ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - पञ्चदशोऽध्यायः

तुलस्युपाख्याने तुलसीवरप्रदानम् -


श्रीनारायण उवाच
धर्मध्वजस्य पत्‍नी च माधवीति च विश्रुता ।
नृपेण सार्धं सा रागाद्‌रेमे वै गन्धमादने ॥ १ ॥
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिता ।
चन्दनोक्षितसर्वाङ्गी पुष्पचन्दनवायुना ॥ २ ॥
स्त्रीरत्‍नमतिचार्वङ्गी रत्‍नभूषणभूषिता ।
कामुकी रसिकश्रेष्ठा रसिकेशेन संगता ॥ ३ ॥
सुरताद्विरतिर्नाऽऽसीत्तयोः सुरतविज्ञयोः ।
गतं वर्षशतं दैवं न जानीतां दिवानिशम् ॥ ४ ॥
ततो राजा मतिं प्राप्य सुरताद्विरराम सः ।
कामुकी सुन्दरी किंचिन्न च तृप्ति जगाम सा ॥ ५ ॥
दधार गर्भं सा सद्यो देवाब्दशतकं सती ।
श्रीगर्भा श्रीयुता सा च संबभूव दिने दिने ॥ ६ ॥
शुभक्षणे शुभदिने शुभयोगेन संयुते ।
शुभलग्ने शुभांशे च शुभस्वामिग्रहान्विते ॥ ७ ॥
कार्तिकीपूर्णिमायां च सितवारे च पाद्मजे ।
सुषाव सा च पद्मांशां पद्मिनीं सुमनोहराम् ॥ ८ ॥
पादपद्मयुगे चैव पद्मरागविराजिताम् ।
राजराजेश्वरीं लक्ष्मीं सर्वावयवसुन्दरीम् ॥ ९ ॥
राजलक्षमीलक्ष्मयुक्तां राजलक्ष्म्यधिदेवताम् ।
शरत्पार्वणचन्द्रास्यां शरत्पङ्‍कजलोचनाम् ॥ १० ॥
पक्वबिम्बाधरोष्ठीं च पश्यन्तीं सस्मितां गृहम् ।
हस्तपादतलारक्तां निम्ननाभिं मनोरमाम् ॥ ११ ॥
तदधस्त्रिवलीयुक्तां वृत्तवल्गुनितम्बिनीम् ।
शीते सुखोष्णसर्वाङ्गीं ग्रीष्मे च सुखशीतलाम् ॥ १२ ॥
श्यामां सुकेशीं रुचिरां न्यग्रोधपरिमण्डलाम् ।
श्वेतचम्पकवर्णाभां सुन्दरीष्वेकसुन्दरीम् ॥ १३ ॥
नरा नार्यश्च तां दृष्ट्‍वा तुलनां दातुमक्षमा ।
तेन नाम्ना च तुलसी तां वदन्ति पुराविदः ॥ १४ ॥
सा च भूमिष्ठमात्रेण योग्या स्त्री प्रकृतिर्यथा ।
सर्वैर्निषिद्धा तपसे जगाम बदरीवनम् ॥ १५ ॥
तत्र दैवाब्दलक्षं च चकार परमं तपः ।
मम नारायणः स्वामी भवितेति विनिश्चिता ॥ १६ ॥
ग्रीष्मे पञ्चतपाः शीते तोयस्था सा च सुन्दरी ।
प्रकाशस्था वृष्टिधारां सहन्ती च दिवानिशम् ॥ १७ ॥
विंशत्सहस्रवर्षं च फलतोयाशना च सा ।
त्रिंशद्वर्षसहस्राब्दं पत्राहारा तपस्विनी ॥ १८ ॥
चत्वारिंशत्सहस्राब्दं वाय्वाहारा कृशोदरी ।
ततो दशसहस्राब्दं निराहारा बभूव सा ॥ १९ ॥
निर्लक्ष्यां चैकपादस्थां दृष्ट्‍वा तां कमलोद्‌भवः ।
समाययौ वरं दातुं परं बदरिकाश्रमम् ॥ २० ॥
चतुर्मुखं च सा दृष्ट्‍वा प्राणंसीद्धंसवाहनम् ।
तामुवाच जगत्कर्ता विधाता जगतामपि ॥ २१ ॥
ब्रह्मोवाच
वरं वृणुष्व तुलसि यत्ते मनसि वाञ्छितम् ।
हरिभक्तिं च मुक्तिं वाऽप्यजरामरतामपि ॥ २२ ॥
तुलस्युवाच
शृणु तात प्रवक्ष्यामि यन्मे मनसि वाञ्छितम् ।
सर्वज्ञस्यापि पुरतः का लज्जा मम सांप्रतम् ॥ २३ ॥
अहं च तुलसी गोपी गोलोकेऽहं स्थिता पुरा ।
कृष्णप्रियाकिंकरी च तदंशा तत्सखी प्रिया ॥ २४ ॥
गोविन्देन सहाऽऽसक्तामतृप्तां मां च मूर्च्छिताम् ।
रासेश्वरी समागत्य चापश्य‍द्‌रासमण्डले ॥ २५ ॥
गोविन्दं भर्त्सयामास मां शशाप रुषाऽन्विता ।
याहि त्वं मानवीं योनिमित्येवं च पितामह ॥ २६ ॥
मामुवाच स गोविन्दो मदंशं त्वं चतुर्भुजम् ।
लभिष्यसि तपस्तप्त्वा भारते ब्रह्मणो वरात् ॥ २७ ॥
इत्येवमुक्त्वा देवेशेप्यन्तर्धानमवाप सः ।
देव्या भिया तनुं त्यक्त्वा लब्धं जन्म मया भुवि ॥ २८ ॥
अहं नारायणं कान्तं शान्तं सुन्दरविग्रहम् ।
सांप्रतं लब्धुमिच्छमि वरमेवं च देहि मे ॥ २९ ॥
ब्रह्मोवाच
सुदामा नाम गोपश्च श्रीकृष्णाङ्गसमुद्‌भवः ।
तदंशश्चातितेजस्वी चालभज्जन्म भारते ॥ ३० ॥
साम्प्रतं राधिकाशापाद्‌दनुवंशसमुद्‌भवः ।
शङ्खचूड इति ख्यातस्त्रैलोक्ये न च तत्समः ॥ ३१ ॥
गोलोके त्वां पुरा दृष्ट्‍वा कामोन्मथितमानसः ।
विलम्बितुं मा शशाक राधिकायाः प्रभावतः ॥ ३२ ॥
स च जातिस्मरस्तप्त्वा त्वां ललाभ वरेण च ।
जातिस्मरा तु त्वमपि सर्वं जानासि सुन्दरि ॥ ३३ ॥
अधुना तस्य पत्‍नी च भव भाविनि शोभने ।
पश्चान्नारायणं कान्तं शान्तमेव लभिष्यसि ॥ ३४ ॥
शापान्नारायणस्यैव कलया दैवयोगतः ।
प्राप्नोषि वृक्षरूपं च त्वं पूता विश्वपावनी ॥ ३५ ॥
प्रधाना सर्वपुष्पाणां विष्णुप्राणाधिका भवेः ।
त्वया विना च सर्वेषां पूजा च विफला भवेत् ॥ ३६ ॥
वृन्दावने वृक्षरूपा नाम्ना वृन्दावनीति च ।
त्वत्पत्रैर्गोपिका गोपाः पूजयिष्यन्ति माधवम् ॥ ३७ ॥
वृक्षाधिदेवरूपेण सार्धं कृष्णेन संततम् ।
विहरिष्यसि गोपेन स्वच्छन्दं मद्वरेण च ॥ ३८ ॥
इत्येवं वचनं श्रुत्वा सस्मिता हृष्टमानसा ।
प्रणनाम च धातारं तं च किंचिदुवाच ह ॥ ३९ ॥
तुलस्युवाच
यश मे द्विभुजे कृष्णे वाञ्छा च श्यामसुन्दरे ।
सत्यं ब्रवीमि हे तात न तथा च चतुर्भुजे ॥ ४० ॥
अतृप्ताऽहं च गोविन्दे दैवाच्छृङ्गारभङ्गता ।
गोविन्दस्यैव वचनात्प्रार्थयामि चतुर्भुजम् ॥ ४१ ॥
त्वत्प्रसादेन गोविन्दं पुनरेव सुदुर्लभम् ।
ध्रुवमेव लभिष्यामि राधाभीतिं प्रमोचय ॥ ४२ ॥
ब्रह्मोवाच
गृहाण राधिकामन्त्रं ददे वै षोडशाक्षरम् ।
तस्याश्च प्राणतुल्या त्वं मद्वरेण भविष्यसि ॥ ४३ ॥
शृङ्गारं युवयोर्गोप्यमाज्ञास्यति च राधिका ।
राधासमा त्वं सुभगा गोविन्दस्य भविष्यसि ॥ ४४ ॥
इक्त्येवमुक्त्वा दत्त्वा च देव्यै तत्षोडशाक्षरम् ।
मन्त्रं तस्यै जगद्धाता स्तोत्रं च कवचं परम् ॥ ४५ ॥
सर्वं पूजाविधानं च पुरश्चर्याविधिक्रमम् ।
परं शुभाशिषं कृत्वा सोऽन्तर्धानमवाप ह ॥ ४६ ॥
ता च ब्रह्मोपदेशेन पुण्ये बदरिकाश्रमे ।
जजाप परमं मन्त्रं यदिष्टं पूर्वजन्मनः ॥ ४७ ॥
दिव्यं द्वादशवर्षं च पूजां चैव चकार सा ।
बभूव सिद्धा सा देवी तत्प्रत्यादेशमाप च ॥ ४८ ॥
सिद्धे तपसि मन्त्रे च वरं प्राप्य यथेप्सितम् ।
बुभुजे च महाभागं यद्विश्वेषु सुदुर्लभम् ॥ ४९ ॥
प्रसन्नमानसा देवी तत्याज तपसः क्लमम् ।
सिद्धे फले नराणां च दुःखं तत् सुखमुत्तमम् ॥ ५० ॥
भुक्त्वा पीत्वा च संतुष्टा शयनं च चकार सा ।
तल्पे मनोरमे तत्र पुष्पचन्दनचर्चिते ॥ ५१ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे तुलस्युपाख्याने
तुलसीवरप्रदानं नाम पञ्चदशोऽध्यायः ॥ १५ ॥


GO TOP