ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - द्वाविंशोऽध्यायः

तुलस्युपाख्यानम् -


नारद उवाच
तुलसी च जगत्पूज्या पूता नारायणप्रिया ।
तस्याः पूजाविधानं च स्तोत्रं किं न श्रुतं मया ॥ १ ॥
केन पूज्या स्तुता केन पुरा प्रथमतो मुने ।
तव पूज्या सा बभूव केन वा वद मामहो ॥ २ ॥
सूत उवाच
नारदस्य वचः श्रुत्वा प्रहस्य गरुडध्वजः ।
कथां कथितुमारेभे पुण्यरूपां पुरातनीम् ॥ ३ ॥
श्रीनारायण उवाच
हरिः संप्राप्य तुलसीं रेमे च रमया सह ।
रमासमां तां सौभाग्यां चकार गौरवेण च ॥ ४ ॥
सेहे लक्ष्मीश्च गङ्गा च तस्याश्च नवसंगमम् ।
सौभाग्यं गौरवं कोपान्न सेहे च सरस्वती ॥ ५ ॥
सा तां जघान कलहे मानिनी हरिसंनिधौ ।
व्रीडया स्वापमानाच्च साऽन्तर्धानं चकार ह ॥ ६ ॥
सर्वसिद्धेश्वरी देवी ज्ञानिनी सिद्धयोगिनी ।
बभूव दर्शनं कोपात्सर्वत्र च हरेरहो ॥ ७ ॥
हरिर्न दृष्ट्‍वा तुलसीं बोधयित्वा सरस्वतीम् ।
तदनुज्ञां गृहीत्वा च जगाम तुलसीवनम् ॥ ८ ॥
तत्रगत्वा च स्नात्वा च तुलस्या तुलसीं सतीम् ।
पूजयामास ध्यात्वा तां स्तोत्रं भक्त्या चकार ह ॥ ९ ॥
लक्ष्मीं मायाकामवाणीबीजपूर्वं दशाक्षरम् ।
वृन्दावनीति ङेन्तं च वह्निजायान्तमेव च ॥ १० ॥
श्रीं ह्रीं क्लीं ऐं वृन्दावन्यै स्वाहा ॥
अनेन कल्पतरुणा मन्त्रराजेन नारद ।
पूजयेच्च विधानेन सर्वसिद्धिं लभेन्नरः ॥ १ १ ॥
घृतदीपेन धूपेन सिन्दूरचन्दनेन च ।
नैवेद्येन च पुष्पेण चोपहारेण नारद ॥ १२ ॥
हरिस्तोत्रेण तुष्टा सा चाऽऽविर्भूय महीरुहात् ।
प्रपन्ना चरणाम्भोजे जगाम शरणं शुचिः ॥ १३ ॥
वरं तस्यै ददौ विष्णुर्जगत्पूज्या भवेति च ।
अहं त्वां च धरिष्यामि स्वमूर्ध्नि वक्षसीति च ॥ १४ ॥
सर्वे त्वां धारयिष्यन्ति स्वयं मूर्ध्नि सुरादयः ।
इत्युक्त्वा तां गृहीत्वा च प्रययौ स्वालयं विभुः ॥ १५ ॥
नारद उवाच
किं ध्यानं स्तवनं किंवा किंवा पूजाविधिक्रमः ।
तुलस्याश्च महाभाग तन्मे व्याख्यातुमर्हसि ॥ १६ ॥
नारायण उवाच
अन्तर्हितायां तस्यां च गत्वा च तुलसीवनम् ।
हरिः संपूज्य तुष्टाव तुलसीं विरहातुरः ॥ १७ ॥
श्रीभगवानुवाच
वृन्दारूपाश्च वृक्षाश्च यदैकत्र भवन्ति च ।
विदुर्बुधास्तेन वृन्दा मत्प्रियां तां भजाम्यहम् ॥ १८ ॥
पुरा बभूव या देवी ह्यादौ वृन्दावने वने ।
तेन वृन्दावनी ख्याता सुभगां तां भजाम्यहम् ॥ १९ ॥
असंख्येषु च विश्वेषु पूजिता या निरन्तरम् ।
तेन विश्वपूजिताख्यां जगत्पूज्यां भजाम्यहम् ॥ २० ॥
असंख्यानि च विश्वानि पवित्राणि यया सदा ।
तां विश्वपावनीं देवीं विरहेण स्मराम्यहम् ॥ २१ ॥
देवा न तुष्टाः पुष्पाणां समूहेन यया विना ।
तां पुष्पसारां शुद्धां च द्रष्टुमिच्छामि शोकतः ॥ २२ ॥
विश्वेयत्प्राप्तिमात्रेण भक्त्यानन्दो भवेद्ध्रुवम् ।
नन्दिनी तेन विख्याता सा प्रीता भविता हि मे ॥ २३ ॥
यस्या देव्यास्तुला नास्ति विश्वेषु निखिलेषु च ।
तुलसी तेन विख्याता तां यामि शरणं प्रियाम् ॥ २४ ॥
कृष्णजीवनरूपा या शश्वत्प्रियतमा सती ।
तेन कृष्णजीवनीति मम रक्षतु जीवनम् ॥ २५ ॥
इत्येव स्तवनं कृत्वा तत्र तस्थौ रमापतिः ।
ददर्श तुलसीं साक्षात्पादपद्मे नतां सतीम् ॥ २६ ॥
रुदतीमभिमानेन मानिनीं मानपूजिताम् ।
प्रियां दृष्ट्‍वा प्रियः शीघ्रं वासयामास वक्षसि ॥ २७ ॥
भारत्याज्ञा गृहीत्वा च स्वालयं च ययौ हरिः ।
भारत्या सह तत्प्रीतिं कारयामास सत्वरम् ॥ २८ ॥
वरं विष्णुर्ददौ तस्यैविश्वपूज्या भवेति च ।
शिरोधार्या च सर्वेषां वन्द्या मान्या ममेति च ॥ २९ ॥
विष्णोर्वरेण सा देवी परितुष्टा बभूव ह ।
सरस्वती तामाश्लिष्य वासयामास सन्निधौ ॥ ३० ॥
लक्ष्मीर्गङ्‌गा सस्मिता तां समाश्लिष्य च नारद ।
गृहं प्रवेशयामास विनयेन सतीं मुदा ॥ ३१ ॥
वृन्दां वृन्दावनीं विश्वपावनीं विश्वपूजिताम् ।
पुष्पसारां नन्दिनीं च तुलसीं कृष्णजीवनीम् ॥ ३२ ॥
एतन्नामाष्टकं चैतत्स्तोत्रं नामार्थसंयुतम् ।
यः पठेत्तां च संपूज्य सोऽश्वमेधफलं लभेत् ॥ ३३ ॥
कार्तिकीपूर्णिमाया च तुलस्या जन्म मङ्‌गलम् ।
तत्र तस्याश्च पूजा च विहिता हरिणा पुरा ॥ ३४ ॥
तस्यां यः पूजयेत्तां च भक्त्या च विश्वपावनीम् ।
सर्वपापाद्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ३५ ॥
कार्तिके तुलसीपत्रं विष्णवे यो ददाति च ।
गवामयुतदानस्य फलमाप्नोति निश्चितम् ॥ ३६ ॥
अपुत्रो लभते पुत्रं प्रियाहीनो लभेत्प्रियाम् ।
बन्धुहीनो लभेद्‌बन्धुं स्तोत्रस्मरणमात्रतः ॥ ३७ ॥
रोगी प्रमुच्यते रोगाद्‌बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु पापान्मुच्येत पातकी ॥ ३८ ॥
इत्येवं कथितं स्तोत्रं ध्यानं पूजाविधिं शृणु ।
त्वमेव देव जानासि काण्वशाखोक्तमेव च ॥ ३९ ॥
यद्वक्ष्ये पूजयेत्तां च भक्त्या चाऽऽवाहनं विना ।
उपचारैः षोडशभिर्ध्यानं पातकनाशनम् ॥ ४० ॥
तुलसीं पुष्पसारां च सतीं पूज्या मनोहराम् ।
कृत्स्नपापेध्मदाहाय ज्वलदग्निशिखोपमाम् ॥ ४१ ॥
पुष्पेषु तुलनाऽप्यस्या नासीद्‌देवीषु वा मुने ।
पवित्ररूपा सर्वासु तुलसी सा च कीर्तिता ॥ ४२ ॥
शिरोधार्यां च सर्वेषामीप्सितां विश्वपावनीम् ।
जीवन्मुक्ता मुक्तिदा च भजे तां हरिभक्तिदाम् ॥ ४३ ॥
इति ध्यात्वा च संपूज्य स्तुत्वा च प्रणमेद्‌बुधः ।
उक्तं तुलस्युपाख्यानं किं भूयः श्रोतुमिच्छसि ॥ ४४ ॥
इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
तुलस्युपाख्यानं नाम द्वाविंशोऽध्यायः ॥ २२ ॥


GO TOP