ब्रह्मवैवर्तपुराणम्
द्वितीयं प्रकृतिखण्डम् - अष्टादशोऽध्यायः
तुलस्युपाख्याने शिवशङ्खचूडसंवादः -
श्रीनारायण उवाच
श्रीकृष्णं मनसा ध्यात्वा राजा कृष्णपरायणः ।
ब्राह्मे मुहूर्ते चोत्थाय पुष्पतल्पान्मनोहरात् ॥ १ ॥
रात्रिवासः परित्यज्य स्नात्वा मङ्गलवारिणा ।
धौते च वाससी धृत्वा कृत्वा तिलकमुज्ज्वलम् ॥ २ ॥
चकाराऽऽह्निकमावश्यमभीष्टगुरुवन्दनम् ।
दध्याज्यं मधु लाजांश्च सोऽपश्यद्वस्तु मङ्गलम् ॥ ३।
रत्नश्रेष्ठं मणिश्रेष्ठं वस्त्रश्रेष्ठं च काञ्चनम् ।
ब्राह्मणेभ्यो ददौ भक्त्या यथा नित्यं च नारद ॥ ४ ॥
अमूल्यरत्नं यत्किंचिन्मुक्तामाणिक्यहीरकम् ।
ददौ विप्राय गुरुवे यात्रामङ्गलहेतवे ॥ ५ ॥
गजरत्नं चाश्वरत्नं धेनुरत्नं मनोहरम् ।
ददौ सर्वं दरिद्राय विप्रार्थं मङ्गलाय च ॥ ६ ॥
कोशागारसहस्रं च नगराणां त्रिलक्षकम् ।
ग्रामाणां शतकोटिं च ब्राह्मणेभ्यो ददौ मुदा ॥ ७ ॥
पुत्रं कृत्वा च राजेन्द्रं सुचन्द्रं दानवेषु च ।
पुत्रे समर्प्य भार्यां च राज्यं वै सर्वसंपदम् ॥ ८ ॥
प्रजानुचरसंघं च कोशौघं वाहनादिकम् ।
स्वयं संनाहयुक्तश्च धनुष्पाणिर्बभूव ह ॥ ९ ॥
भृत्यद्वाराक्रमेणैव स चक्रे सैन्यसंचयम् ।
अश्वानां च त्रिलक्षेण पञ्चलक्षेण हस्तिनाम् ॥ १ ० ॥
रथानामयुतेनैव धानुष्काणां त्रिकोटिभिः ।
त्रिकोटिभिश्चर्मिणां च शूलिनां च त्रिकोटिभिः ॥ ११ ॥
कृता सेनाऽपरिमिता दानवेन्द्रेण नारद ।
तस्यां सेनापतिश्चैको युद्धशास्त्रविशारदः ॥ १२ ॥
महारथः स विज्ञेयो रथिनां प्रवरो रणे ।
त्रिलक्षाक्षौहिणीसेनापति कृत्वा नराधिपः ॥ १३ ॥
त्रिंशदक्षोहिणीवाद्यभाण्डौघं च चकार सः ।
बहिर्बभूव शिबिरान्मनसा श्रीहरिं स्मरन् ॥ १४ ॥
रत्नेन्द्रसारखचितं विमानं ह्यारुरोह सः ।
गुरुवर्गान्पुरस्कृत्य प्रययौ शंकरान्तिकम् ॥ १५ ॥
पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः।
सिद्धाश्रमं च सिद्धानां सिद्धिक्षेत्रं च नामतः ॥ १६ ॥
कपिलस्य तपः स्थानं पुण्यक्षेत्रं च भारते ।
पश्चिमोदधिपूर्वे च मलयस्य च पश्चिमे ॥ १७ ॥
श्रीशैलोत्तरभागे च गन्धमादनदक्षिणे ।
पञ्चयोजनविस्तीर्णा दैर्घ्ये शतगुणा तथा ॥
शाश्वती जलपूर्णा च पुष्पभद्रा नदौ शुभा ॥ १८ ॥
लवणोदप्रिया भार्या शश्वत्सौभाग्यसंयुता ।
शुद्धस्फटिकसंकाशा भारते च सुपुण्यदा ॥ १९ ॥
शरावतीमिश्रिता च निर्गता सा हिमालयात्।
गोमन्तं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ ॥ २० ॥
सत्र गत्वा शङ्खचूडो लुलोके चन्द्रशेखरम् ।
वटमूले समासीनं सूर्यकोटिसमप्रभम् ॥ २१ ॥
कृत्वा योगासने स्थित्वा मुद्रायुक्तं च सस्मितम् ।
शुद्धस्फटिसकाशं ज्यलंतं ब्रह्मतेजसा ॥ २२ ॥
त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं वरम् ।
तप्तकाञ्चनवर्णाभं जटाजालं च बिभ्रतम् ॥ २३ ॥
त्रिनेत्रं पञ्चवक्त्रं च नागयज्ञोपवीतिनम् ।
मृत्युंजयं कालमृत्युं विश्वमृत्युकरं परम् ॥ २४ ॥
भक्तमृत्युहरं शान्तं गौरीकान्तं मनोरमम् ।
तपसां फलदातारं दातारं सर्वसंपदाम् ॥ २५ ॥
आशुतोषं प्रसन्नास्यं भक्तानुग्रहकारकम् ।
विश्वनाथ विश्वरूपं विश्वबीजं च विश्वजम् ॥ २६ ॥
विश्वंभरं विश्ववरं विश्वसंहारकारणम् ।
कारणं कारणानां च नरकार्णवतारणम् ॥ २७ ॥
ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् ।
अवरुह्य विमानाच्च तं दृष्ट्वा दानवेश्वरः ॥ २८ ॥
सर्वैः सार्धं भक्तियुक्तः शिरसा प्रणनाम सः ।
वामतो भद्रकाली च स्कन्दं तत्पुरतः स्थितम् ॥ २९ ॥
आशिषं च ददौ तस्मै काली स्कन्दश्च शंकरः ।
उत्तस्थुर्दानवं दृष्ट्वा सर्वे नन्दीश्वरादयः ॥ ३० ॥
परस्परं च संभाषां ते चक्रुस्तत्र सांप्रतम् ।
राजा कृत्वा च संभाषामुवास शिवसंनिधौ ॥ ३ १ ॥
प्रसन्नात्मा महादेवो भगवांस्तमुवाच ह ॥ ३२ ॥
श्रीमहादेव उवाच
विधाता जगतां ब्रह्मा पिता धर्मस्य धर्मवित् ।
मरीचिस्तस्य पुत्रश्च वैष्णवश्चापि धार्मिकः ॥ ३३ ॥
कश्यपश्चापि तत्पुत्रो धर्मिष्ठश्च प्रजापतिः ।
दक्षः प्रीत्या ददौ तस्मै भक्त्या कन्यास्त्रयोदश ॥ ३४ ॥
तास्येका च दनुः साध्वी तत्सौभाग्येन वर्धिता ।
चत्वारिंशद्दनोः पुत्रा दानवास्तेजसोज्ज्वलः ॥ ३५ ॥
तेष्वेको विप्रचित्तिश्च महाबलपराक्रमः ।
तत्पुत्रो धार्मिको दम्भो विष्णुभक्तो जितेन्द्रियः ॥ ३६ ॥
जजाप परमं मन्त्रं पुष्करे लक्षवत्सरम् ।
शुक्राचार्यं गुरुं कृत्वा कृष्णस्य परमात्मनः ॥ ३७ ॥
तदा त्वां तनयं प्राप परं कृष्णपरायणम् ।
पुरा त्वं पार्षदो गोपो गोपेष्वष्टसु धार्मिकः ॥ ३८ ॥
यधुना राधिकाशापाद्भारते दानवेश्वरः ।
आब्रह्मस्तम्बपर्यन्तं भ्रमं मेने च वैष्णवः ॥ ३९ ॥
सालोक्यसार्ष्टिसारूप्यसामीप्यैक्यं हरेरपि ।
दीयमानं न गृह्णन्ति वैष्णवाः सेवनं विना ॥ ४० ॥
ब्रह्मत्वममरत्वं वा तुच्छं मेने च वैष्णवः ।
इन्द्रत्वं वा कुबेरत्वं न मेने गणनासु च ॥ ४१ ॥
कृष्णभक्तस्य ते किं वा देवानां विषये ममे ।
देहि राज्यं च देवानां मत्प्रीतिं कुरु भूमिप ॥ ४२ ॥
सुखं स्वराज्ये त्वं तिष्ठ देवाः सन्तु स्वके पदे ।
अलं भ्रातृविरोधेन सर्वे कश्यपवंशजाः ॥ ४३ ॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।
ज्ञातिद्रोहस्य पापस्य कलां नार्हन्ति षोडशीम् ॥ ४४ ॥
स्वसंपदां च हानिं च यदि राजेन्द्र मन्यसे ।
सर्वावस्थासु समता केषां याति च सर्वदा ॥ ४५ ॥
ब्रह्मणश्च तिरोभावो लये प्राकृतिके सति ।
आविर्भावः पुनस्तस्य प्रभवेदीश्वरेच्छया ॥ ४६ ॥
ज्ञानं बुद्धिश्च तपसा स्मृतिर्लोकस्य निश्चितम् ।
करोति सृष्टिं ज्ञानेन स्रष्टा सोऽपि क्रमेण च ॥ ४७ ॥
परिपूर्णतमो धर्मः सत्ये सत्याश्रयः सदा ।
सोऽपि त्रिभागस्त्रेतायां द्विभागो द्वापरे स्मृतः ॥ ४८ ॥
एकभागः कलेः पूर्वे तद्ध्रासश्च क्रमेण च ।
कलामात्रं कलेः शेषे कुह्वां चन्द्रकला यथा ॥ ४९ ॥
यादृक्तेजो रवेर्ग्रीष्मे न तादृक्शिशिरे पुनः ।
दिने च यादृङ्मध्याह्ने सायं प्रातर्न तत्समम् ॥ ५० ॥
उदयं याति कालेन बालतां च क्रमेण च ।
प्रकाण्डतां च तत्पश्चात्कालेऽस्तं पुनरेव सः ॥ ५१ ॥
दिने प्रच्छन्नतां याति काले वै दुर्दिने घने ।
राहुग्रस्ते कम्पितश्च पुनरेव प्रसन्नताम् ॥ ५२ ॥
परिपूर्णतमश्चन्द्रः पूर्णिमायां च यादृशः ।
तादृशो न भवेन्नित्यं क्षयं याति दिने दिने ॥ ५३ ॥
पुनः स पुष्टता याति परकुह्वा दिने दिने ।
संपद्युक्तः शुक्लपक्षे कृष्णे म्लानश्च यक्ष्मणा ॥ ५४ ॥
राहुग्रस्ते दिने म्लानो दुर्दिने निबिडे घने ।
काले चन्द्रो भवेच्छुद्धो भ्रष्टश्रीः कालभेदके ॥ ५५ ॥
भविष्यति बलिश्चेन्द्रो भ्रष्टश्रीः सुतलेऽधुना ।
कालेन पृथ्वी सस्याढ्या सर्वाधारा वसुंधरा ॥ ५६ ॥
काले जले निमग्ना सा तिरोभूता विपद्गता ।
काले नश्यन्ति विश्वानि प्रभवन्त्येव कालतः ॥ ५७ ॥
चराचराश्च कालेन नश्यन्ति प्रभवन्ति च ।
ईश्वरस्यैव समता कृष्णस्य परमात्मनः ॥ ५८ ॥
अहं मृत्युंजयो यस्मादसंख्यं प्राकृतं लयम् ।
अदृश्यं चापि पश्यामि वारं वारं पुनः पुनः ॥ ५९ ॥
स च प्रकृतिरूपश्च स एव पुरुषः स्मृतः ।
स चाऽत्मा सर्वजीवश्च नानारूपधरः परः ॥ ६० ॥
करोति सततं यो हि तन्नामगुणकीर्तनम् ।
कालं मृत्युं स जयति जन्म रोगं जरां भयम् ॥ ६१ ॥
स्रष्टा कृतो विधिस्तेन पाता विष्णुः कृतो भवे ।
अहं कृतश्च संहर्ता वयं विषयिणो यतः ॥ ६२ ॥
कालाग्निरुद्रं संहारे नियुज्य विषये नृप ।
अहं करोमि सततं तन्नामगुणकीर्तनम् ॥ ६३ ॥
तेन मृत्युंजयोऽहं च ज्ञानेनानेन निर्भयः ।
मृत्युर्मत्तो भयाद्याति वैनतेयादिवोरगः ॥ ६४ ॥
इत्युक्त्या स च सर्वेशः सर्वज्ञः सर्वभावनः ।
विररामाथ शर्वश्च सभामध्ये च नारद ॥ ६५ ॥
राजा तद्वचनं श्रुत्वा प्रशशंस पुनः पुनः ।
उवाच सुन्दरं देवं परं विनयपूर्वकम् ॥ ६६ ॥
शङ्खचूड उवाच
त्वया यत्कथितं नाथ सर्वं सत्यं च नानृतम् ।
तथाऽपि किंचिद्यत्सत्यं श्रूयतां मन्निवेदनम् ॥ ६७ ॥
ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना त्रयम् ।
गृहीत्वा तस्य सर्वस्वं कुतः प्रस्थापितो बलिः ॥ ६८ ॥
मया समुद्धृतं सर्वमैश्वर्यं विक्रमेण च ।
सुतलाच्च समुद्धर्तुं नालं सोऽपि गदाधरः ॥ ६९ ॥
सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः ।
शुम्भादयश्चासुरा वै कथं देवैर्निपातिताः ॥ ७० ॥
पुरा समुद्रमथने पीयूषं भक्षितं सुरैः ।
क्लेशभाजो वयं तत्र ते सर्वे फलभागिनः ॥ ७१ ॥
क्रीडाभाण्डमिदं विश्वं कृष्णस्य परमात्मनः ।
यदा ददाति यस्मै स तस्यैश्वर्यं भवेत्तदा ॥ ७२ ॥
देवदानवयोर्वादः शश्वन्नैमित्तिकः सदा ।
पराजयो जयस्तेषां कालेऽस्माकं क्रमेण च ॥ ७३ ॥
तत्राऽऽवयोर्विरोधे च गमनं निष्फलं तव ।
समसंबधिनोर्बन्ध्वोरीश्वरस्य महात्मनः ॥ ७४ ॥
जायते महती लज्जा स्पर्धाऽस्माभिः सहाधुना ।
ततोऽधिका च समरे कीर्तिहानिः पराजये ॥ ७५ ॥
शंखचूडवचः श्रुत्वा प्रहस्याऽऽह त्रिलोचनः ।
यथोचितं सुमधुरमत्युग्रं दानवेश्वरम् ॥ ७६ ॥
श्रीमहादेव उवाच
युष्माभिः सह युद्धं मे ब्रह्मवंशसमुद्भवैः ।
का लज्जा महती राजन्नकीतिर्वा पराजये ॥ ७७ ॥
युद्धमादौ हरेरेव मधुना कैटभेन च ।
हिरण्यकशिपोश्चैव सह तेनाऽत्मना नृप ॥ ७८ ॥
हिरण्याक्षस्य युद्धं च पुनस्तेन गदाभृता ।
त्रिपुरैः सह युद्धं च मया चापि पुरा कृतम् ॥ ७९ ॥
सर्वेश्वर्याः सर्वमातुः प्रकृत्याश्च बभूव ह ।
सह शुम्भादिभिः पूर्वं समरं परमाद्भुतम् ॥ ८० ॥
पार्षदप्रवरस्त्वं च कृष्णस्य परमात्मनः ।
ये ये हताश्च ते दैत्या नहि केऽपि त्वया समाः ॥ ८१ ॥
का लज्जा महती राजन्मम युद्धे त्वया सह ।
सुराणां शरणस्यैव प्रेषितस्य हरेरहो ॥ ८२ ॥
देहि राज्यं च देवानां वाग्व्यये किं प्रयोजनम् ।
युद्धं वा कुरु मत्सार्धमिति मे निश्चितं वचः ॥ ८३ ॥
इत्युकवा शंकरस्तत्र विरराम च नारद ।
उत्तस्थौ शङ्खचूडश्च स्वामात्यैः सह सत्वरः ॥ ८४ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे तुलस्युपाख्याने
शिवशङ्खचूडसंवादो नामाष्टादशोऽध्यायः ॥ १८ ॥
GO TOP
|