ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - चतुर्दशोऽध्यायः

तुलस्युपाख्याने वेदवतीप्रस्तावः -


नारायण उवाच
लक्ष्मीं तौ च समाराध्य चोग्रेण तपसा मुने ।
प्रत्येकं वरमिष्टं च संप्रापतुरभीप्सितम् ॥ १ ॥
महालक्ष्म्या वरेणैव तौ पृथ्वीशौ बभूवतुः ।
धनवन्तौ पुत्रवन्तौ धर्मध्वजकुशध्वजौ ॥ २ ॥
कुशध्वजस्य पत्‍नी व देवी मालावती सती ।
सा सुषाव च कालेन कमलांशां सुतां सतीम् ॥ ३ ॥
सा च भूतलसंबन्धाज्ज्ञानयुक्ता बभूव ह ।
कृत्वा वेदध्वनिं स्पष्टमुत्तस्थौ सूतिकागृहे ॥ ४ ॥
वेदध्वनिं सा चकार जातमात्रेण कन्यका ।
तस्मात्तां ते वेदवती प्रवदन्ति मनीषिणः ॥ ५ ॥
जातमात्रेण सुस्‍नाता जगाम तपसे वनम् ।
सर्वैर्निषिद्धा यत्‍नेन नारायणपरायणा ॥ ६ ॥
एकमन्वन्तरं चैव पुष्करे च तपस्विनी ।
अत्युग्रां वै तपस्यां तु लीलया च चकार सा ॥ ७ ॥
तथाऽपि पुष्टा न कृशा तवयौवनसंयुता ।
शुश्राव खे च सहसा सा वाचमशरीरिणीम् ॥ ८ ॥
जन्मान्तरे ते भर्ता च भविष्यति हरिः स्वयम् ।
ब्रह्मादिभिर्दुराराध्यं पतिं लप्स्यसि सुन्दरि ॥ ९ ॥
इति श्रुत्वा तु सा रुष्टा चकार च पुनस्तपः ।
अतीव निर्जनस्थाने पर्वते गन्धमादने ॥ १० ॥
तत्रैवं सुचिरं तप्त्वा विश्वस्य समुवास सा ।
ददर्श पुरतस्तत्र रावणं दुर्निवारणम् ॥ ११ ॥
दृष्ट्‍वा साऽतिथिभक्त्या च पाद्यं तस्मै ददौ किल ।
सुस्वादु फलमूलं च जलं चापि सुशीतलम् ॥ १२ ॥
तच्च भुक्त्वा स पापिष्ठश्चावासीत्तत्समीपतः ।
चकार प्रश्नमिति तां का त्वं कल्याणि चेति च ॥ १३ ॥
तां च दृष्ट्‍वा वरारोहां पीनोन्नतपयोधराम् ।
शरत्पद्मनिभास्यां च सस्मितां सुदतीं सतीम् ॥ १४ ॥
मूर्च्छामवाप कृपणः कामबाणप्रपीडितः ।
तां करेण समाकृष्य संभोगं कर्तुमुद्यतः ॥ १५ ॥
सा सती कोपदृष्ट्या च स्तम्भितं तं चकार ह ।
स जडो हस्तपादैश्च किञ्चिद्‍वक्तुं न च क्षमः ॥ १६ ॥
तुष्टाव मनसा देवीं पद्मांशां पद्मलोचनाम् ।
सा तत्स्तवेन संतुष्टा प्राकृतं तं मुमोच ह ॥ १७ ॥
शशाप च मदर्थे त्वं विनश्यसि सबान्धवः ।
स्पृष्टाऽहं च त्वया कामाद्विसृजाम्यवलोकय ॥ १८ ॥
इत्युक्त्वा सा च योगेन देहत्यागं चकार ह ।
गङ्गायां तां च संन्यस्य स्वगृहं रावणो ययौ ॥ १९ ॥
अहो किमद्‌भुतं दृष्टं किं कृतं वा मयाऽधुना ।
इति संचिन्त्य संस्मृत्य विललाप पुनः पुनः ॥ २० ॥
सा च कालान्तरे साध्वी बभूव जनकात्मजा ।
सीतादेवीति विख्याता यदर्थे रावणो हतः ॥ २१ ॥
महातपस्विनी सा च तपसा पूर्वजन्मनः ।
लेभे रामं च भर्तारं परिपूर्णतमं हरिम् ॥ २२ ॥
संप्राप्य तपसाऽऽराध्य स्वामिनं च जगत्पतिम् ।
सा रमा सुचिरं रेमे रामेण सह सुन्दरी ॥ २३ ॥
जातिस्मरा स्म स्मरति तपसश्च क्रमं पुरा ।
सुखेन तज्जहौ सर्वं दुःखं चापि सुखं फले ॥ २४ ॥
नानाप्रकारविभवं चकार सुचिरं सती ।
संप्राप्य सुकुमारं तमतीव नवयौवनम् ॥ २५ ॥
गुणिनं रसिकं शन्तं कान्तवेषमनुत्तमम् ।
स्त्रीणां मनोज्ञं रुचिरं तथा लेभे यथेप्सितम् ॥ २६ ॥
पितुर्वचः पालनार्थं सत्यसंधो रघूत्तमः ।
जगाम काननं पश्चात्कालेन च बलीयसा ॥ २७ ॥
तस्थौ समुद्रनिकटे सीतया लक्ष्मणेन च ।
ददर्श तत्र वह्निं च विप्ररूपधरं हरिः ॥ २८ ॥
यं रामं दुःखितं दृष्ट्‍वा स च दुःखी बभूव ह ।
उवाच किञ्चित्सत्येष्टं सत्यं सत्यपरायणः ॥ २९ ॥
वह्निरुवाच
भगवन्छ्रूयतां वाक्यं कालेन यदुपस्थितम् ।
सीताहरणकालोऽयं तवैव समुपस्थितः ॥ ३० ॥
दैवं च दुर्निवार्यं वै न च दैवात्परं बलम् ।
मत्प्रसूं मयि संन्यस्य च्छायां रक्षान्तिकेऽधुना ॥ ३१ ॥
दास्यामि सीतां तुभ्यं च परीक्षासमये पुनः ।
देवैः प्रस्थापितोऽहं च न च विप्रो हुताशनः ॥ ३२ ॥
रामस्तद्वचनं श्रुत्वा न प्रकाश्य च लक्ष्मणम् ।
स्वछन्दं स्वीचकारासौ हृदयेन विदूयता ॥ ३३ ॥
वह्नियोगेन सीतावन्मायासीता चकार ह ।
तत्तुल्यगुणरूपाङ्‌गीं ददौ रामाय नारद ॥ ३४ ॥
सीतां गृहीत्वा स ययौ गोप्यं वक्तुं निषेध्य च ।
लक्ष्मणो नैव बुबुधे गोप्यमन्यस्य का कथा ॥ ३५ ॥
एतस्मिन्नन्तरे रामो ददर्श कनकं मृगम् ।
सीता तं प्रेरयामास तदर्थे यत्‍नपूर्वकम् ॥ ३६ ॥
संन्यस्य लक्ष्मणं रामो जानक्या रक्षणे वने ।
स्वयं जगाम हन्तुं तं विव्यधे सायकेन च ॥ ३७ ॥
लक्ष्मणेति च शब्दं वै कृत्वा मायामृगस्तदा ।
प्राणांस्तत्याज सहसा पुरो दृष्ट्‍वा हरिं स्मरन् ॥ ३८ ॥
मृगरूपं परित्यज्य दिव्यरूपं विधाय च ।
रत्‍ननिर्मितयानेन वैण्कुठ स जगाम ह ॥ ३९ ॥
वैकुण्ठस्य महाद्वारे किंकरो द्वारपालयोः ।
जयविजययोश्चैव बलवांश्च जयाभिधः ॥ ४० ॥
शापेन सनकादीनां संप्राप्य राक्षसीं तनुम् ।
पुनर्जगाम तद्‌द्वारमादौ स द्वारपालयोः ॥ ४१ ॥
अथ शब्दं च सा श्रुत्वा लक्ष्मणेति च विक्लवम् ।
सीता तं प्रेरयामास लक्ष्मणं रामसंनिधौ ॥ ४२ ॥
गते च लक्ष्मणे रामं रावणो दुर्निवारणः ।
सीतां गृहीत्वा प्रययो लङ्कामेव स्वलीलया ॥ ४३ ॥
विषसाद च रामश्च वने दृष्ट्‍वा च लक्ष्मणम् ।
तूर्णं च स्वाश्रमं गत्वा सीतानैव ददर्श सः ॥ ४४ ॥
मूर्छां संप्राप्य सुचिरं विललाप भृशं पुनः ।
पुनर्बभ्राम गहने तदन्वेषणपूर्वकम् ॥ ४५ ॥
काले संप्राप्य तद्वार्तां गृध्रद्वारा नदीतटे ।
सहायं वानरं कृत्वा बबन्धे सागरं हरिः ॥ ४६ ॥
लङ्कां गत्वा रघुश्रेष्ठो जघान सायकेन च ।
सबान्धवं रावणं च सीतां संप्राप्य दुःखिताम् ॥ ४७ ॥
तां च वह्निपरीक्षां वै कारयामास सत्वरम् ।
हुताशनस्तत्र काले वास्तवी जानकीं ददौ ॥ ४८ ॥
छाया चोवाच वह्निं च रामं च विनयान्विता ।
करिष्यामीति किमहं तदुपायं वदस्व मे ॥ ४९ ॥
वह्निरुवाच
त्वं गच्छ तपसे देवि पुष्करं च सुपुण्यदम् ।
कृत्वा तपस्यां तत्रैव स्वर्गलक्ष्मीर्भविष्यसि ॥ ५० ॥
सा च तद्वचनं श्रुत्वा प्रणम्य पुष्करे तपः ।
कृत्वा त्रिलक्षवर्षं च स्वर्गे लक्ष्मीर्बभूव ह ॥ ५१ ॥
सा च कालेन तपसा यज्ञकुण्डसमुद्‌भवा ।
कामिनी पाण्डवानां च द्रौपदी द्रुपदात्मजा ॥ ५२ ॥
कृतयुगे वेदवती कुशध्वजसुता शुभा ।
त्रेतायां रामपत्‍नी च सीतेति जनकात्मजा ॥ ५३ ॥
तच्छाया द्रौपदी देवी द्वापरे द्रुपदात्मजा ।
त्रिहायणीति सा प्रोक्ता विद्यमाना युगत्रये ॥ ५४ ॥
नारद उवाच
ं प्रियाः पञ्च कथं तस्या बभूवुर्मुनिपुंगव ।
इति मे चित्तसंदेह दूरं कुरु महाप्रभो ॥ ५५ ॥
श्रीनारायण उवाच
लङ्कायां वास्तवी सीता रामं संप्राप नारद ।
रूपयौवनसंपन्ना छाया सा बहु विह्वला ॥ ५६ ॥
रामाग्न्योराज्ञया तप्त्वा ययाचे शंकरं वरम् ।
कामातुरा पतिव्यग्रा प्रार्थयन्ती पुनः पुनः ॥ ५७ ॥
पतिं देहि पतिं देहि पतिं देहि त्रिलोचन ।
पतिं देहि पतिं देहि पञ्चवारं चकार सा ॥ ५८ ॥
शिवस्तत्प्रार्थनां श्रुत्वा सस्मितो रसिकेश्वरः ।
प्रिये तव प्रियाः पञ्च भवन्त्विति वरं ददौ ॥ ५९ ॥
तेनाऽऽसीत्पाण्डवानां च पञ्चानां कामिनी प्रिया ।
इत्येवं कथितं सर्वं प्रस्तुतं वस्तुतः शृणु ॥ ६० ॥
अथ संप्राप्य लङ्कायां सीतां रामो मनोहराम् ।
विभीषणाय तां लङ्कां दत्त्वाऽयोध्यां ययौ पुनः ॥ ६१ ॥
एकादशसहस्राब्दं कृत्वा राज्यं च भारते ।
जगाम सर्वैर्लोकैश्च सार्धं वैकुण्ठमेव च ॥ ६२ ॥
कमलांशा वेदवती कमलायां विवेश सा ।
कथितं पुण्यमाख्यानं पुण्यदं पापनाशनम् ॥ ६३ ॥
सततं मूर्तिमन्तश्च वेदाश्चत्वार एव च ।
सन्ति यस्याश्च जिह्वाग्रे सा च वेदवती स्मृता ॥ ६४ ॥
कुशध्वजसुताख्यानमुक्तं संक्षेपतस्तव ।
धर्मध्वजसुताख्यानं निबोध कथयामि ते ॥ ६५ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
तुलस्युपाख्याने वेदवतीप्रस्तावोनाम चतुर्दशोऽध्यायः ॥ १४ ॥


GO TOP