृहे ॥ १० ॥
सस्मिता सकटाक्षं च सकामा पुलकाञ्चिता ।
प्रपच्छ रणवृत्तान्तं कान्तं मधुरया गिरा ॥ ११ ॥
तुलस्युवाच
असंख्यविश्वसंहर्त्रा सार्धमाजौ तव प्रभो ।
कथं बभूव विजयस्तन्मे ब्रूहि कृपानिधे ॥ १२ ॥
तुलसीवचनं श्रुत्वा प्रहस्य कमलापतिः ।
शङ्खचूडस्य रूपेण तामुवाचानृतं वचः ॥ १३ ॥
श्रीहरिरुवाच
आवयोः समरं कान्ते पूर्णमब्दं बभूव ह ।
नाशो बभूव सर्वेषां दानवानां च कामिनि ॥ १४ ॥
प्रीतिं च कारयामास ब्रह्मा च स्वयमावयोः ।
देवानामधिकारश्च प्रदत्तो धातुराज्ञया ॥ १५ ॥
मयाऽऽगतं स्वभवनं शिवलोकं शिवो गतः ।
इत्युक्त्वा जगतां नाथः शयनं च चकार ह ॥ १६ ॥
रेमे रमापतिस्तत्र रामया सह नारद ।
सा साध्वी सुखसंभोगादाकर्षणव्यतिक्रमात् ॥
सर्वं वितर्कयामास कस्त्वमेवेत्युवाच ह ॥ १७ ॥
तुलस्युवाच
को वा त्वं वद मायेश भुक्ताऽहं मायया त्वया ।
दूरीकृतं मत्सतीत्वमथवा त्वां शपामहे ॥ १८ ॥
तुलसीवचनं श्रुत्वा हरिः शापभयेन च ।
दधार लीलया ब्रह्मन्स्वां मूर्तिं सुमनोहराम् ॥ १९ ॥
ददर्श पुरतो देवी देवदेवं सनातनम् ।
नवीननीरदश्यामं शरत्पङ्‌कजलोचनम् ॥ २० ॥
कोटिकन्दर्पलीलाभं रत्‍नभूषणभूषितम् ।
ईषद्धास्यं प्रसन्नास्यं शोभितं पीतवाससा ॥ २१ ॥
तं दृष्ट्‍वा कामिनी कामान्मूर्च्छां संप्राप लीलया ।
पुनश्च चेतनां प्राप्य पुनः सा तमुवाचह ॥ २२ ॥
तुलस्युवाच
हे नाथ ते दया नास्ति पाषाणसदृशस्य च ।
छलेन धर्मभङ्‌गेन मम स्वामी त्वया हतः ॥ २३ ॥
पाषाणसदृशस्त्वं च दयाहीनो यतः प्रभो ।
तस्मात्पाषाणरूपस्त्वं भुवि देव भवाधुना ॥ २४ ॥
ये वदन्ति दयासिन्धु त्वां ते भ्रान्ता न संशयः ।
भक्तो विनाऽपराधेन परार्थे च कथं हतः ॥ २५ ॥
सर्वात्मा त्वं च सर्वज्ञो न जानासि परव्यथाम् ।
अतस्त्वमेकजनुषि स्वमेव विस्मरिष्यसि ॥ २६ ॥
इत्युक्त्वा च महासाध्वी निपत्य चरणे हरेः ।
भृशं रुरोद शोकार्ता विललाप मुहुर्मुहुः ॥ २७ ॥
तस्याश्च करुणां दृष्ट्‍वा करुणामयसागरः ।
नयेन तां बोधयितुमुवाच कमलापतिः ॥ २८ ॥
श्रीभगवानुवाच
तपस्त्वया कृतं साध्वि मदर्थे भारते चिरम् ।
त्वदर्थे शङ्खचूडश्च चकार सुचिरं तपः ॥ २९ ॥
कृत्वा त्वां कामिनीं कामी विजहार च तत्फलात् ।
अधुना दातुमुचितं तवैव तपसः फलम् ॥ ३० ॥
इदं शरीरं त्यक्त्वा च दिव्यं देहं विधाय च ।
रासे मे रमया सार्धं त्वं रमासदृशी भव ॥ ३१ ॥
इयं तनुर्नदीरूपा गण्डकीति च विश्रुता ।
पूता सुपुण्यदा नॄणां पुण्या भवतु भारते ॥ ३२ ॥
तव केशसमूहाश्च पुण्यवृक्षा भवन्त्विति ।
तुलसीकेशसंभूता तुलसीति च विश्रुता ॥ ३३ ॥
त्रिलोकेषु च पुष्पानां पत्राणां देवपूजने ।
प्रधानरूपा तुलसी भविष्यति वरानने ॥ ३४ ॥
स्वर्गे मर्त्ये च पाताले वैकुण्ठे मम संनिधौ ।
भवन्तु तुलसीवृक्षा वराः पुष्पेषु सुन्दरि ॥ ३५ ॥
गोलोके विरजातीरे रासे वृन्दावने भुवि ।
भाण्डीरे चम्पकवने रम्ये चन्दनकानने ॥ ३६ ॥
माधवीकेतकीकुन्दमल्लिकामालतीवने ।
भवन्तु तरवस्तत्र पुष्पस्थानेषु पुण्यदाः ॥ ३७ ॥
तुलसीतरुमूले च पुण्यदेशे सुपुण्यदे ।
अधिष्ठानं तु तीर्थानां सर्वेषां च भविष्यति ॥ ३८ ॥
तत्रैव सर्वदेवानां समधिष्ठानमेव च ।
तुलसीपत्रपतनं प्रायो यश्च वरानने ॥ ३९ ॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
तुलसीपत्रतोयेन योऽभिषेकं समाचरेत् ॥ ४० ॥
सुधाघटसहस्रेण सा तुष्टिर्न भवेत्समा ।
या च तुष्टिर्भवेन्नृणां तुलसीपत्रदानतः ॥ ४१ ॥
गवामयुतदानेन यत्फलं लभते नरः ।
तुलसीपत्रदानेन तत्फलं कार्तिके सति ॥ ४२ ॥
तुलसीपत्रतोयं च मृत्युकाले च यो लभेत् ।
स मुच्यते सर्वपापाद्विष्णुलोकं स गच्छति ॥ ४३ ॥
नित्यं यस्तुलसीतोयं भुङ्क्ते भक्त्या च यो नरः ।
स एव जीवन्मुक्तश्च गङ्गास्नानफलं लभेत् ॥ ४४ ॥
नित्यं यस्तुलसीं दत्त्वा पूजयेन्मां च मानवः ।
लक्षाश्वमेधजं पुण्यं लभते नात्र संशयः ॥ ४५ ॥
तुलसीं स्वकरे धृत्वा देहे धृत्वा च मानवः ।
प्राणांस्त्यजति तीर्थेषु विष्णुलोकं स गच्छति ॥ ४६ ॥
तुलसीकाष्ठनिर्माणमालां गृह्णाति यो नरः ।
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥ ४७ ॥
तुलसीं स्वकरे धृत्वा स्वीकारं यो न रक्षति ।
स याति कालसूत्रं च यावच्चन्द्रदिवाकरौ ॥ ४८ ॥
करोति मिथ्या शपथं तुलस्या यो हि मानवः ।
स याति कुम्भीपाकं च यावदिन्द्राश्चतुर्दश ॥ ४९ ॥
तुलसीतोयकणिकां मृत्युकाले च यो लभेत् ।
रत्‍नयानं समारुह्य वैकुण्ठं स प्रयाति च ॥ ५० ॥
पूर्णिमायाममायां च द्वादश्यां रविसंक्रमे ।
तैलाभ्यङ्‍गे चास्नाते च मध्याह्ने निशि संध्ययोः ॥ ५१ ॥
आशौचेऽशुचिकाले वा रात्रिवासान्विते नराः ।
तुलसीं ये च छिन्दन्ति ते छिन्दन्ति हरेः शिरः ॥ ५२ ॥
त्रिरात्रं तुलसीपत्रं शुद्धं पर्युषितं सति ।
श्राद्धे व्रते वा दाने वा प्रतिष्ठायां सुरार्चने ॥ ५३ ॥
भूगतं तोयपतितं यद्‌दत्तं विष्णवे सति ।
शुद्धं तु तुलसीपत्रं क्षालनादन्यकर्मणि ॥ ५४ ॥
वृक्षाधिष्ठात्री देवी या गोलोके च निरामये ।
कृष्णेन सार्धं रहसि नित्यं क्रीडां करिष्यति ॥ ५५ ॥
नद्यधिष्ठातृदेवी या भारते च सुपुण्यदा ।
लवणोदस्य पत्‍नी च मदंशस्य भविष्यति ॥ ५६ ॥
त्वं च स्वयं महासाध्वि वैकुण्ठे मम संनिधौ ।
रमासमा च रासे च भविष्यसि न संशयः ॥ ५७ ॥
अहं च शैलरूपेण गण्डकीतीरसंनिधौ ।
अधिष्ठानं करिष्यामि भारते तव शापतः ॥ ५८ ॥
वज्रकीटाश्च कृमयो वज्रदंष्ट्राश्च तत्र वै ।
तच्छिलाकुहरे चक्रं करिष्यन्ति मदीयकम् ॥ ५९ ॥
एकद्वारे चतुश्चक्रं वनमालाविभूषितम् ।
नवीननीरदश्यामं लक्ष्मीनारायणाभिधम् ॥ ६० ॥
एकद्वारे चतुश्चक्रं नवीननीरदोपमम् ।
लक्ष्मीजनार्दन ज्ञेयं रहितं वनमालया ॥ ६१ ॥
द्वारद्वये चतुश्चक्रं गोष्पदेन समन्वितम् ।
रघुनाथाभिधं ज्ञेयं रहितं वनमालया ॥ ६२ ॥
अतिक्षुद्रं द्विचक्रं च नवीनजलदप्रभम् ।
दधिवामनाभिधं ज्ञेयं गृहिणां च सुखप्रदम् ॥ ६३ ॥
अतिक्षुद्रं द्विचक्रं च वनमालाविभूषितम् ।
विज्ञेयं श्रीधरं देवं श्रीप्रदं गृहिणां सदा ॥ ६४ ॥
स्थूलं च वर्तुलाकारं रहितं वनमालया ।
द्विचक्रं स्फुटमत्यन्तं ज्ञेयं दामोदराभिधम् ॥ ६५ ॥
मध्यमं वर्तुलाकारं द्विचक्रं बाणविक्षतम् ।
रणरामाभिधं ज्ञेयं शरतूणसमन्वितम् ॥ ६६ ॥
मध्यमं सप्तचक्रं च च्छत्रतूणसमन्वितम् ।
राजराजेश्वरं ज्ञेयं राजसंपत्प्रदं नृणाम् ॥ ६७ ॥
द्विसप्तचक्रं स्थूलं च नवीनजलदप्रभम् ।
अनन्ताख्यं च विज्ञेयं चतुर्वर्गफलप्रदम् ॥ ६८ ॥
चक्राकारं द्विचक्रं च सश्रीकं जलदप्रभम् ।
सगोपदं मध्यमं च विज्ञेयं मधुसूदनम् ॥ ६९ ॥
सुदर्शनं चैकचक्रं गुप्तचक्रं गदाधरम् ।
द्विचक्रं हयवक्त्राभं हयग्रीवं प्रकीर्तितम् ॥ ७० ॥
अतीव विस्तृतास्यं च द्विचक्रं विकटं सति ।
नरसिंहाभिधं ज्ञेयं सद्यो वैराग्यदं नृणाम् ॥ ७१ ॥
द्विचक्रं विस्तृतास्यं च वनमालासमन्वितम् ।
लक्ष्मीनृसिंहं विज्ञेयं गृहिणां सुखदं सदा ॥ ७२ ॥
द्वारदेशे द्विचक्रं च सश्रीकं च समं स्फुटम् ।
वासुदेवं च विज्ञेयं सर्वकामफलप्रदम् ॥ ७३ ॥
प्रद्युम्नं सूक्ष्मचक्रं च नवीननीरदप्रभम् ।
सुषिरे छिद्रबहुलं गृहिणा च सुखप्रदम् ॥ ७४ ॥
द्वे चक्रे चैकलग्ने च पृष्ठे यत्र तु पुष्कलम् ।
संकर्षणं तु विज्ञेयं सुखदं गृहिणां सदा ॥ ७५ ॥
अनिरुद्धं तु पीताभं वर्तुलं चातिशोभनम् ।
सुखप्रदं गृहस्थानां प्रवदन्ति मनीषिणः ॥ ७६ ॥
शालग्रामशिला यत्र तत्र संनिहितो हरिः ।
तत्रैव लक्ष्मीर्वसति सर्वतीर्थसमन्विता ॥ ७७ ॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।
तानि सर्वाणि नश्यन्ति शालग्रामशिलार्चनात् ॥ ७८ ॥
छत्राकारे भवेद्‌राज्यं वर्तुले च महाश्रियः ।
दुःखं च शकटाकारे शूलाग्रे मरणं ध्रुवम् ॥ ७९ ॥
विकृतास्ये च दारिद्र्यं पिङ्‌गले हानिरेव च ।
लग्नचक्रे भवेद्‌व्याधिर्विदीर्णे मरणं ध्रुवम् ॥ ८० ॥
व्रतं दानं प्रतिष्ठां च श्राद्धं च देवपूजनम् ।
शालग्रामशिलायाश्चैवाधिष्ठानात्प्रशस्तकम् ॥ ८१ ॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
शालग्रामशिलातोयैर्योऽभिषेकं समाचरेत् ॥ ८२ ॥
सर्वदानेषु यत्पुण्यं प्रादक्षिष्ये भुवो यथा ।
सर्वयज्ञेषु तीर्थेषु व्रतेष्वनशनेषु च ॥ ८३ ॥
तस्य स्पर्शं च वाञ्छन्ति तीर्थानि निखिलानि च ।
जीवन्मुक्तो महापूतो भवेदेव न संशयः ॥ ८४ ॥
पाठे चतुर्णां वेदानां तपसां करणे सति ।
तत्पुण्यं लभते नूनं शालग्रामशिलार्चनात् ॥ ८५ ॥
शालग्रामशिलातोयं नित्यं भुङ्क्ते च यो नरः ।
सुरेप्सितं प्रसादं च जन्ममृत्युजराहरम् ॥ ८६ ॥
तस्य स्पर्शं च वाञ्छन्ति तीर्थानि निखिलानि च ।
जीवन्मुक्तो महापूतोऽप्यन्ते याति हरेः पदम् ॥ ८७ ॥
तत्रैव हरिणा सार्धमसंख्यं प्राकृतं लयम् ।
पश्यत्येव हि दास्ये च निर्मुक्तो दास्यकर्मणि ॥ ८८ ॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।
तं च दृष्ट्‍वा भिया यान्ति वैनतेयमिवोरगाः ॥ ८९ ॥
तत्पादपद्मरजसा सद्यः पूता वसुंधरा ।
पुंसां लक्षं तत्पितॄणां निस्तारस्तस्य जन्मनः ॥ ९० ॥
शालग्रामशिलातोयं मृत्युकाले च यो लभेत् ।
सर्वपापाद्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ९१ ॥
निर्वाणमुक्तिं लभते कर्मभोगाद्विमुच्यते ।
विष्णुपादे प्रलीनश्च भविष्यति न संशयः ॥ ९२ ॥
शालग्रामशिलां धृत्वा मिथ्यावादं वदेत्तु यः ।
स याति कूर्मदंष्ट्रं च यावद्वै ब्रह्मणो वयः ॥ ९३ ॥
शालग्रामशिलां स्पृष्टा स्वीकार यो न पालयेत् ।
स प्रयात्यसिपत्रं च लक्षमन्वन्तराधिकम् ॥ ९४ ॥
तुलसीपत्रविच्छेदं शालग्रामे करोति यः ।
तस्य जन्मान्तरे काले स्त्रीविच्छेदो भविष्यति ॥ ९५ ॥
तुलसीपत्रविच्छेदं शङ्खे यो हि करोति च ।
भार्याहीनो भवेत्सोऽपि रोगी च सप्तजन्मसु ॥ ९६ ॥
शालग्रामं च तुलसीं शङ्‌खमेकत्र एव च ।
यो रक्षति महाज्ञानी स भवेच्छ्रीहरिप्रियः ॥ ९७ ॥
सकृदेव हि यो यस्यां वीर्याधानं करोति यः ।
तद्विच्छेदे तस्य दुःखं भवेदेव परस्परम् ॥ ९८ ॥
त्वं प्रिया शङ्खचूडस्य चैकमन्वन्तरावधि ।
शङ्खेन सार्धं त्वद्‌भेदः केवलं दुःखदस्तव ॥ ९९ ॥
इत्युक्त्वा श्रीहरिस्तां च विरराम च नारद ।
सा च देहं परित्यज्य दिव्यरूपं दधार ह ॥ १ ०० ॥
यथा श्रीश्च तथा सा चाप्युवास हरिवक्षसि ।
प्रजगाम तया सार्धं वैकुण्ठं कमलापतिः ॥ १०१ ॥
लक्ष्मी सरस्वती गङ्‌गा तुलसी चापि नारद ।
हरेः प्रियाश्चतस्रश्च बभूवुरीश्वरस्य च ॥ १०२ ॥
सद्यस्तद्‌देहजाता च बभूव गण्डकी नदी ।
हरेरंशेन शैलश्च तत्तीरे पुण्यदो नृणाम् ॥ १०३ ॥
कुर्वन्ति तत्र कीटाश्च शिलां बहुविधां मुने ।
जले पतन्ति या याश्च जलदाभाश्च निश्चितम् ॥ १०४ ॥
स्थलस्थाः पिङ्‌गला ज्ञेयाश्चोपतापाद्धरेरिति ।
इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि ॥ १०५ ॥
इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे तुलस्युपाख्याने एकविशोऽध्यायः ॥ २१ ॥


GO TOP