ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - त्रयोदशोऽध्यायः

तुलस्युपाख्यानम् -


नारद उवाच
नारायणप्रिया साध्वी कथं सा च बभूव ह ।
तुलसी कुत्र संभूता का वा सा पूर्वजन्मनि ॥ १ ॥
कस्य वा सा कुले जाता कस्य कन्या तपस्विनी ।
केन वा तपसा सा च संप्राप प्रकृतेः परम् ॥ २ ॥
निर्विकल्पं निरीहं च सर्वसाक्षिस्वरूपकम् ।
नारायणं परं ब्रह्म परमात्मानमीश्वरम् ॥ ३ ॥
सर्वाराध्यं च सर्वेशं सर्वज्ञं सर्वकारणम् ।
सर्वाधारं सर्वरूपं सर्वेषां परिपालकम् ॥ ४ ॥
कथमेतादृशी देवी वृक्षत्वं समवाप ह ।
कथं साऽप्यसुरग्रस्ता संबभूव तपस्विनी ॥ ५ ॥
संदिग्धं मे मनो लोलं प्रेरयेन्मां मुहुर्मुहुः ।
छेत्तुमर्हसि संदेहं सर्वसंदेहभञ्जन ॥ ६ ॥
श्रीनारायण उवाच
मनुश्च दक्षसावर्णिः पुण्यवान्वैष्णवः शुचिः ।
यशस्वी कीर्तिमांश्चैव विष्णोरंशसमुद्‌भवः ॥ ७ ॥
तत्पुत्रो धर्मसावर्णिर्धर्मिष्ठो वैष्णवः शुचिः ।
तत्पुत्रो विष्णुसावर्णिवैष्णवश्च जितेन्द्रियः ॥ ८ ॥
तत्पुत्रो देवसावर्णिर्विष्णुव्रतपरायणः ।
तत्पुत्रो राजसावर्णिर्महाविष्णुपरायणः ॥ ९ ॥
वृषध्वजश्च तत्पुत्रो वृषध्वजपरायणः ।
यस्याऽऽश्रमे स्वयं शंभुरासीद्‌देवयुगत्रयम् ॥ १० ॥
पुत्रादपि परः स्नेहो नृपे तस्मिञ्छिवस्य च ।
न च नारायणं मेने न च लक्ष्मीं सरस्वतीम् ॥ ११ ॥
पूजां च सर्वदेवानां दूरीभूता चकार सः ।
भाद्रे मासि महालक्ष्मी पूजां मत्तोऽत्यजन्नृपः ॥ १२ ॥
माघे सरस्वतीपूजां दूरीभूतां चकार सः ।
यज्ञं च विष्णुपूजां च निनिन्दे न चकार सः ॥ १३ ॥
न कोऽपि देवो भूपेन्द्रं शशाप शिवकारणात् ।
भ्रष्टश्रीर्भव भूपेति चाशपत्तं दिवाकरः ॥ १४ ॥
शूलं गृहीत्वा तं सूर्यं धृतवाञ्छकरः स्वयम् ।
पित्रा सार्धं दिनेशश्च ब्रह्माणं शरणं ययौ ॥ १५ ॥
शिवस्त्रिशूलहस्तश्च ब्रह्मलोकं ययौ क्रुधा ।
ब्रह्मा सूर्यं पुरस्कृत्य वैकुण्ठं च ययौ भिया ॥ १६ ॥
शूलं गृहीत्वा तत्रापि धृतवाञ्छंकरो रविम् ।
ब्रह्मकश्यपमार्तण्डाः संत्रस्ताः शुष्कतालुकाः ॥ १७ ॥
नारायणं च सर्वेशं ते ययुः शरणं भिया ।
मूर्ध्ना प्रणेमुस्ते गत्वा तुष्टुवुश्च पुनः पुनः ॥ १८ ॥
सर्वे निवेदनं चक्रुर्भियस्ते कारणं हरौ ॥ १९ ॥
नारायणश्च कृपयाऽभयं तेभ्यो ददौ मुने ।
स्थिरा भवत हे भीता भयं किं वो मयि स्थिते ॥ २० ॥
स्मरन्ति ये यत्र यत्र मां विपत्तौ भयान्विताः ।
तांस्तत्र गत्वा रक्षामि चक्रहस्तस्त्वरान्वितः ॥ २१ ॥
पाताऽहं जगतां देवाः कर्ताऽहं सततं सदा ।
स्रष्टा च ब्रह्मरूपेण संहर्ता शिवरूपतः ॥ २२ ॥
शिवोहं त्वमहं चापि सूर्योऽहं त्रिगुणात्मकः ।
विधाय नानारूपं च कुर्या सृष्ट्यादिकाः क्रियाः ॥ २३ ॥
यूयं गच्छत भद्रं वो भविष्यति भयं कुतः ।
अद्यप्रभृति वो नास्ति मद्वराच्छंकराद्‌भयम् ॥ २४ ॥
आशुतोषः स भगवाञ्छंकरश्च सतां गतिः ।
भक्ताधीनश्च भक्तेशो भक्तात्मा भक्तवत्सलः ॥ २५ ॥
सुदर्शनं शिवश्चैव मम प्राणाधिकप्रियौ ।
ब्रह्माण्डेषु न तेजस्वी हे ब्रह्मन्ननयोः परः ॥ २६ ॥
शस्तः स्रष्टुं महादेवः सूर्यकोटिं च लीलया ।
कोटिं च ब्रह्मणामेवं किमसाध्यं च शूलिनः ॥ २७ ॥
बाह्यज्ञानं तत्र किंचिद्ध्यायतो मां दिवानिशम् ।
मन्नाम मद्‌गुणं भक्त्या पञ्चवक्त्रेण गीयते ॥ २८ ॥
अहमेवं चिन्तयामि तत्कल्याणं दिवानिशम् ।
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ॥ २९ ॥
शिवस्वरूपो भगवाञ्छिवाधिष्ठातृदेवता ।
शिवो भवति यस्माच्च शिवं तेन विदुर्बुधाः ॥ ३० ॥
एतस्मिन्नन्तरे तत्र चागमच्छंकरः स्वयम् ।
शूलहस्तो वृषारूढो रक्तपङ्‍कजलोचनः ॥ ३१ ॥
अवरुह्य वृषात्तूर्णं भक्तिनम्रात्मकंधरः ।
नमाम भक्त्या तं शान्तं लक्ष्मीकान्तं परात्परम् ॥ ३२ ॥
रत्‍नसिंहासनस्थं च रत्‍नालंकारभूषितम् ।
किरीटिनं कुण्डलिनं चक्रिणं वनमालिनम् ॥ ३३ ॥
नवीननीरदश्यामं सुन्दरं च चतुर्भुजम् ।
चतुर्भुजैः सेवितं च श्वेतचामरवायुना ॥ ३४ ॥
चन्दनोक्षितसर्वाङ्गं भूषितं पीतवाससा ।
लक्ष्मीप्रदत्तताम्बूलं भुक्तवन्तं च नारद ॥ ३५ ॥
विद्याधरीनृत्यगीतं शृण्वन्तं सस्मितं मुदा ।
ईश्वरं परमात्मानं भक्तानुग्रहविग्रहम् ॥ ३६ ॥
तं ननाम महादेवो ब्रह्माणं च ननाम सः ।
ननाम सूर्यो भक्त्या च संत्रस्तश्चन्द्रशेखरम् ॥ ३७ ॥
कश्यपश्च महाभक्त्या तुष्टाव च नमाम च ।
शिवः संस्तूय सर्वेशं समुवास सुखासने ॥ ३८ ॥
सुखासने सुखासीनं विश्रान्तं चन्द्रशेखरम् ।
श्वेतचामरवातेन सेवितं विष्णुपार्षदैः ॥ ३९ ॥
अक्रोधं सत्त्वसंसर्गात्प्रसन्नं सस्मितं मुदा ।
स्तूयमानं पञ्चवक्त्रैः परं नारायणं विभुम् ॥ ४० ॥
तमुवाच प्रसन्नात्मा प्रसन्नं सुरसंसदि ।
पीयूषतुल्यं मधुरं वचनं सुमनोहरम ॥ ४१ ॥
श्रीभगवानुवाच
अत्यन्तमुपहास्यं च शिवप्रश्नं शिवेऽशिवम् ।
लौकिकं वैदिकं चैव त्वां पृच्छामि तथाऽपि शम् ॥ ४२ ॥
तपसां फलदातारं दातारं सर्वसंपदाम् ।
संपत्प्रश्नं तपःप्रश्नमयोग्यं त्वां च सांप्रतम् ॥ ४३ ॥
ज्ञानाधिदेवे सर्वज्ञे ज्ञानं पृच्छमि किं वृथा ।
निरापदि विपत्प्रश्नमलं मृत्युंजये हरे ॥ ४४ ॥
त्वामेवाऽऽगने प्रश्नमलं स्वाश्रममागमे ।
आगतोऽसि कथं वेगादित्युवाच रमापतिः ॥ ४५ ॥
श्रीमहादेव उवाच
वृषध्वजं च मद्‌भक्तं मम प्राणाधिकप्रियम् ।
सूर्यः शशाप इति मे हेतुरागमकोपयोः ॥ ४६ ॥
पुत्रवात्सल्यशोकेन सूर्ये हन्तुं समुद्यतः ।
स ब्रह्माणं प्रपन्नश्च ससूर्यश्च विधिस्त्वयि ॥ ४७ ॥
त्वां ये शरणमापन्ना ध्यानेन वचसाऽपि वा ।
निरापदस्ते निःशंका जरा मृत्युश्च तैर्जितः ॥ ४८ ॥
साक्षाद्ये शरणापन्नास्तत्फलं किं वदामि भोः ।
हरिस्मृतिश्चाभयदा सर्वमङ्गलदा सदा ॥ ४९ ॥
किं मे भक्तस्य भविता तन्मे ब्रूहि जगत्प्रभो ।
श्रीहतस्यास्य मूढस्य सूर्यशापेन हेतुना ॥ ५० ॥
श्रीभगवानुवाच
कालोऽतियातो दैवेन युगानामेकविंशतिः ।
वैकुण्ठे घटिकार्धेन शीघ्रं याहि नृपालयम् ॥ ५१ ॥
वृषध्वजो मृतः कालाद्‌दुर्निवार्यात्सुदारुणात् ।
हंसध्वजश्च तत्पुत्रो मृतः सोऽपि श्रिया हतः ॥ ५२ ॥
तत्पुत्रौ च महाभागौ धर्मध्वजकुशध्वजौ ।
हतश्रियौ सूर्यशापात्तो वै परमवैष्णवौ ॥ ५३ ॥
राज्यभ्रष्टौ श्रिया भ्रष्टौ कमलातापसावुभौ ।
तयोश्च भार्ययोर्लक्ष्मीः कलया च जनिष्यति ॥ ५४ ॥
संपद्युक्तौ तदा तौ च नृपश्रेष्ठौ भविष्यतः ।
मृतस्ते सेवकः शंभो गच्छ यूयं च गच्छत ॥ ५५ ॥
इत्युक्त्वा च सलक्ष्मीकः सभातोऽभ्यन्तरं गतः ।
देवा जग्मुश्च संहृष्टाः स्वाश्रमं परया मुदा ॥ ५६ ॥
शिवश्च तपसे शीघ्रं परिपूर्णतमो ययौ ॥ ५७ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे तुलस्युपाख्यानं नाम त्रयोदशोऽध्यायः ॥ १३ ॥


GO TOP