ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - विंशोऽध्यायः

तुलस्युपाख्याने शंखचूडवधे शंखप्रस्तावः -


श्रीनारायण उवाच
शिवस्तत्त्वं समाकर्ण्य तत्त्वज्ञानविशारदः ।
ययौ स्वयं च समरं स्वगणैः सह नारद ॥ १ ॥
शङ्खचूडः शिवं दृष्ट्‍वा विमानादवरुह्य च ।
ननाम परया भक्त्या दण्डवत्पतितो भुवि ॥ २ ॥
तं प्रणम्य च वेगेन विमानं ह्यारुरोह सः ।
तूर्णं चकार संनाहं धनुर्जग्राह दुर्वहम् ॥ ३ ॥
शवदानवयोर्युद्धं पूर्णमब्दं बभूव ह ।
न वै बभूवतुर्ब्रह्मन्तयोर्जयपराजयौ ॥ ४ ॥
न्यस्तशस्त्रश्च भगवान्न्यस्तशस्त्रश्च दानवः ।
रथस्थः शङ्खचूडश्च वृषस्थो वृषभध्वजः ॥ ५ ॥
दानवानां च शतकमुद्वृत्तं च बभूव ह ।
रणे ये ये मृताः शंभोर्जीवयामास तान्विभुः ॥ ६ ॥
ततो विष्णुर्महामायो वृद्धब्राह्मणरूपधृक् ।
आगत्य च रणस्थानमवोचद्‌दानवेश्वरम् ॥ ७ ॥
वृद्धब्राह्मण उवाचं
देहि भिक्षां च राजेन्द्र मह्यं विप्राय साम्प्रतम् ।
त्वं सर्वसंपदां दाता यन्मे मनसि वाञ्छितम् ॥ ८ ॥
निराहाराय वृद्धाय तृषितायाऽऽतुराय च ।
पश्चात्त्वां कथयिष्यामि पुरः सत्यं च कुर्विति ॥ ९ ॥
ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः ।
कवचार्थी जनश्चाहमित्युवाच स मायया ॥ १ ० ॥
तच्छ्रुत्वा दानवश्रेष्ठो ददौ कवचमुत्तमम् ।
गृहीत्वा कवचं दिव्यं जगाम हरिरेव च ॥ ११ ॥
शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति ।
गत्वा तस्यां मायया च वीर्याधानं चकार ह ॥ १२ ॥
अथ शभुर्हरेः शूलं दानवार्थं समग्रहीत् ।
ग्रीष्ममध्याह्नमार्तण्डशतकप्रभमुज्ज्वलम् ॥ १३ ॥
नारायणाधिष्ठिताग्रं ब्रह्माधिष्ठितमध्यमम् ।
शिवाधिष्ठितमूलं च कालाधिष्ठितधारकम् ॥ १४ ॥
किरणावलिसंयुक्तं प्रलयाग्निशिखोपमम् ।
दुर्निवार्यं च दुर्धर्षमव्यर्थं वैरिघातकम् ॥ १५ ॥
तेजसा चक्रतुल्यं च सर्वशस्त्रविघातकम् ।
शिवकेशवयोरन्यद्‌दुर्वह च भयंकरम् ॥ १६ ॥
धनुःसहस्रं दैर्घ्येण विस्तृत्या शतहस्तकम् ।
सजीवं ब्रह्मरूपं च नित्यरूपमनिर्मितम् ॥ १७ ॥
संहर्तुं सर्वविध्यण्डमेकदा दैवलीलया ।
चिक्षेप घूर्णनं कृत्वा शङ्खचूडे च नारद ॥ १८ ॥
राजा चापं परित्यज्य श्रीकृष्णचरणाम्बुजम् ।
ध्यानं चकार भक्त्या च कृत्वा योगासनं धिया ॥ १९ ॥
शूलं च भ्रमणं कृत्वा न्यपतद्‌दानवोपरि ।
चकार भस्मसात्तं च सरथं चैव लीलया ॥ २० ॥
राजा धृत्वा दिव्यरूपं बालकं गोपवेषकम् ।
द्विभुजं मुरलीहस्तं रत्‍नभूषणभूषितम् ॥ २१ ॥
नानारत्‍नसुभूषाढ्यं गोपकोटिभिरावृतम् ।
गोलोकादागतं यानमारुह्य तत्पुरं ययौ ॥ २२ ॥
गत्वा ननाम शिरसा राधामाधवयोर्मुने ।
भक्त्या तच्चरणाम्भोजं रासे वृन्दावने मुने ॥ २३ ॥
सुदामानं तौ च दृष्ट्‍वा प्रसन्नवदनेक्षणौ ।
तदा च चक्रतुः क्रोडे स्नेहेन परिसंप्लुतौ ॥ २४ ॥
अथ शूलश्च वेगेन प्रययौ शूलिनः करम् ।
शकरस्तेन शूलेन शूलपाणिर्बभूव सः ॥ २५ ॥
स शिवस्तेन शूलेन दानवस्यास्थिजालकम् ।
प्रेम्णा च प्रेरयामास लवणोदे च सागरे ॥ २६ ॥
अस्थिभिः शङ्खचूडस्य शङ्खजातिर्बभूव ह ।
नानाप्रकाररूपा च श्रेष्ठा पूता सुरार्चने ॥ २७ ॥
प्रशस्तं शङ्खतोयं च देवानां प्रीतिदं परम् ।
तीर्थतोयस्वरूपं च पवित्रं शंकरं विना ॥ २८ ॥
शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीश्च सुस्थिरा ।
सुस्नातः सर्वतीर्थेषु यः स्नातः शङ्खवारिणा ॥ २९ ॥
शङ्खो हरेरधिष्ठानं यत्र शंखस्ततो हरिः ।
तत्रैव सततं लक्ष्मीर्दूरीभूतममङ्गलम् ॥ ३० ॥
स्त्रीणां च शङ्खध्वनिभिः शूद्राणां च विशेषतः ।
भीता रुष्टा याति लक्ष्मीः स्थलमन्यत्स्थलात्ततः ॥ ३१ ॥
शिवश्च दानवं हत्वा शिवलोकं जगाम सः ।
प्रहृष्टो वृषमारुह्य स्वगणैश्च समावृतः ॥ ३२ ॥
सुराः स्वविषयं प्रापुः परमानन्दसंयुताः ।
नेदुर्दुन्दुभयः स्वर्गे जगुर्गन्धर्वकिन्नराः ॥ ३३ ॥
बभूव पुष्पवृष्टिश्च शिवस्योपरि संततम् ।
प्रशशंसुः सुरास्तं च मुनीन्द्रप्रवरादयः ॥ ३४ ॥
इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे तुलस्युपाख्याने शखङ्चूडवधे
शङ्खप्रस्तावो नाम विंशोऽध्यायः ॥ २० ॥


GO TOP