ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - षष्ठोऽध्यायः

सरस्वत्युपाख्यानम् -


नारायण उवाच
सरस्वती सा वैकुण्ठे स्वयं नारायणान्तिके ।
गङ्गाशापेन कलया कलहाद्‌भारते सरित् ॥ १ ॥
पुण्यदा पुण्यजननी पुण्यतीर्थस्वरूपिणी |
पुण्यवद्‌भिर्निषेव्या च स्थितिः पुण्यवतां मुने ॥ २ ॥
तपस्विनां तपोरूपा तपस्याकाररूपिणी ।
कृतपापेध्मदाहाय ज्वलदग्निस्वरूपिणी ॥ ३ ॥
ज्ञाने सरस्वतीतोये गतं यैर्मानवैर्भुवि ।
तेषां स्थितिश्च वैकुण्ठे सुचिरं हरिसंसदि ॥ ४ ॥
भारते कृतपापश्च स्नात्वा तत्रैव लीलया ।
मुच्यते सर्वपापेभ्यो विष्णुलोके वसेच्चिरम् ॥ ५ ॥
चतुर्दश्यां पौर्णमास्यामक्षयायां दिनक्षये ।
ग्रहणे च व्यतीपातेऽन्यस्मिन्पुण्यदिनेऽपि च ॥ ६ ॥
अनुषङ्गेण यः स्नाति हेलया श्रद्धयाऽपि वा ।
सारूप्यं लभते नूनं वैकुण्ठे स हरेरपि ॥ ७ ॥
सरस्वतीमन्त्रकं च मासमेकं तु यो जपेत् ।
महामूर्खः कवीन्द्रश्च स भवेन्नात्र संशयः ॥ ८ ॥
नित्यं सरस्वतीतोये यः स्नात्वा मुण्डयेन्नरः ।
न गर्भवासं कुरुते पुनरेव स मानवः ॥ ९ ॥
इत्येवं कथितं किंचिद्‌भारतीगुणकीर्तनम् ।
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥ १० ॥
सौतिरुवाच
नारायणवचः श्रुत्वा नारदो मुनिसत्तमः ।
पुनः पप्रच्छ संदेहच्छेदं शौनक सत्वरम् ॥ ११ ॥
नारद उवाच
कयं सरस्वतीदेवी गङ्गाशापेन भारते ।
कलया कलहेनैव समभूत्पुण्यदा सरित् ॥ १२ ॥
श्रवणे श्रुतिसाराणां वर्धते कौतुकं मम ।
कथामृतानां नो तृप्तिः केन श्रेयसि तृप्यते ॥ १३ ॥
कथं शशाप सा गङ्गा पूजितां तां सरस्वतीम् ।
शान्तसत्त्वस्वरूपा च पुण्यदा सर्वदा नृणाम् ॥ १४ ॥
तेजीस्विन्योर्द्वयोर्वादकारणं श्रुतिसुन्दरम् ।
सुदुर्लभं पुराणेषु तन्मे व्याख्यातुमर्हसि ॥ १५ ॥
नारायण उवाच
शृणु नारद वक्ष्यामि कथामेतां पुरातनीम् ।
यस्याः स्मरणमात्रेण सर्वपापात्प्रमुच्यते ॥ १६ ॥
लक्ष्मीः सरस्वती गङ्गा तिस्रो भार्या हरेरपि ।
प्रेम्णा समास्तास्तिष्ठन्ति सततं हरिसंनिधौ ॥ १७ ॥
चकार सैकदा गङ्गा विष्णोर्मुखनिरीक्षणम् ।
सस्मिता च सकामा च सकटाक्षं पुनः पुनः ॥ १८ ॥
विभुर्जहास तद्वक्त्रं निरीक्ष्य च मुदा क्षणम् ।
क्षमां चकार तद्‌दृष्टया लक्ष्मीर्नैव सरस्वती ॥ १९ ॥
बोधयामास तां पद्मा सत्त्वरूपा च सस्मिता ।
क्रोधाविष्टा च सा वाणी न च शान्ता बभूव ह ॥ २० ॥
उवाच गङ्गाभर्तारं रक्तास्या रक्तलोचना ।
कम्पिता कोपवेगेन शश्वत्प्रस्फुरिताधरा ॥ २१ ॥
सरस्वत्युवाच
सर्वत्र समताबुद्धिः सद्‌भर्तुः कामिनीः प्रति ।
धर्मिष्ठस्य वरिष्ठस्य विपरीता खलस्य च ॥ २२ ॥
ज्ञातं सौभाग्यमधिकं गङ्गायां ते गदाधर ।
कमलायां च तत्तुल्यं न च किंचिन्मयि प्रभो ॥ २३ ॥
गङ्गायाः पद्मया सार्धं प्रीतिश्वापि सुसंमता ।
क्षमा चकार तेनेदं विपरीतं हरिप्रिया ॥ २४ ॥
किं जीवनेन मेऽत्रैव दुर्भगायाश्च सांप्रतम् ।
निष्फलं जीवनं तस्या या पत्युः प्रेमवञ्चिता ॥ २५ ॥
त्वां सर्वेशं सत्त्वरूपं ये वदन्ति मनीषिणः ।
ते मूर्खा न वेदज्ञा न जानन्ति मतिं तव ॥ २६ ॥
सरस्वतीवचः श्रुत्वा दृष्ट्‍वा ता कोपसंयुताम् ।
मनसा तु समालोच्य स जगाम बहिः सभाम् ॥ २७ ॥
गते नारायणे गङ्गामवोचन्निर्भयं रुषा ।
वागधिष्ठातृदेवी सा वाक्यं श्रवणदुःसहम् ॥ २८ ॥
हे निर्लज्जे सकामे त्वं स्वामिगर्वं करोषि किम् ।
अधिकं स्वामिसौभाग्यं विज्ञापयितुमिच्छसि ॥ २९ ॥
मानहानिं करिष्यामि तवाद्य हरिसंनिधौ ।
किं करिष्यति ते कान्तो मम वै कान्तवल्लभे ॥ ३० ॥
इत्येवमुक्त्वा गङ्गाया जिघृक्ष केशमुद्यताम् ।
वारयामास तां पद्मा मध्यदेशस्थिता सती ॥ ३१ ॥
शशाप वाणी तां पद्मां महाकोपवती सती ।
वृक्षरूपा सरिद्‌रूपा भविष्यसि न संशयः ॥ ३२ ॥
विपरीतं यतो दृष्ट्‍वा किंचिन्नो वक्तुमर्हसि ।
संतिष्ठसि सभामध्ये यथा वृक्षो यथा सरित् ॥ ३३ ॥
शापं श्रुत्वा च सा देवी न शशाप चुकोप न ।
तत्रैव दुःखिता तस्थौ वाणीं धृत्वा करेण च ॥ ३४ ॥
अत्युद्धतां च तां दृष्ट्‍वा कोपप्रस्फुरितानना ।
उवाच गङ्गा तां देवीं पद्मां पद्मविलोचना ॥ ३५ ॥
गङ्गोवाच
त्वमुत्सृज महोग्रा तां पद्मे किं मे करिष्यति ।
वाग्दुष्टा वागधिष्ठात्री देवीयं कलहप्रिया ॥ ३६ ॥
यावती योग्यताऽस्याश्च यावती शक्तिरेव वा ।
तया करोतु वादं च मया सार्धं सुदुर्मुखा ॥ ३७ ॥
स्वबलं यन्मम बलं विज्ञापयितुमर्हतु ।
जानन्तु सर्वे ह्युभयोः प्रभावं विक्रमं सति ॥ ३८ ॥
इत्येवमुक्त्वा सा देवी वाच्यं शापं ददाविति ।
सरित्स्वरूपा भवतु सा या त्वामशपद्रुषा ॥ ३९ ॥
अधोमर्त्यं सा प्रयातु सन्ति यत्रैव पापिनः ।
कलौ तेषां च पापांशं लभिष्यति न संशयः ॥ ४० ॥
इत्येवं वचनं श्रुत्वा तां शशाप सरस्वती ।
त्वमेव यास्यसि महीं पापिपापं लभिष्यसि ॥ ४१ ॥
एतस्मिन्नन्तरे तत्र भगवानाजगाम ह ।
चतुर्भुजश्चतुर्भिश्च पार्षदैश्च चतुर्भुजैः ॥ ४२ ॥
सरस्वतीं करे धृत्वा वासयामास वक्षसि ।
बोधयामास सर्वज्ञः सर्वज्ञानं पुरातनम् ॥ ४३ ॥
श्रुत्वा रहस्यं तासां च शापस्य कलहस्य च ।
उवाच दुःखितास्ताश्च वाक्यं सामयिकं विभुः ॥ ४४ ॥
श्रीभगवानुवाच
लक्ष्मि त्वं कलया गच्छ धर्मध्वजगृहं शुभे ।
अयोनिसंभवा भूमौ तस्य कन्या भविष्यसि ॥४५॥
तत्रैव दैवदोषेण वृक्षत्वं च लभिष्यसि ।
मदंशस्यासुरस्यैव शङ्खचूडस्य कामिनी ॥४६॥
भूत्वा पश्चाच्च मत्पत्नी भविष्यसि न संशयः ।
त्रैलोक्यपावनी नाम्ना तुलसीतिच भारते ॥४७॥
कलया च सरिद्‌भूत्वा शीध्रं गच्छ वरानने ।
भारतं भारतीशापान्नाम्ना पद्मावती भव ॥४८॥
गङ्गे यास्यसि चांशेन पश्चात्त्वं विश्वपावनी ।
भारतं भारतीशापात्पापदाहाय देहिनाम् ॥४९॥
भगीरथस्य तपसा तेन नीता सुदुष्करात् ।
नाम्ना भागीरथी पूता भविष्यसि महीतले ॥५०॥
मदंशस्य समुद्रस्य जाया जाये ममाऽऽज्ञया ।
मत्कलांशस्य भूपस्य शन्तनोश्च सुरेश्वरि ॥५१॥
गङ्गाशापेन कलया भारतं गच्छ भारति ।
कलहस्य फलं भुङ्‍क्ष्व सपत्नीभ्यां सहाच्युते ॥५२॥
स्वयं च ब्रह्मसदनं ब्रह्मणः कामिनी भव ।
गङ्गा यातु शिवस्थानमत्र पद्मैव तिष्ठतु ॥५३॥
शान्ता च क्रोधरहिता मद्‌भक्ता मत्स्वरूपिणी ।
महासाध्वी महाभागा सुशीला धर्मचारिणी ॥५४॥
यदंशकलया सर्वा धर्मिष्ठाश्च पतिव्रताः ।
शान्तरूपाः सुशीलाश्च प्रतिविश्वेषु योषितः ॥५५॥
तिस्रो भार्यास्त्रयः शालास्त्रयो भृत्याश्च बान्धवाः ।
ध्रुवं वेदविरुद्धाश्च न ह्येतेमङ्गलप्रदाः ॥५६॥
स्त्री पुंवच्च गृहे येषां गृहिणां स्त्रीवशः पुमान् ।
निष्फलं जन्मवै तेषामशुभं च पदे पदे ॥५७॥
मुखदुष्टा योनिदुष्टा यस्य स्त्री कलहप्रिया ।
अरण्यं तेन गन्तव्यं महारण्यं गृहाद्वरम् ॥५८॥
जलानां च स्थलानां च फलानां प्राप्तिरेव च ।
सततं सुलभा तत्र न तेषां तद्गृहेऽपि च ॥५९॥
वरमग्नौ स्थितिर्हिंस्रजन्तूनां संनिधौ सुखम् ।
ततोऽपि दुःखं पुंसां च दुष्टस्त्रीसंनिधौ ध्रुवम् ॥६०॥
व्याधिज्वाला विषज्वाला वरं पुंसां वरानने ।
दुष्टस्त्रीणां मुखज्वाला मरणादतिरिच्यते ॥६१॥
पुंसश्च स्त्रीजितस्येह जीवितं निष्फलं ध्रुवम् ।
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ॥६२॥
स निन्दितोऽत्र सर्वत्र परत्र नरकं व्रजेत् ।
यशः कीर्तिविहीनो यो जीवन्नपि मृतो हि सः ॥६३॥
बह्वीनां च सपत्नीनां नैकत्र श्रेयसी स्थितिः ।
एकभार्यः सुखी नैव बहुभार्यः कदाचन ॥६४॥
गच्छ गङ्गे शिवस्थानं ब्रह्मस्थानं सरस्वति ।
अत्र तिष्ठतु मद्‌गेहे सुशीला कमलालया ॥६५॥
सुसाध्या यस्य पत्नी च सुशीला च पतिव्रता ।
इह स्वर्गसुखं तस्य धर्ममोक्षौ परत्र च ॥६६॥
पतिव्रता यस्य पत्नी स च मुक्तः शुचिः सुखी ।
जीवन्मृतोऽशुचिर्दुःखी दुःशीलापतिरेव यः ॥६७॥
इत्युक्त्वा जगतां नाथो विरराम च नारद ।
अत्युच्चै रुरुदुर्देव्यः समालिङ्ग्य परस्परम् ॥६८॥
ताश्च सर्वाः समालोच्य क्रमेणोचुः सदीश्वरम् ।
कम्पिताः साश्रुनेत्राश्च शोकेन च भयेन च ॥६९॥
सरस्वत्युवाच
प्रायश्चित्तं देहि नाथ दुष्टायां जन्मशोधकम् ।
सत्स्वामिना परित्यक्ताः कुत्र जीवन्तिकाः स्त्रियः ॥७०॥
देहत्यागं करिष्यामि ध्रुवं योगेन भारते ।
अत्युच्चतो निपतनं प्राप्तुमर्हति निश्चितम् ॥७१॥
गङ्गोवाच
अहं केनापराधेन त्वया त्यक्ता जगत्पते ।
देहत्यागं करिष्यामि निर्दोषाया वधं लभ ॥७२॥
निर्दोषकामिनीत्यागं कुरुते यो जनो भवे ।
स याति नरकं कल्पं किं ते सर्वेश्वरस्य वा ॥७३॥
लक्ष्मीरुवाच
नाथ सत्त्वस्वरूपस्त्वं कोपः कथमहो तव ।
प्रसादं कुरु चास्मभ्यं सदीशस्य क्षमा वरा ॥७४॥
भारतं भारतीशापाद्यास्यामि कलया यदि ।
कतिकालं स्थितिस्तत्र कदा द्रक्ष्यामि ते पदम् ॥७५॥
दास्यन्ति पापिनः पापं मह्यं स्नानावगाहनात् ।
केन तस्माद्विमुक्ताऽहमागमिष्यामि ते पदम् ॥७६॥
कलया तुलसीरूपा धर्मध्वजसुता सती ।
भूत्वा कदा लभिष्यामि त्वत्पादाम्बुजमच्युत ॥७७॥
वृक्षरूपा भविष्यामि तदधिष्ठातृदेवता ।
मामुद्धरिष्यसि कदा तन्मे ब्रूहि कृपानिधे ॥७८॥
गङ्‍गा सरस्वतीशापाद्यदि यास्यति भारतम् ।
शापेन मुक्ता पापाच्च कदा त्वां वा लभिष्यति ॥७९॥
गङ्गाशापेन सा वाणी यदि यास्यति भारतम् ।
कदा शापाद्विनिर्मुच्य लभिष्यति पदं तव ॥८०॥
तां वाणीं ब्रह्मसदनं गङ्गां वा शिवमन्दिरम् ।
गन्तुं वदसि हे नाथ तत्क्षमस्व च मद्वचः ॥८१॥
इत्युक्त्वा कमला कान्तपदं धृत्वा ननाम च ।
स्वकेशैर्वेष्टयित्वा च रुरोद च पुनः पुनः ॥८२॥
उवाच पद्मनाभस्तां पद्मां कृत्वा स्ववक्षसि ।
ईषद्धासः प्रसन्नास्यो भक्तानुग्रहकारकः ॥८३॥
नारायण उवाच
त्वद्वाक्यमाचरिष्यामि स्ववाक्यं च सुरेश्वरि ।
समतां च करिष्यामि शृणु तत्क्रममेव च ॥८४॥
भारती यातु कलया सरिद्‌रूपा च भारतम् ।
अर्धांशा ब्रह्मसदनं स्वयं तिष्ठतु मद्गृहे ॥८५॥
भगीरथेन नीता सा गङ्गा यास्यति भारतम् ।
पूतं कर्तुं त्रिभुवनं स्वयं तिष्ठतु मद्गृहे ॥८६॥
तत्रैव चन्द्रमौलेश्च मौलिं प्राप्स्यति दुर्लभम् ।
ततः स्वभावतः पूताऽप्यतिपूता भविष्यति ॥८७॥
कलांशांशेन गच्छ त्वं भारते कमलोद्भवे ।
पद्मावती सरिद्‌रूपा तुलसी वृक्षरूपिणी ॥८८॥
कलौ पञ्चसहस्रे च गते वर्षे च मोक्षणम् ।
युष्माकं सरितां भूयो मद्गृहे चाऽऽगमिष्यथ ॥८९॥
संपदां हेतुभूता च विपत्तिः सर्वदेहिनाम् ।
विना विपत्तेर्महिमा केषां पद्मे भवेद्भवे ॥९०॥
मन्मन्त्रोपासकानां च सतां स्नानावगाहनात् ।
युष्माकं मोक्षणं पापात्पापिस्पर्शनहेतुकात् ॥९१॥
पृथिव्यां यानि तीर्थानि सन्त्यसंख्यानि सुन्दरि ।
भविष्यन्ति च पूतानि भद्‌भक्तस्पर्शदर्शनात् ॥९२॥
मन्मन्त्रोपासका भक्ता भ्रमन्ते भारते सति ।
पूतं कर्तुं भारतं च सुपवित्रां वसुंधराम् ॥९३॥
मद्‌भक्ता यत्र तिष्ठन्ति पादं प्रक्षालयन्ति च ।
तत्स्थानं च महातीर्थं सुपवित्रं भवेध्रुवम् ॥९४॥
स्त्रीघ्नो गोघ्नः कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः ।
जीवन्मुक्तो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥९५॥
एकादशीविहीनश्च संध्याहीनोऽपि नास्तिकः ।
नरघाती भवेत्सूतो मद्भक्तस्पर्शदर्शनात् ॥९६॥
असिजीवी मषीजीवी धावकः शूद्रयाजकः ।
वृषवाहो भवेत्पूतो मद्‌भक्तस्पर्शदर्शनात् ॥९७॥
विश्वासघाती मित्रघ्नो मिथ्यासाक्ष्यप्रदायकः ।
न्यासहारी भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥९८॥
ऋणग्रस्तो वार्धुषिको जारजः पुंश्चलीपतिः ।
पूतश्च पुंश्चलीपुत्रो मद्‌भक्तस्पर्शदर्शनात् ॥९९॥
शूद्राणां सूपकारश्च देवलो ग्रामयाजकः ।
अदीक्षितो भवेत्पूतो मद्‌भक्तस्पर्शदर्शनात् ॥ १००॥
अश्वत्थघातकश्चैव मद्‌भक्तानां च निन्दकः ।
अनिवेदितभोजी च पूतो मद्‌भक्तदर्शनात् ॥ १०१॥
मातरं पितरं भार्यां भ्रातरं तनयं सुताम् ।
गुरोः कुलं च भगिनीं वंशहीनं च बान्धवम् ॥ १०२॥
श्वश्रूं च श्वशुरं चैव यो न पुष्णाति नारद ।
स महापातकी पूतो मद्‌भक्तस्पर्शदर्शनात् ॥ १०३॥
देवद्रव्यापहारी च विप्रद्रव्यापहारकः ।
लाक्षालोहरसानां च विक्रेता दुहितुस्तथा ॥ १०४॥
महापातकिनश्चेते शूद्राणां शवदाहकाः ।
भवेयुरेते पूताश्च मद्‌भक्तस्पर्शदर्शनात् ॥ १०५॥
लक्ष्मीरुवाच
भक्तानां लक्षणं ब्रूहि भक्तानुग्रहकारक ।
येषां संदर्शनस्पर्शात्सद्यःपूता नराधमाः ॥ १०६॥
हरिभक्तिविहीनाश्च महाहंकारसंयुताः ।
स्वप्रशंसारता धूर्ताः शठा वै साधुनिन्दकाः ॥ १०७॥
पुनन्ति सर्वतीर्थानि येषां स्नानावगाहनात् ।
येषां च पादरजसा पूता पादोदकान्मही ॥ १०८॥
येषां संदर्शनं स्पर्शं देवा वाञ्छन्ति भारते ।
सर्वेषां परमो लाभो वैष्णवानां समागमः ॥ १०९॥
नह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।
ते पुनन्त्युरुकालेन विष्णुभक्ताः क्षणादहो ॥ ११०॥
सौतिरुवाच
महालक्ष्मीवचः श्रुत्वा लक्ष्मीकान्तश्च सस्मितः ।
निगूढतत्त्वं कथितुमृषिश्रेष्ठोपचक्रमे ॥ १११॥
श्रीनारायण उवाच-
भक्तानां लक्षणं लक्ष्मि गूढं श्रुतिपुराणयोः ।
पुण्यस्वरूपं पापघ्नं सुखदं भुक्तिमुक्तिदम् ॥ ११२॥
सारभूतं गोपनीयं न वक्तव्यं खलेषु च ।
त्वां पवित्रां प्राणतुल्यां कथयामि निशामय ॥ ११३॥
गुरुवक्त्राद्‌विष्णुमन्त्रो यस्य कर्णे विशेद्वरः ।
वदन्ति वेदवेदाङ्‌गात्तं पवित्रं नरोत्तमम् ॥ ११४॥
पुरुषाणां शतं पूर्वं पूतं तज्जन्ममात्रतः ।
स्वर्गस्थं नरकस्थं वा मुक्तिं प्राप्नोति तत्क्षणात् ॥ ११५॥
यैः कैश्चिद्यत्र वा जन्म लब्धं येषु च जन्तुषु ।
जीवन्मुक्तास्ते च पूता यान्ति काले हरेः पदम् ॥ ११६॥
मद्‌भक्तियुक्तो मत्पूजानियुक्तो मद्गुणान्वितः ।
मद्गुणश्लाघनीयश्च मन्निविष्टश्च संततम् ॥ ११७॥
मद्गुणश्रुतिमात्रेण सानन्दः पुलकान्वितः ।
सगद्‌गदः साश्रुनेत्रः स्वात्मविस्मृतिरेव च ॥ ११८॥
न वाञ्छति सुखं मुक्तिं सालोक्यादिचतुष्टयम् ।
ब्रह्मत्वममरत्वं वा तद्वाञ्छा मम सेवने ॥ ११९॥
इन्द्रत्वं च मनुत्वं च देवत्वं च सुदुर्लभम् ।
स्वर्गराज्यादिभोगं च स्वर्गेऽपि नहि वाञ्छति ॥ १२०॥
ब्रह्माण्डानि विनश्यन्ति देवा ब्रह्मावयस्तथा ।
कल्याणभक्तियुक्तश्च मद्‌भक्तो न प्रणश्यति ॥ १२१॥
भ्रमन्ति भारते भक्ता लब्ध्वा जन्म सुदुर्लभम् ।
तेऽपि यान्ति महीं पूतां कृत्वा तीर्थं ममाऽऽलयम् ॥ १२२॥
इत्येतत्कथितं सर्वं कुरु पद्मे यथोचितम् ।
तदाज्ञाताश्च ताश्चक्रुर्हरिस्तस्थौ सुखासने ॥ १२३॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारदनारायण-
संवादे सरस्वत्युपाख्यानं नाम षष्ठोऽध्यायः ॥६॥


GO TOP