ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - अष्टमोऽध्यायः

पृथिव्युपाख्याने पृथिवीस्तोत्रम् -


नारद उवाच
हरेर्निमेषमात्रेण ब्रह्मणः पात एव च ।
तस्य पाते प्राकृतिकः प्रलयः परिकीर्तितः ॥ १ ॥
प्रलये प्राकृते चोक्तं तत्रादृष्टा वसुंधरा ।
जलप्लुतानि विश्वानि सर्वे लीना हराविति ॥ २ ॥
वसुंधरा तिरोभूता कुत्र वा तत्र तिष्ठति ।
सृष्टेर्विधानसमये साऽऽविर्भूता कथं पुनः ॥ ३ ॥
कथं बभूव सा धन्या मान्या सर्वाश्रया जया ।
तस्याश्च जन्मविस्तारं वद मङ्गलकारणम् ॥ ४ ॥
श्रीनारायण उवाच
सर्वादिसृष्टौ सर्वेषां जन्म कृष्णादिति श्रुतिः ।
आविर्भावस्तिरोभावः सर्वेषु प्रलयेषु च ॥ ५ ॥
श्रूयतां वसुधाजन्म सर्वमङ्गलमङ्गलम् ।
विघ्ननिघ्नं परं पापनाशनं पुण्यवर्धनम् ॥ ६ ॥
अहो केचिद्वदन्तीति मधुकैटभमेदसा ।
बभूव वसुधा धन्या तद्विरुद्धमतं शृणु ॥ ७ ॥
ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा ।
आवां जहि न यत्रोर्वी पयसा संवृतेति च ॥ ८ ॥
तयोर्जीवनकाले न प्रत्यक्षा च भवेत्स्फुटम् ।
ततो बभूव मेदश्च मरणानन्तरं तयोः ॥ ९ ॥
मेदिनीति च विख्यातेत्युक्ता यैस्तन्मतं शृणु ।
जलधौता कृशा पूर्वं वर्धिता मेदसा यतः ॥ १० ॥
कथयामि च तज्जन्म सार्थकं सर्वसंमतम् ।
पुरा श्रुतं च श्रुत्युक्तं धर्मवक्त्राच्च पुष्करे ॥ ११ ॥
महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम् ।
मलो बभूव कालेन सर्वाङ्गव्यापको ध्रुवम् ॥ १२ ॥
सह च प्रविष्टः सर्वेषां तल्लोम्नां विवरेषु च ।
कालेन महता तस्माद्‌बभूव वसुधा मुने ॥ १३ ॥
प्रत्येकं प्रतिलोम्नां च स्थिता कूपेषु सा स्थिरा ।
आविर्भूता तिरोभूता सा चला च पुनः पुनः ॥ १४ ॥
आविर्भूता सृष्टिकाले तज्जलात्पर्युपस्थिता ।
प्रलये च तिरोभूता जलाभ्यन्तरवस्थिता ॥ १५ ॥
प्रतिविश्वेषु वसुधा शैलकाननसंयुता ।
सप्तसागरसंयुक्ता सप्तद्वीपमिता सती ॥ १६ ॥
हिमाद्रिमेरुसंयुक्ता ग्रहचन्द्रार्कसंयुता ।
ब्रह्मविष्णुशिवाद्यैश्च सुरैर्लोकैस्तथा नुता ॥ १७ ॥
पुण्यतीर्थसमायुक्ता पुण्यभारतसंयुता ।
काञ्चनीभूमिसंयुक्ता सर्वदुर्गसमन्विता ॥ १८ ॥
पातालाः सप्त तदधस्तदूर्ध्वे ब्रह्मलोकतः ।
ध्रुवलोकश्च तत्रैव सर्वं विश्वं च तत्र वै ॥ १९ ॥
एवं सर्वाणि विश्वानि पृथिव्यां निर्मितानि वै ।
ऊर्ध्वं गोलोकवैकुण्ठौ नित्यौ विश्वपरौ च तौ ॥ २० ॥
नश्वराणि च विश्वानि कृत्रिमाकृत्रिमाणि च ।
प्रलये प्राकृते ब्रह्मन्ब्रह्मणश्च निपातने ॥ २१ ॥
महाविराडादिसृष्टौ सृष्टः कृष्णेन चाऽऽत्मना ।
नित्ये स्थितः स प्रलये काष्ठाकाशेश्वरैः सह ॥ २२ ॥
क्षित्यधिष्ठातृदेवी सा वाराहे पूजिता सुरैः ।
मनुभिर्मुनिभिर्विप्रैर्गन्धर्वादिभिरेव च ॥ २३ ॥
विष्णोर्वराहरूपस्य पत्‍नी सा श्रुतिसंमता ।
तत्पुत्रो मङ्गलो ज्ञेयः सुयशा मङ्गलात्मजः ॥ २४ ॥
नारद उवाच
पूजिता केन रूपेण वाराहे च सुरैर्मही ।
वराहेण च वाराही सर्वैः सर्वाश्रया सती ॥ २५ ॥
तस्याः पूजाविधानं चाऽप्यधश्चोद्धरणक्रमम् ।
मङ्गलं मङ्गलस्यापि जन्म वासं वद प्रभो ॥ २६ ॥
नारायण उवाच
वाराहे च वराहश्च ब्रह्मणा संस्तुतः पुरा ।
उद्‌दधार महीं हत्वा हिरण्याक्षं रसातलात् ॥ २७ ॥
जले तां स्थापयामास पद्मपत्रं यथाऽर्णवे ।
तत्रैव निर्ममे ब्रह्मा सर्वं विश्वं मनोहरम् ॥ २८ ॥
दृष्ट्‍वा तदधिदेवीं च सकामां कामुको हरिः ।
वराहरूपी भगवान्कोटिसूर्यसमप्रभः ॥ २९ ॥
कृत्वा रतिकरीं शय्यां मूर्तिं च सुमनोहराम् ।
क्रीडां चकार रहसि दिव्यवर्षमहर्निशम् ॥ ३० ॥
सुखसंभोगसंस्पर्शान्मूर्च्छां संप्राप सुन्दरी ।
विदग्धया विदग्धेन संगमोऽतिसुखप्रदः ॥ ३१ ॥
विष्णुस्तदङ्गसंश्लेषाद्‌बुबुधे न दिवानिशम् ।
वर्षान्ते चेतनां प्राप्य कामी तत्याज कामुकीम् ॥ ३२ ॥
दधार पूर्वरूपं हि वाराहं चैव लीलया ।
पूजां चकार भक्त्या च ध्यात्वा च धरणीं सतीम् ॥ ३५ ॥
धूपैर्दीपैश्च नैवेद्यैः सिन्दूरैरनुलेपनैः ।
वस्त्रैः पुष्पैश्च बलिभिः संपूज्योवाच तां हरिः ॥ ३४ ॥
महावराह उवाच
सर्वाधारा भव शुभे सर्वैः संपूजिता सती ।
मुनिभिर्मनुभिर्देवैः सिद्धैर्वा मानवादिभिः ॥ ३५ ॥
बलोच्छ्‍वासाज्जलत्यागगृहारम्भप्रवेशने ।
वापीतडागारम्भे च शुभे च कृषिकर्मणि ॥ ३६ ॥
तव पूजां करिष्यन्ति संभ्रमेण सुरादयः ।
मूढा ये न करिष्यन्ति यास्यन्ति नरकं च ते ॥ ३७ ॥
वसुधोवाच
वहामि सर्वं वाराहरूपेणाहं तवाज्ञया ।
लीलामात्रेण भगवन्विश्वं च सचराचरम् ॥ ३८ ॥
मुक्तां शुक्तिं हरेरर्चां शिवलिङ्गं शिलां तथा ।
शङ्खं प्रदीपं रत्‍नं च माणिक्यं हीरकं मणिम् ॥ ३९ ॥
यज्ञसूत्रं च पुष्पं च पुस्तकं तुलसीदलम् ।
जपमालां पुष्पमालां कर्पूरं च सुवर्णकम् ॥ ४० ॥
गोरोचनां चन्दनं च शालग्रामजलं तथा ।
एतान्वोढुमशक्ताऽहं क्लिष्टा च भगवञ्छृणु ॥ ४१ ॥
श्रीभगवानुवाच
द्रव्याण्येतानि ये मूढा अर्पयिष्यन्ति सुन्दरि ।
यास्यन्ति कालसूत्रं ते दिव्यं वर्षशतं त्वयि ॥ ४२ ॥
इत्येवमुक्त्वा भगवान्विरराम च नारद ।
बभूव तेन गर्भेण तेजस्वी मङ्गलग्रहः ॥ ४३ ॥
पूजां चक्रुः पृथिव्याश्च ते सर्वे चाऽऽज्ञया हरेः ।
दध्युः काण्वोक्तमार्गेण तुष्टुवुः स्तवनेन च ॥ ४४ ॥
दद्युर्मूलेन मन्त्रेण नैवेद्यादिकमेव च ।
संस्तुता त्रिषु लोकेषु पूजिता सा बभूव ह ॥ ४५ ॥
नारद उवाच
किं ध्यानं स्तवनं किंवा तस्य मूलं च किं वद ।
गूढं सर्वपुराणेषु श्रोतुं कौतूहलं मम ॥ ४६ ॥
नारायण उवाच
आदौ च पृथिवीदेवी वराहेण सुपूजिता ।
ततो हि ब्रह्मणा पश्चात्ततश्च पृथुना पुरा ॥ ४७ ॥
ततः सर्वैर्मुनीन्द्रैश्च मनुभिर्नारदादिभिः ।
ध्यानं च स्तवनं मन्त्रं शृणु वक्ष्यामि नारद ॥ ४८ ॥
ॐ ह्रीं क्लीं श्रीं वां वसुधायै स्वाहा ।
इत्यनेन तु मन्त्रेण पूजिता विष्णुना पुरा ॥ ४९ ॥
श्वेतचम्पकवर्णाभां शतचन्द्रसमप्रभाम् ।
चन्दनोक्षितसर्वाङ्गीं सर्वभूषणभूषिताम् ॥ ५० ॥
रत्‍नाधारां रत्‍नगर्भा रत्‍नाकरसमन्विताम् ।
वह्निशुद्धांशुकाधानां सस्मितां वन्दितां भजे ॥ ५१ ॥
ध्यानेनानेन सा देवी सर्वेर्वै पूजिता भवेत् ।
स्तवनं श्रृणु विप्रेन्द्र काण्वशाखोक्तमेव च ॥ ५२ ॥
विष्णुरुवाच
यज्ञसूकरजाया त्वं जयं देहि जयावहे ।
जयेऽजये जयाधारे जयशीले जयप्रदे ॥ ५३ ॥
सर्वाधारं सर्वबीजे सर्वशक्तिसमन्विते ।
सर्वकामप्रदे देवि सर्वेष्टं देहि मे स्थिरे ॥ ५४ ॥
सर्वसस्यालये सर्वसस्याढ्ये सर्वसस्यदे ।
सर्वसस्यहरे काले सर्वसस्यात्मिके क्षिते ॥ ५५ ॥
मङ्गले मङ्गलाधारे माङ्गल्ये मङ्गलप्रदे ।
मङ्गलार्थे मङ्गलाशे मङ्गलं देहि मे परम् ॥ ५६ ॥
पुण्यस्वरूपे पुण्यानां बीजरूपे सनातनि ।
पुण्याश्रये पुण्यवतामालये पुण्यदे भवे ॥ ५७ ॥
स्त्रीरत्‍नरूपे रत्‍नौघे रत्‍नसारवरप्रदे ॥ ५८ ॥
भूमे भूमिपसर्वस्वे भूमिपालपरायणे ।
भूमिपाहंकाररूपे भूमिं देहि वसुंधरे ॥ ५९ ॥
इदं स्तोत्रं महापुण्यं तां संपूज्य च यः पठेत् ।
कोट्यन्तरे जन्मनि स संभवेद्‌भूमिपेश्वरः ॥ ६० ॥
भूमिदानकृतं पुण्यं लभते पठनाज्जनः ।
दत्तापहारजात्पापान्मुच्यते नात्र संशयः ॥ ६१ ॥
अम्बुवीचीभूखननात्पापान्मुच्येत स ध्रुवम् ।
अन्यकूपे कुपदजात्पापान्मुच्येत स ध्रुवम् ॥ ६२ ॥
परभूश्राद्धजात्पापान्मुच्यते नात्र संशयः ।
भूमौ वीर्यत्यागपापाद्‌दीपादिस्थापनात्तथा ॥ ६३ ॥
पापेन मुच्यते प्राज्ञः स्तोत्रस्य पठनान्मुने ।
अश्वमेधशतं पुण्यं लभते नात्र संशयः ॥ ६४ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारदनारायण-
संवादे पृथिव्युपाख्याने पृथिवीस्तोत्रं नामाष्टमोऽध्यायः ॥ ८ ॥


GO TOP