ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - सप्तमोऽध्यायः

युगतन्माहात्म्यमन्वन्तरकालेश्वरगुणनिरूपणम् -


नारायण उवाच
पुण्यक्षेत्रे ह्याजगाम भारते सा सरस्वती ।
गङ्गाशापेन कलया स्वयं तस्थौ हरेः पदम् ॥१॥
भारती भारतं गत्वा ब्राह्मी च ब्रह्मणः प्रिया ।
वागधिष्ठातृदेवी सा तेन वाणी च कीर्तिता ॥२॥
सर्वं विश्वं परिव्याप्य स्रोतस्येव हि दृश्यते ।
हरिः सरःसु तस्येयं तेन नाम्ना सरस्वती ॥३॥
सरस्वती नदी सा च तीर्थरूपातिपावनी ।
पापिपापेध्मदाहाय ज्वलदग्निस्वरूपिणी ॥४॥
पश्चाद्भगीरथानीता महीं भागीरथी शुभा ।
समाजगाम कलया वाणीशापेन नारद ॥५॥
तत्रैव समये तां च दधार शिरसा शिवः ।
वेगं सोढुमशक्ताया भुवः प्रार्थनया विभुः ॥६॥
पद्मा जगाम कलया सा च पद्मावती नदी ।
भारतं भारती शापात्स्वयं तस्थौ हरेः पदम् ॥७॥
ततोऽन्यया सा कलया चालभज्जन्म भारते ।
धर्मध्वजसुता लक्ष्मीर्विख्याता तुलसीति च ॥८॥
पुरा सरस्वतीशापात्तत्पश्चाद्धरिशापतः ।
बभूव वृक्षरूपा सा कलया विश्वपावनी ॥९॥
कलौ पञ्चसहस्रं च वर्षं स्थित्वा च भारते ।
जग्मुस्ताश्च सरिद्‌रूपं विहाय श्रीहरेः पदम् ॥ १०॥
यानि सर्वाणि तीर्थानि काशी वृन्दावनं विना ।
यास्यन्ति सार्धं ताभिश्च हरेर्वैकुण्ठमाज्ञया ॥ ११ ॥
शालग्रामो हरेर्मूर्तिर्जगन्नाथश्च भारतम् ।
कलेर्दशसहस्रान्ते ययौ त्यक्त्वा हरेः पदम् ॥ १२॥
वैष्णवाश्च पुराणानि शङ्खाश्च श्राद्धतर्पणम् ।
वेदोक्तानि च कर्माणि ययुः सार्धमेव च ॥ १३॥
हरिपूजा हरेर्नाम तत्कीर्तिगुणकीर्तनम् ।
वेदाङ्गानि च शास्त्राणि ययुस्तैः सार्धमेव च ॥ १४॥
सन्तश्च सत्यं धर्मश्च वेदाश्च ग्रामदेवताः ।
व्रतं तपस्याऽनशनं ययुस्तैः सार्धमेव च ॥ १५॥
वामाचाररताः सर्वे मिथ्याकापट्यसंयुताः ।
तुलसीवर्जिता पूजा भविष्यति ततः परम् ॥ १६॥
एकादशोविहीनाश्च सर्वे धर्मविवर्जिताः ।
हरिप्रसङ्गविमुखा भविष्यन्ति ततः परम् ॥ १७॥
शठाः क्रूरा दाम्भिकाश्च महाहंकारसंयुताः ।
चौराश्च हिंसकाः सर्वे भविष्यन्ति ततः परम् ॥ १८॥
पुंसां भेदस्तथा स्त्रीणां विवाहो वादनिर्णयः ।
स्वस्वामिभेदो वस्तूनां न भविष्यत्यतः परम् ॥ १९॥
सर्वे जनाः स्त्रीवशाश्च पुंश्चल्यश्च गृहे गृहे ।
तर्जनैर्भर्त्सनैः शश्वत्स्वामिनं ताडयन्ति च ॥२०॥
गृहेश्वरी च गृहिणी गृही भृत्याधिकोऽधमः ।
चेटी भूत्यासमा वध्वः श्वश्रूश्च श्वशुरस्तथा ॥२१ ॥
कर्तारो बलिनो गेहे योनिसंबन्धिबान्धवाः ।
विद्यासंबन्धिभिः सार्धं संभाषाऽपि न विद्यते ॥२२॥
यथाऽपरिचिता लोकास्तथा पुंसश्च बान्धवाः ।
सर्वकर्मक्षमाः पुंसो योषितामाज्ञया विना ॥२३॥
ब्रह्मक्षत्रियविट्शूद्रा जात्याचारविनिर्णयः ।
संध्या च यज्ञसूत्रं च भावलुप्तं न संशयः ॥२४॥
म्लेच्छाचारा भविष्यन्ति वर्णाश्चत्वार एव च ।
म्लेच्छशास्त्रं पठिष्यन्ति स्वशास्त्राणि विहाय ते ।
ब्रह्मक्षत्रविशां वंशाः शूद्राणां सेवकाः कलौ ॥२५॥
सूपकारा भविष्यन्ति धावका वृषवाहकाः ।
सत्यहीना जनाः सर्वे सस्यहीना च मेदिनी ॥२६॥
फलहीनाश्च तरवोऽपत्यहीनाश्च योषितः ।
क्षीरहीनास्तथा गावः क्षीरं सर्पिर्विवर्जितम् ॥२७॥
दम्पती प्रीतिहीनौ च गृहिणः सुखवर्जिताः ।
प्रतापहीना भूपाश्च प्रजाश्च करपीडिताः ॥२८॥
जलहीना नदा नद्यो दीर्घिकाः कन्दरादयः ।
धर्महीनाः पुण्यहीना वर्णाश्चत्वार एव च ॥२९॥
लक्षेषु पुण्यवान्कोऽपि न तिष्ठति ततः परम् ।
कुत्सिता विकृताकारा नरा नार्यश्च बालकाः ॥३०॥
कुवार्ताः कुत्सितपथा भविष्यन्ति ततः परम् ।
केचिद्‌ग्रामाश्च नगरा नरशून्या भयानकाः ॥३१॥
केचिस्त्वल्पकुटीरेण नरेण च समन्विताः ।
अरण्यानि भविष्यन्ति ग्रामेषु नगरेषु च ॥३२॥
अरण्यवासिनः सर्वे जनाश्च करपीडिताः ।
सस्यानि च भविष्यन्ति तडागेषु नदीषु च ॥३३॥
क्षेत्राणि सस्यहीनानि प्रकृष्टान्यर्थतः परम् ।
हीनाः प्रकृष्टा धनिनो बलदर्पसमन्विताः ॥३४॥
प्रकृष्टवंशजा हीना भविष्यन्ति कलौ युगे ।
अलीकवादिनो धूर्ताः शठा वै सत्यवादिनः ॥ ३५ ॥
पापिनः पुण्यवन्तश्चाप्यशिष्टः शिष्ट एव च ।
जितेन्द्रिया लम्पटाश्च पुंश्चल्यश्च पतिव्रताः ॥ ३६ ॥
तपस्विनः पातकिनो विष्णुभक्ता अवैष्णवाः ।
हिंसकाश्च दयायुक्ताश्चौराश्च नरघातिनः ॥ ३७ ॥
भिक्षूवेषधरा धूर्ता निन्दन्त्युपहसन्ति च ।
भूतादिसेवानिपुणा जनानां मोदकारिणः ॥ ३८ ॥
पूजितास्ते भविष्यति वञ्चका ज्ञानदुर्बलाः ।
वामना व्याधियुक्ताश्च नरा नार्यश्च सर्वतः ॥ ३९ ॥
अल्पायुषो जरायुक्ता यौवनेषु कलौ युगे ।
पलिता षोडशे वर्षे महावृद्धास्तु विंशतौ ॥ ४० ॥
अष्टवर्षा च युवती रजोयुक्ता च गर्भिणी ।
वासरान्ते प्रसूता स्त्री षोडशे च जरान्विता ॥ ४१ ॥
एताः काश्चित्सहस्रेषु वन्ध्याश्चापि कलौ युगे ।
कन्याविक्रयिणः सर्वे वर्णाश्चत्वार एव च ॥ ४२ ॥
मातृजायावधूनां च जारोपार्जनतत्पराः ।
कन्यानां भगिनीनां च जारोपार्जनजीविनः ॥ ४३ ॥
हरेर्नाम्नां विक्रयिणो भविष्यन्ति कलौ युगे ।
स्वयमुत्सृज्य दानं च कीर्तिवर्धनहेतवे ॥ ४४ ॥
तत्पश्चान्मनसाऽऽलोच्य स्वयमुलङ्‍घयिष्यति ।
देववृत्ति ब्रह्मवृत्तिं वृत्ति गुरुकुलस्य च ॥ ४५ ॥
स्वदत्तां परदत्तां वा सर्वमुल्लङ्‍घयिष्यति ।
कन्यकागामिनः केचित्केचिद्‌च्छ्‍वश्रभिगामिनः ॥ ४६ ॥
केचिद्‌वधूगामिनश्च केचित्सर्वत्रगामिनः ।
भगिनीगामिनः केचित्सपत्‍नीमातृगामिनः ॥ ४७ ॥
भ्रातृजायागामिनश्च भविष्यन्ति कलौ युगे ।
अगम्यागमनं चैव करिष्यन्ति गृहे गृहे ॥ ४८ ॥
आत्मयोनिं परित्यज्य विहरिष्यन्ति सर्वतः ।
पत्‍नीनां निर्णयो नास्ति भर्तृणां च कलौ युगे ॥ ४९ ॥
प्रजानां चैव वस्तूनां ग्रामाणां च विशेषतः ।
अलीकवादिनः सर्वे सर्वे चौर्यार्थलम्पटाः ॥ ५० ॥
परस्परं हिंसकाश्च सर्वे च नरघातिनः ।
ब्रह्मक्षत्रविशां वंशा भविष्यन्ति च पापिनः ॥ ५१ ॥
लाक्षालोहरसानां च व्यापारं लवणस्य च ।
वृषवाहा विप्रवंशाः शूद्राणां शवदाहिनः ॥ ५२ ॥
शूद्रान्नभोजिनः सर्वे सर्वे च वृषलीरताः ।
पञ्चपर्वपरित्यक्ताः कुहूरात्रिषु भोजिनः ॥ ५ ३ ॥
यज्ञसूत्रविहीनाश्च संध्याशौचविहीनकाः ॥ ५४ ॥
पुंश्चली वार्धुषाऽवीरा कुट्टिनी च रजस्वला ।
विप्राणां रन्धनागारे भविष्यन्ति च याचिकाः ॥ ५५ ॥
अन्नानां निर्णयो नास्ति योनीनां च विशेषतः ।
आश्रमाणां जनानां च सर्वे म्लेच्छाः कलौ युगे ॥ ५६ ॥
एवं कलौ संप्रवृत्ते सर्वे म्लेच्छमया भवे ।
हस्तप्रमाणे वृक्षे चाङ्गुष्ठमाने च मानवे ॥ ५७ ॥
विप्रस्य विष्णुयशसः पुत्रः कल्की भविष्यति ।
नारायणकलांशश्च भगवान्बलिनां बली ॥ ५८ ॥
दीर्घेण करवालेन दीर्घघोटकवाहनः ।
म्लेच्छशून्यां च पृथिवीं त्रिरात्रेण करिष्यति ॥ ५९ ॥
निर्म्लेच्छां वसुधां कृत्वा चान्तर्धानं करिष्यति ।
अराजका च वसुधा दस्युग्रस्ता भविष्यति ॥ ६० ॥
स्थूलप्रमाणं षड्रात्रं वर्षाधाराप्लुता मही ।
लोकशून्या वृक्षशून्या गृहशून्या भविष्यति ॥ ६१ ॥
ततश्च द्वादशादित्याः करिष्यन्त्युदयं मुने ।
प्राप्नोति शुष्कतां पृथ्वी समा तेषां च तेजसा ॥ ६२ ॥
कलौ गते च दुर्धर्षे संप्रवृत्ते कृते युगे ।
तपसत्यसमायुक्तो धर्मः पूर्णो भविष्यति ॥ ६३ ॥
तपस्विनश्च धर्मिष्ठा वेदज्ञा ब्राह्मणा भुवि ।
पतिव्रताश्च धर्मिष्ठा योषितश्च गृहे गृहे ॥ ६४ ॥
राजानः क्षत्रियाः सर्वे विप्रभक्ताः स्वधर्मिणः ।
प्रतापवन्तो धर्मिष्ठाः पुण्यकर्मरताः सदा ॥ ६५ ॥
वैश्या वाणिज्यनिरता विप्रभक्ताश्च धार्मिकाः ।
शूद्राश्च पुण्यशीलाश्च धर्मिष्ठा विप्रसेविनः ॥ ६६ ॥
विप्रक्षत्रविशां वंशा विष्णुयज्ञपरायणाः ।
विष्णुमन्त्ररताः सर्वे विष्णुभक्ताश्च वैष्णवाः ॥ ६७ ॥
श्रुतिस्मृतिपुराणज्ञा धर्मज्ञा ऋतुगामिनः ।
लेशो नास्ति ह्यधर्माणां धर्मपूर्णे कृते युगे ॥ ६८ ॥
धर्मस्त्रिपाच्च त्रेतायां द्विपाच्च द्वापरे स्मृतः ।
कलौ प्रवृत्ते पादात्मा सर्वलोपस्ततः परम् ॥ ६९ ॥
वाराः सप्त यथा विप्र तिथयः षोडश स्मृताः ।
यथा द्वादश मासाश्च ऋतवश्च षडेव हि ॥ ७० ॥
द्वौ पक्षौ चायने द्वे च चतुर्भिः प्रहरैर्दिनम् ।
चतुर्भिः प्रहरै रात्रिर्मासस्त्रिंशद्‌दिनैस्तथा ॥ ७१ ॥
वर्षः पञ्चविधो ज्ञेयः कालसंख्यां निबोध मे ।
यथा चाऽऽयान्ति यान्त्येव तथा युगचतुष्टयम् ॥ ७२ ॥
वर्षे पूर्णे नराणां च देवानां च दिवानिशम् ।
शतत्रये षष्ट्यधिके नराणां च युगे गते ।
देवानां च युगो ज्ञेयः कालसंख्याविदां मतः ॥ ७३ ॥
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ।
मन्वन्तरसमं ज्ञेयं चेन्द्रायुः परिकीर्तितम् ॥ ७४ ॥
अष्टाविंशतिमे चेन्द्रे गते ब्राह्मं दिवानिशम् ।
अष्टोत्तरे वर्षशते गते पातो विधेर्भवेत् ॥ ७५ ॥
प्रलयः प्राकृता ज्ञेयस्तत्रादृष्टा वसुंधरा ।
जलप्लुतानि विश्वानि ब्रह्मविष्णुशिवादयः ॥ ७६ ॥
ऋषयो जीविनः सर्वे लीनाः कृष्णे परात्परे ।
तत्रैव प्रकृतिर्लीना तेन प्राकृतिको लयः ॥ ७७ ॥
लये प्राकृतिकेऽतीते पाते च ब्रह्मणो मुने ।
निमेषमात्रः कालश्च कृष्णस्य परमात्मनः ॥ ७८ ॥
एवं नश्यन्ति सर्वाणि ब्रह्माण्डान्यखिलानि च ।
स्थितौ गोलोकवैकुण्ठौ श्रीकृष्णश्च सपार्षदः ॥ ७९ ॥
निमेषमात्रः प्रलयो यत्र विश्वं जलप्लुतम् ।
निमेषानन्तरे काले पुनः सृष्टिः क्रमेण च ॥ ८० ॥
एवं कतिविधा सृष्टिर्लयः कतिविधोऽपि वा ।
कतिकृत्वो गतायातः संख्यां जानाति कः पुमान् ॥ ८१ ॥
सृष्टीनां च लयानां च ब्रह्माण्डानां च नारद ।
ब्रह्मादीनां च विध्यण्डे संख्यां जानाति कः पुमान् ॥ ८२ ॥
ब्रह्माण्डानां च सर्वेषामीश्वरश्चैक एव सः ।
सर्वेषां परमात्मा च श्रीकृष्णः प्रकृतेः परः ॥ ८३ ॥
ब्रह्मादयश्च तस्यांशास्तस्यांशश्च महाविराट् ।
तस्यांशश्च विराट् क्षुद्रस्तस्यांशा प्रकृतिः स्मृता ॥ ८४ ॥
स च कृष्णो द्विधाभूतो द्विभुजश्च चतुर्भुजः ।
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ॥ ८५ ॥
ब्रह्मादितृणपर्यन्तं सर्वं प्राकृतिकं भवेत् ।
यद्यत्प्राकृतिकं सृष्टं सर्वं नश्वरमेव च ॥ ८६ ॥
विद्ध्येकं सृष्टिमूलं तत्सत्यं नित्यं सनातनम् ।
स्वेच्छामयं परं ब्रह्म निर्लिप्तं निर्गुणं परम् ॥ ८७ ॥
निरुपाधि निराकारं भक्तानुग्रहविग्रहम् ।
अतीव कमनीयं च नवीननीरदप्रभम् ॥ ८८ ॥
द्विभुजं मुरलीहस्तं गोपवेषं किशोरकम् ।
सर्वज्ञं सर्वसेव्यं च परमात्मानमीश्वरम् ॥ ८९ ॥
करोति धाता ब्रह्माण्डं ज्ञानात्मा कमलोद्‌भवः ।
शिवो मृत्युंजयश्चैव संहर्ता सर्वतत्त्ववित् ॥ ९० ॥
यस्य ज्ञानाद्यत्तपसा सर्वेशस्तत्समो महान् ।
महाविभूतियुक्तश्च सर्वज्ञः सर्वदः स्वयम् ॥ ९१ ॥
सर्वव्यापी सर्वपाता प्रदाता सर्वसंपदाम् ।
विष्णुः सर्वेश्वरः श्रीमान्यस्य ज्ञानाज्जगत्पतिः ॥ ९२ ॥
महामाया च प्रकृतिः सर्वशक्तिमतीश्वरी ।
यज्ज्ञानाद्यस्य तपसा यद्‌भक्त्या यस्य सेवया ॥ ९३ ॥
सावित्री वेदमाता च वेदाधिष्ठातृदेवता ।
पूज्या द्विजानां वेदज्ञा यज्ज्ञानाद्यस्य सेवया ॥ ९४ ॥
सर्वविद्याधिदेवी सा पूज्या च विदुषां पुरा ।
यत्सेवया यत्तपसा यस्य ज्ञानात्सरस्वती ॥ ९५ ॥
यत्सेवया यत्तपसा प्रदात्री सर्वसंपदाम् ।
धनदस्याधिदेवी सा महालक्ष्मीः सनातनी ॥ ९६ ॥
यत्सेवया यत्तपसा सर्वविश्वेषु पूजिता ।
सर्वज्ञानाधिदेवी सा सर्वसंपत्प्रदायिनी ॥ ९७ ॥
सर्वेश्वरी सर्ववन्द्या सर्वेशं प्राप या पतिम् ।
सर्वस्तुता च सर्वज्ञा दुर्गा दुर्गतिनाशिनी ॥ ९८ ॥
कृष्णवामाशसंभूता कृष्णप्राणाधिदेवता ।
कृष्णप्राणाधिका प्रेम्णा राधिका कृष्णसेवया ॥ ९९ ॥
सर्वाधिक च रूपं च सौभाग्यं मानगौरवम् ।
कृष्णवक्षःस्थलस्थानं पत्‍नीत्वं प्राप सेवया ॥ १०० ॥
तपश्चकार सा पूर्वं ऽ शतशृङ्‍गे च पर्वते ।
दिव्यं युगसहस्रं च निराहाराऽतिकर्शिता ॥ १०१ ॥
कृशां निःश्वासरहितां दृष्ट्‍वाचन्द्रकलोपमाम् ।
कृष्णो वक्षःस्थले कृत्वा रुरोद कृपया विभुः ॥ १०२ ॥
वरं तस्यै ददौ सारं सर्वेषामपि दुर्लभम् ।
मम वक्षःस्थले तिष्ठ मयि ते भक्तिरस्त्विति ॥ १०३ ॥
सौभाग्येन च मानेन प्रेम्णा वै गौरवेण च ।
त्वं मे श्रेष्ठा परं प्रेम्णा ज्येष्ठा त्वं सर्वयोषिताम् ॥ १०४ ॥
वरिष्ठा च गरिष्ठा च संस्तुता पूजिता मया ।
सततं तव साम्योऽहं राध्यश्च प्राणवल्लभे ॥ १०५ ॥
इत्युक्त्वा जगतां नाथश्चके तच्चेतनां ततः ।
सपत्‍नीरहितां तां च चकार प्राणवल्लभाम् ॥ १०६ ॥
अन्या या याश्च देव्यो वै पूजितास्तस्य सेवया ।
तपस्या यादृशी यासां तासां तादृक्फलं मुने ॥ १०७ ॥
दिव्यं वर्षसहस्रं च तपस्तप्त्वा हिमालये ।
दुर्गा च तत्पदं ध्यात्वा सर्वपूज्या बभूव ह ॥ १०८ ॥
सरस्वती तपस्तप्त्वा पर्वते गन्धमादने ।
लक्षवर्षं च दिव्यं च सर्ववन्द्या बभूव सा ॥ १०९ ॥
लक्ष्मीर्युगशतं दिव्यं तपस्तप्त्वा च पुष्करे ।
सर्वसंपत्प्रदात्री सा चाभवत्तस्य सेवया ॥ ११० ॥
सावित्री मलये तप्त्वा द्विजपूज्या बभूव सा ।
षष्टिवर्षसहस्रं च दिव्यं ध्यात्वा च तत्पदम् ॥ १११ ॥
शतमन्वन्तरं तप्तं शंकरेण पुरा विभो ।
शतमन्वन्तरं चैव ब्रह्मणा तस्य भक्तितः ॥ ११२ ॥
शतमन्वन्तरं विष्णुस्तप्त्वा पाता बभूव ह ।
शतमन्वन्तरं धर्मस्तप्त्वा पूज्यो बभूव ह ॥ ११३ ॥
मन्वन्तरं तपस्तेपे शेषो भक्त्या च नारद ।
मन्वन्तरं च सूर्यश्च शक्रश्चन्द्रस्तथा गुरुः ॥ ११४ ॥
दिव्यं शतयुगं चैव वायुस्तप्त्वा च भक्तितः ।
सर्वप्राणः सर्वपूज्यः सर्वाधारो बभूव सः ॥ ११५ ॥
एवं कृष्णस्य तपसा सर्वे देवाश्च पूजिताः ।
मुनयो मानवा भूपा ब्राह्मणाश्चैव पूजिताः ॥ ११६ ॥
एवं ते कथितं सर्वं पुराणं च यथागमम् ।
गुरुवक्त्राद्यथा ज्ञातं किं भूयः श्रोतुमिच्छसि ॥ ११७ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
युगतन्माहात्म्यमन्वन्तरकालेश्वरगुणनिरूपणं नाम सप्तमोऽध्यायः ॥ ७ ॥


GO TOP