ब्रह्मवैवर्तपुराणम्
द्वितीयं प्रकृतिखण्डम् - एकोनविंशोऽध्यायः
तुलस्युपाख्याने कालीशंखचूडयुद्धः -
श्रीनारायण उवाच
शिव प्रणम्य शिरसा दानवेन्द्रः प्रतापवान् ।
समारुरोह यानं च स्वामात्यैः सह सत्वरः ॥ १ ॥
गुणं च संक्षुब्धाः स्कन्दशक्त्यर्दितास्तदा ।
नेदुर्दुन्दुभयः स्वर्गे पुष्पवृष्टिर्बभूव ह ॥ २ ॥
स्कन्दस्योपरि तत्रैव समरे च भयंकरे ।
स्कन्दस्य समरं दृष्ट्वा महदद्भुतमुल्बणम् ॥ ३ ॥
दानवानां क्षयकरं यथा प्राकृतिकं लयम् ।
राजा विमानमारुह्य शरवर्षं चकार ह ॥ ४ ॥
नृपस्य शरवृष्टिश्च घनवृष्टिर्यथा तथा ।
महान्घोरान्धकारश्च वह्न्युऽत्थानं बभूव ह ॥ ५ ॥
देवाः प्रदुद्रुवुश्चान्ये सर्वे नन्दीश्वरादयः ।
एकाकी कार्तिकेयस्तु तस्थौ समरमूर्धनि ॥ ६ ॥
पर्वतानां च सर्पाणां शिलानां शाखिनां तथा ।
शश्वच्चकार वृष्टिं च दुर्वाह्या च भयंकरीम् ॥ ७ ॥
नृपस्य शरवृष्ट्या च प्रच्छन्नः शिवनन्दनः ।
नीरदेन च सान्द्रेण संछन्नो भास्करो यथा ॥ ८ ॥
धनुः स्कन्दस्य चिच्छेद दुर्वहं च भयंकरम् ।
बभञ्ज च रथं दिव्यं चिच्छेद रथघोटकान् ॥ ९ ॥
मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः ।
शक्तिं चिक्षेप सूर्याभां तस्य वक्षोविभेदिनीम् ॥ १० ॥
क्षणं मूर्च्छां च संप्राप्य चेतनामुपलभ्य सः ।
गृहोत्वाऽन्यद्धनुर्दिव्यं यद्दत्तं विष्णुना पुरा ॥ ११ ॥
रत्नेन्द्रसारखचितं यानमारुह्य चाग्निभूः ।
शस्त्रमस्त्रं गृहीत्वा च चकार रणमुल्बणम् ॥ १२ ॥
सर्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा ।
सर्वांश्चिच्छेद कोपेन दिव्यास्त्रेण शिवात्मजः ॥ १३ ॥
आग्नेयं वारुणास्त्रेण वारयामास वै गुहः ।
रथं धनुश्च चिच्छेद शङ्खचूडस्य लीलया ॥ १४ ॥
सवाहं सारथिं चैव किरीटं मुकुटोज्ज्वलम् ।
चिक्षेप शक्तिमुल्काभां दानवेन्द्रस्य वक्षसि ॥ १५ ॥
मूर्च्छां संप्राप्य राजोपलभ्य वै चेतनां पुनः ।
आरुह्य वै यानमन्यं धनुर्जग्राह सत्वरः ॥ १६ ॥
चकार शरजालं च मायया मायिनां वरः ।
गुहं चाऽऽच्छाद्य समरे शरजालेन नारद ॥ १७ ॥
जग्राह शक्तिमव्यर्थां शतसूर्यसमप्रभाम् ।
प्रलयाग्निशिखारूपां विष्णोर्वै तेजसाऽऽवृताम् ॥ १८ ॥
चिक्षेप तां च कोपेन महावेगेन कार्तिके ।
पपात शक्तिस्तद्गात्रे वह्निराशिरिवोज्ज्वला ॥ १९ ॥
मूर्च्छां संप्राप शक्त्या च कार्तिकेयो महाबलः ।
काली गृहीत्वा तं क्रोडे निनाय शिवसंनिधौ ॥ २० ॥
शिवस्तं दर्शनादेव जीवयामास लीलया ।
ददौ बलमनन्तं च स चोत्तस्थौ प्रतापवान् ॥ २१ ॥
शिवः स्वसैन्यं देवांश्च प्रेरयामास सत्वरः ।
दानवेन्द्रैः ससैन्यैश्च युद्धारम्भो बभूव ह ॥ २२ ॥
स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा ।
भास्करो युयुधे विप्रचित्तिना सह सत्वरः ॥ २३ ॥
दम्भेन सह चन्द्रश्च चकार समरं परम् ।
कालेश्वरेण कालश्च गोकर्णेन हुताशनः ॥ २४ ॥
कुबेरः कालकेयेन विश्वकर्मा मयेन च ।
भयंकरेण मृत्युश्च संहारेण यमस्तथा ॥ २५ ॥
कलविङ्केन वरुणश्चञ्चलेन समीरणः ।
बुधश्च घृतपुष्टेन रक्ताक्षेण शनैश्चरः ॥ २६ ॥
वमन्तो रत्नसारेण वसवो वर्चसां गणैः ।
अश्विनौ वै दीप्तिमता धूम्रेण नलकूबरः ॥ २७ ॥
धनुर्धरेण धर्मश्च मण्डूकाक्षेण मङ्गलः ।
शोभाकरेणैवेशानः पिठरेण च मन्मथः ॥ २८ ॥
उल्कामुखेन धूम्रेण खड्गेनापि ध्वजेन च ।
काञ्चीमुखेन पिण्डेन धूम्रेण सह नन्दिना ॥ २९ ॥
विश्वे देवाः पलाशेन चाऽऽदित्या युयुधुः परम् ।
एकादश महारुद्राश्चैकादश भयंकरैः ॥ ३० ॥
महामारी च युयुधे चोग्रदण्डादिभिः सह ।
नन्दीश्वरादयः सर्वे दानवानां गणैः सह ॥ ३१ ॥
युयुधुश्च महायुद्धे प्रलये च भयंकरे ।
वटमूले च शंभुश्च तस्थौ काल्या सुतेन च ॥ ३२ ॥
सर्वे च युयुधुः संन्यसमूहाः सततं मुने ।
रत्नसिंहासने रम्ये कोटिभिवनिवैः सह ॥ । ३३ ॥
उवास शंखचूडश्व रत्नभूषणभूषितः ।
शंकरस्य च योधाश्च युद्धे सर्वे पराजिताः ॥ ३४ ॥
देवाश्च दुद्रुवुः सर्वे भीताश्च क्षतविक्षताः ।
चकार कोपं स्कन्दश्च देवेभ्यश्चाभयं ददौ ॥ ३५ ॥
बलं सुरगणानां वै वर्धयामास तेजसा ।
स्वयमेकश्च युयुधे दानवानां गणैः सह ॥ ३६ ॥
अक्षौहिणीनां शतकं समरे स जघान ह ।
खर्परं पातयामास काली कमललोचना ॥ ३७ ॥
पपौ रक्तं दानवानां कुद्धा सा शतखर्परम् ।
दशलक्षं गजेन्द्राणां शतलक्षं च वाजिनाम् ॥ ३८ ॥
समादायैकहस्तेन मुखे चिक्षेप लीलया ।
कबन्धानां सहस्रं च ननर्त समरे मुने ॥ ३९ ॥
स्कन्दस्य शरजालेन दानवाः क्षतविक्षताः ।
भीताश्च दुद्रुवुः सर्वे महाबलपराक्रमाः ॥ ४० ॥
वृषपर्वा विप्रचित्तिर्दम्भश्चापि विकङ्कनः ।
स्कन्देन सार्धं युयुधुस्ते च सर्वे क्रमेण च ॥ ४१ ॥
काली जगाम समरमरक्षत्कार्तिकं शिवः ।
वीरास्तामनुजग्मुश्च ते च नन्दीश्वरादयः ॥ ४२ ॥
सर्वे देवाश्च गन्धर्वा यक्षराक्षसकिन्नराः ।
राज्यभाण्डाश्च बहुशः शतकोटिर्बलाहकाः ॥ ४३ ॥
सा च गत्वा च संग्रामं सिंहनादं चकार ह ।
देव्या वै सिंहनादेन प्रापुर्मूर्च्छां च दानवाः ॥ ४४ ॥
अट्टाट्टहासमशिवं चकार च पुनः पुनः ।
हृष्टा पपौ च माध्वीकं ननर्त रणमूर्धनि ॥ ४५ ॥
उग्रद्रंष्ट्रा चोग्रदण्डा कौट्टरी च पपौ मधु ।
योगिनीनां डाकिनीनां गणाः सुरगणादयः ॥ ४६ ॥
दृष्ट्वा कालीं शङ्खचूडः शीघ्रमाजि समाययौ ।
दानवाश्च भयं प्रापू राजा तेभ्योऽभयं ददौ ॥ ४७ ॥
काली चिक्षेप चाऽऽग्नेयं प्रलयाग्निशिखोपमम् ।
राजा निर्वापयामास वारुणेन स लीलया ॥ ४८ ॥
चिक्षेप वारुणं सा च तत्तीव्रं महदद्भुतम् ।
गन्धर्वेण च चिच्छेद दानवेन्द्रश्च लीलया ॥ ४९ ॥
वाहेश्वरं प्रचिक्षेप काली वह्निशिखोपमम् ।
राजा जघान तच्छीघ्रं वैष्णवेन च लीलया ॥ ५० ॥
नारायणास्त्रं सा देवी चिक्षिपे मन्त्रपूर्वकम् ।
राजा ननाम तं दृष्ट्वा चावरुह्य रथादहो ॥ ५१ ॥
ऊर्ध्वं जगाम तच्छस्त्रं प्रलयाग्निशिखोपमम् ।
पपात शंखचूडश्च भक्त्या वै दण्डवद्भुवि ।
ब्रह्मास्त्रं सा च चिक्षेप यत्नतो मन्त्रपूर्वकम् ॥ ५२ ॥
ब्रह्मास्त्रेण महाराजो निर्वाणं च चकार ह ।
चिक्षेपातीव दिव्यास्त्रं सा देवी मन्त्रपूर्वकम् ॥ ५३ ॥
राजा दिव्यास्त्रजालेन निर्वाणं च चकार ह ।
देवी चिक्षेप शक्ति च यत्नतो योजनायताम् ॥ ५४ ॥
राजा तीक्ष्णास्त्रजालेन शतखण्डं चकार ह ।
जग्राह मन्त्रपूर्वं च देवी पाशुपतं रुषा ॥ ५५ ॥
निक्षेप्तुं सा निषिद्धा च वाग्बभूवाशरीरिणी ।
मृत्युः पाशुपते नास्ति नृपस्य च महात्मनः ॥ ५६ ॥
यावदस्त्येव कण्ठेऽस्य कवचं हि हरेरिति ।
यावत्सतीत्वमस्तीह सत्याश्च नृपयोषितः ॥ ५७ ॥
तावदस्य जरा मृत्युर्नास्तीति ब्रह्मणो वरः ।
इत्याकर्ण्य महाकाली न तच्चिक्षेप सा सती ॥ ५८ ॥
शतलक्षं दानवानामग्रहील्लीलया क्रुधा ।
अत्तुं जगाम वेगेन शङ्खचूडं भयंकरी ॥ ५९ ॥
दिव्यास्त्रेण सुतीक्ष्णेन वारयामास दानवः ।
खड्गं चिक्षेप सा देवी ग्रीष्मसूर्योपमं परम् ॥ ६० ॥
दिव्यास्त्रैर्दानवेन्द्रोऽयं शतखण्डं चकार सः ।
पुनरत्तु महादेवी वेगेन च जगाम तम् ॥ ६१ ॥
सर्वसिद्धेश्वरः श्रीमान्ववृधे दानवेश्वरः ।
निवारयास च तां सर्वसिद्धेश्वरो वरः ॥ ६२ ॥
वेगेन मुष्टिना काली कोपयुक्ता भयंकरी ।
बभञ्जाथ रथं तस्य चाहनत्सारथिं सती ॥ ६३ ॥
सा च शूलं च चिक्षेप प्रलयाग्निशिखोपमम् ।
वामहस्तेन जग्राह शङ्खचूडं च लीलया ॥ ६४ ॥
मुष्ट्या जघान तं देवी महाकोपेन वेगतः ।
बभ्राम व्यथया दैत्यः क्षणं मूर्च्छामवाप ह ॥ ६५ ॥
क्षणेन चेतनां प्राप्य समुत्तस्थौ प्रतापवान् ।
न चक्रे बाहुयुद्धं स देव्या सह ननाम ताम् ॥ ६६ ॥
देव्याश्चास्त्रं च चिच्छेद चाग्रहीत्स्वेन तेजसा ।
नास्त्रं चिक्षेप तां भक्त्या मातृबुद्ध्या च वैष्णवः ॥ ६७ ॥
गृहीत्वा दानवं देवी भ्रामयित्वा पुनः पुनः ।
ऊर्ध्वं च प्रेरयामास महावेगेन कोपतः ॥ ६८ ॥
ऊर्ध्वात्पपात वेगेन शङ्खचूडः प्रतापवान् ।
निपत्य च समुत्तस्थौ स नत्वा भद्रकालिकाम् ॥ ६९ ॥
रत्नेन्द्रसारखचितं विमानाग्र्यं मनोहरम् ।
आरुरोह रथं हृष्टो न विश्रान्तो महारणे ॥ ७० ॥
क्षतजं दानवानां च मासं च विपुलं क्रुधा ।
पीत्वा भुक्तवा भद्रकाली ययौ सा शंकरान्तिकम् ॥ ७१ ॥
उवाच रणवृत्तान्तं पौर्वापर्यं यथाक्रमम् ।
श्रुत्वा जहास शंभुश्च दानवानां विनाशनम् ॥ ७२ ॥
लक्षं च दानवेन्द्राणामवशिष्टं रणेऽधुना ।
उद्वृत्तं भूभृता सार्धं तदन्यं भुक्तमीश्वरम् ॥ ७३ ॥
संग्रामं दानवेन्द्रं च हन्तुं पाशुपतेन वै ।
अवध्यस्तव राजेति वाग्बभूवाशरीरिणी ॥ ७४ ॥
राजेन्द्रश्च महाज्ञानी महाबलपराक्रमः ।
न च चिक्षेप मय्यस्त्रं चिच्छेद मम सायकम् ॥ ७५ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे तुलस्युपाख्याने
कालीशङ्खःचूडयुद्ध एकोनविंशोऽध्यायः ॥ १९ ॥
GO TOP
|