ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - नवमोऽध्यायः

पृथिव्युपाख्यानम् -


नारद उवाच
भूमिदानकृतं पुण्यं पापं तद्धरणेन यत् ।
परभूमौ श्राद्धपापं कूपे कूपदजं तथा ॥ १ ॥
अम्बुवीचीभूखननवीजत्यागजमेव च ।
दीपादिस्थापनात्पापं श्रोतुमिच्छामि यत्‍नतः ॥ २ ॥
अन्यद्वा पृथिवीजन्यं पापं यत्प्रश्नतः परम् ।
यदस्ति तत्प्रतीकारं वद वेदविदां वर ॥ ३ ॥
नारायण उवाच
वितस्तिमानां भूमिं च यो ददाति च भारते ।
संध्यापूताय विप्राय स यायाद्विष्णुमन्दिरम् ॥ ४ ॥
भूमिं च सर्वसस्याढ्यां ब्राह्मणाय ददाति यः ।
भूमिरेणुप्रमाणे च वर्षे विष्णुपदे वसेत् ॥ ५ ॥
ग्रामं भूमिं च धान्यं च यो ददात्याददाति यः ।
सर्वपापाद्विनिर्मुक्तौ चोभौ वैकुण्ठवासिनौ ॥ ६ ॥
भूमिं ददाति यः काले यः साधुश्चानुमोदते ।
स प्रयाति च वैकुण्ठं मित्रगोत्रसमन्वितः ॥ ७ ॥
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः ।
कालसूत्रे तिष्ठति स यावच्चन्द्रदिवाकरौ ॥ ८ ॥
तत्पुत्रपौत्रप्रभृतिर्भूमिहीनः श्रिया हतः ।
सुखहीनो दरिद्रः स्यादन्ते याति च रौरवम् ॥ ९ ॥
गवां मार्गं विनिष्कृष्य यश्च सस्यं ददाति सः ।
दिव्यं वर्षशतं चैव कुम्भीपाके च तिष्ठति ॥ १० ॥
गोष्ठं तडागं निष्कृष्य मार्गं सत्यं ददाति यः ।
स च तिष्ठत्यसीपत्रे यावदिन्द्राश्चतुर्दश ॥ ११ ॥
न पञ्चपिण्डमुद्धृत्य स्नाति कूपे परस्य यः ।
प्राप्नोति नरकं चैव न स्नानफलमेव च ॥ १२ ॥
यमी भूमौ च रहसि बीजत्यागं करोति यः ।
स्निग्धरेणुप्रमाणं च वर्षं तिष्ठति रौरवे ॥ १३ ॥
अम्बुवीच्यां भूखननं यः करोति च मानवः ।
स याति कृमिदंशं च स्थितिस्तत्र चतुर्युगम् ॥ १४ ॥
परकीये लुप्तकूपे कूपं मूढः करोति यः ।
पुष्करिण्यां च लुप्तायां तां ददाति च यो नरः ॥ १५ ॥
सर्वं फलं परस्यैव तप्तसूर्मि व्रजेत्तु सः ।
तत्र तिष्ठति संतप्तो यावदिन्द्राश्चतुर्दश ॥ १६ ॥
परकीयतडागे च पङ्कमुद्धत्य चोत्सृजेत् ।
रेणुप्रमाणवर्षं च ब्रह्मलोके वसेन्नरः ॥ १७ ॥
पिण्डं पित्रे भूमिभर्तुर्न प्रदाय च मानवः ।
श्राद्धं करोति यो मूढो नरकं याति निश्चितम् ॥ १८ ॥
भूमौ दीपं योऽर्पयति सोऽन्धः सप्तसु जन्मसु ।
भूमौ शङ्खं च संस्थाप्य कुष्ठं जन्मान्तरेलभेत् ॥ १९ ॥
मुक्तामाणिक्यहीरं च सुवर्णं च मणि तथा ।
यश्च संस्थापयेद्‌भूमौ दरिद्रः सप्तजन्मसु ॥ २० ॥
शिवलिङ्गं शिलामर्च्यां यश्चार्पयति भूतले ।
शतमन्वन्तरं यावत्कृमिभक्षे स तिष्ठति ॥ २१ ॥
सूक्तं मन्त्रं शिलातोयं पुष्पं च तुलसीदलम् ।
यश्चार्पयति भूमौ च स तिष्ठेन्नरके युगम् ॥ २२ ॥
जपमालां पुष्पमालां कर्पूरं रोचनां तथा ।
यो मूढश्चार्पयेद्‌भूमौ स याति नरकं ध्रुवम् ॥ २३ ॥
मुने चन्दनकाष्ठं च रुद्राक्षं कुशमूलकम् ।
संस्थाप्य भूमौ नरके वसेन्मन्वन्तरावधि ॥ २४ ॥
पुस्तकं यज्ञसूत्रं च भूमौ संस्थापयेत्तु यः ।
न भवेद्विप्रयोनौ च तस्य जन्मान्तरे जनिः ॥ २५ ॥
ब्रह्महत्यासमं पापमिह वै लभते ध्रुवम् ।
ग्रन्थियुक्तं यज्ञसूत्रं पूज्यं स्यात्सर्ववर्णकैः ॥ २६ ॥
यज्ञं कृत्वा तु यो भूमिं क्षीरेण नहि सिञ्चति ।
स याति तप्तसूर्मिं च संतप्तः सर्वजन्मसु ॥ २७ ॥
भूकम्पे ग्रहणे यो हि करोति खननं भुवः ।
जन्मान्तरे महापापी सोऽङ्गहीनो भवेद्ध्रुवम् ॥ २८ ॥
भवनं यत्र सर्वेषां भूमिस्तेन प्रकीर्तिता ।
वसु रत्‍नं या दधाति वसुधा च वसुंधरा ॥ २९ ॥
हरेरूरौ च या जाता सा चोर्वी परिकीर्तिता ।
धरा धरित्री धरणी सर्वेषां धरणात्तु या ॥ ३० ॥
इज्या च यागभरणात्क्षोणी क्षीणालये च या ।
महालये क्षयं याति क्षितिस्तेन प्रकीर्तिता ॥ ३१ ॥
काश्यपी कश्यपस्येयमचला स्थितिरूपतः ।
विश्वंभरा तद्‌भरणाच्चान्ताऽनन्तरूपतः ॥ ३२ ॥
पृथ्वीयं पृथुकन्यात्वाद्विस्तृतत्वान्मही मुने ॥ ३३ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारदनारायण-
संवादे पृथिव्युपाख्यानं नाम नवमोऽध्यायः ॥ ९ ॥


GO TOP