ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - तृतीयोऽध्यायः

विश्वब्रह्माण्डवर्णनम् -


श्रीनारायण उवाच
अथाण्डं तज्जलेऽतिष्ठद्यावद्वै ब्रह्मणो वयः ।
ततः स्वकाले सहसा द्विधारूपो बभूव सः ॥ १ ॥
तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः ।
क्षणं रोरूयमाणश्च स शिशुः पीडितः क्षुधा ॥ २ ॥
पितृमातृपरित्यक्तो जलमध्ये निराश्रयः ।
नैकब्रह्माण्डनाथो यो ददर्शोर्ध्वमनाथवत् ॥ ३ ॥
स्थूलात्स्थूलतमः सोऽपि नाम्ना देवो महाविराट् ।
परमाणुर्यथा सूक्ष्मात्परः स्थूलात्तथाऽप्यसौ ॥ ४ ॥
तेजसां षोडशांशोऽयं कृष्णस्य परमात्मनः ।
आचारोऽसंख्यविश्वानां महाविष्णुः सुरेश्वरः ॥ ५ ॥
प्रत्येकं रोमकूपेषु विश्वानि निखिलानि च ।
अद्यापि तेषां सख्यां च कृष्णो वक्तुं न हि क्षमः ॥ ६ ॥
यथाऽस्ति संख्या रजसां विश्वानां न कदाचन ।
ब्रह्मविष्णुशिवादीनां तथा संख्या न विद्यते ॥ ७ ॥
प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः ।
पातालाद् ब्रह्मलोकान्तं ब्रह्माण्डं परिकीर्तितम् ॥ ८ ॥
तत ऊर्ध्वे च वैकुण्ठो ब्रह्माण्डाद्वे हिरेव सः ।
स च सत्यस्वरूपश्च शश्वन्नारायणो यथा ॥ ९ ॥
तदूर्ध्वं चैव गोलोकः पञ्चाशत्कोटियोजनात् ।
नित्यः सत्यस्वरूपश्च यथा कृष्णस्तथाऽप्ययम् ॥ १० ॥
सप्तद्वीपमिता पृथ्वी सप्तसागरसंयुता ।
एकोनपञ्चाशदुपद्वीपासंख्यवनान्विता ॥ ११ ॥
ऊर्ध्वं सप्त सुवर्लोका ब्रह्मलोकसमन्विताः ।
पातालानि च सप्ताधश्चैवं ब्रह्माण्डमेव च ॥ १२ ॥
ऊर्ध्वं धराया भूर्लोको भुवर्लोकस्ततः परः ।
स्वर्लोकस्तु ततः पश्चान्महर्लोकस्ततो जनः ॥ १३ ॥
ततः परस्तपोलोकः सत्यलोकस्ततः परः ।
ततः परो ब्रह्मलोकस्तप्तकाञ्चननिर्मितः ॥ १४ ॥
एवं सर्वं कृत्रिमं तद्‌बाह्याभ्यन्तर एव च ।
तद्विनाशे विनाशश्च सर्वेषामेव नारद ॥ १५ ॥
जलबुद्‌बुदवत्सर्वं विश्वसंघमनित्यकम् ।
नित्यौ गोलोकवैकुण्ठौ सत्यौ शश्वदकृत्रिमौ ॥ १६ ॥
लोमकूपे च ब्रह्माण्डं प्रत्येकं तस्य निश्चितम् ।
एषां संख्यां न जानाति कृष्णोऽन्यस्यापि का कथा ॥ १७ ॥
प्रत्येकं प्रतिब्रह्माण्डे ब्रह्मविष्णुशिवादयः ।
तिस्रः कोट्यः सुराणां च संख्या सर्वत्र पुत्रक ॥ १८ ॥
दिगीशाश्चैव दिक्पाला नक्षत्राणि ग्रहादयः ।
भुवि वर्णाश्च चत्वारोऽधो नागाश्च चराचराः ॥ १९ ॥
अथ कालेन स विराडूर्ध्वं दृष्ट्‍वा पुनः पुनः ।
डिम्भान्तरं च शून्यं च न द्वितीयं कथंचन ॥ २० ॥
चिन्तामवाप क्षुद्युक्तो रुरोद च पुनः पुनः ।
ज्ञानं प्राप्य तदा दध्यौ कृष्णं परमपूरुषम् ॥ २१ ॥
ततो ददर्श तत्रैव ब्रह्मज्योतिः सनातनम् ।
नवीननीरदश्यामं द्विभुजं पीतवाससम् ॥ २२ ॥
सस्मितं मुरलीहस्तं भक्तानुग्रहकारकम् ।
जहास बालकस्तुष्टो दृष्ट्‍वा जनकमीश्वरम् ॥ २३ ॥
वरं तस्मै ददौ तुष्टो वरेशः समयोचितम् ।
मत्समो ज्ञानयुक्तश्च क्षुत्पिपासाविवर्जितः ॥ २४ ॥
ब्रह्माण्डासंख्यनिलयो भव वत्स लयावधि ।
निष्कामो निर्भयश्चैव सर्वेषां वरदो वरः
रोगमृत्युजराशोकपीडादिपरिवर्जितः ॥ २५ ॥
इत्युक्त्वा तद्‌दक्षकर्णे महामन्त्रं षडक्षरम् ।
त्रिः कृत्वा प्रजजापाऽऽदौ वेदांगमपरं वरम् ॥ २६ ॥
प्रणवादिचतुर्थ्यन्तं कृष्ण इत्यक्षरद्वयम् ।
वह्निजायान्तमिष्टं च सर्वविघ्नहरं परम् ॥ २७ ॥
मन्त्रं दत्त्वा तदाऽऽहारं कल्पयामास वै प्रभुः ।
श्रूयतां तद्‌ब्रह्मपुत्र निबोध कथयामि ते ॥ २८ ॥
प्रतिविश्वेषु नैवेद्यं दद्याद्वै वैष्णवो जनः ।
षोडशांशं विषयिणो विष्णोः पञ्चदशास्य वै ॥ २९ ॥
निर्गुणस्याऽऽत्मनश्चैव परिपूर्णतमस्य च ।
नैवेद्येन च कृष्णस्य नहि किंचित्प्रयोजनम् ॥ ३० ॥
यद्‌ददाति च नैवेद्यं यस्मै देवाय यो जनः ।
स च खादति तत्सर्वं लक्ष्मीदृष्ट्या पुनर्भवेत् ॥ ३१ ॥
तं च मन्त्रं वरं दत्त्वा तमुवाच पुनर्विभुः ।
वर अन्यः क इष्टस्ते तं मे ब्रूहि ददामि ते ॥ ३२ ॥
कृष्णस्य वचनं श्रुत्वा तमुवाच महाविराट् ।
अदन्तो बालकस्तत्र वचनं समयोचितम् ॥ ३३ ॥
महाविराडुवाच
वरं मे त्वत्पदाम्भोजे भक्तिर्भवतु निश्चला ।
संततं यावदायुर्मे क्षणं वा सुचिरं च वा ॥ ३४ ॥
त्वद्‌भक्तियुक्तो यो लोके जीवन्मुक्तः स संततम् ।
त्वद्‌भक्तिहीनो मूर्खश्च जीवन्नपि मृतो हि सः ॥ ३५ ॥
किं तज्जपेन तपसा यज्ञेन यजनेन च ।
व्रतेनैवोपवासेन पुण्यतीर्थनिषेवया ॥ ३६ ॥
कृष्णभक्तिविहीनस्य पुंसः स्याज्जीवनं वृथा ।
येनाऽऽत्मना जीवितश्च तमेव नहि मन्यते ॥ ३७ ॥
यावदात्मा शरीरेऽस्ति तावत्स्याच्छक्तिसंयुतः ।
पश्चाद्यान्ति गते तस्मिन्न स्वतन्त्राश्च शक्तयः ॥ ३८ ॥
स च त्वं च महाभाग सर्वात्मा प्रकृतेः परः ।
स्वेच्छामयश्च सर्वाद्यो ब्रह्मज्योतिः सनातनः ॥ ३९ ॥
इत्युक्त्वा बालकस्तत्र विरराम च नारद ।
उवाच कृष्णः प्रत्युक्तिं मधुरां श्रुतिसुन्दरीम् ॥ ४० ॥
श्रीकृष्ण उवाच
सुचिरं सुस्थिरं तिष्ठ यथाऽहं त्वं तथा भव ।
असंख्यब्रह्मणां पाते पातस्ते न भविष्यति ॥ ४१ ॥
अंशेन प्रतिविध्यण्डे त्वं च पुत्र विराड् भव ।
त्वन्नाभिपद्मे ब्रह्मा च विश्वस्रष्टा भविष्यति ॥ ४२ ॥
ललाटे ब्रह्मणश्चैव रुद्राश्चैकादशैव तु ।
शिवांशेन भविष्यन्ति सृष्टिसंहरणाय वै ॥ ४३ ॥
कालाग्निरुद्रस्तेष्वेको विश्वसंहारकारकः ।
पाता विष्णुश्च विषयी रुद्रांशेन भविष्यति ॥ ४४ ॥
मद्‌भक्तियुक्तः सततं भविष्यसि वरेण मे ।
ध्यानेन कमनीयं मां नित्यं द्रक्ष्यसि निश्चितम् ॥ ४५ ॥
मातरं कमनीयां च मम वक्षःस्थलस्थिताम् ।
यामि लोकं तिष्ठ वत्सेत्युक्त्वा सोऽन्तरधीयत ॥ ४६ ॥
गत्वा च नाकं ब्रह्माणं शंकरं स उवाच ह ।
स्रष्टारं स्रष्टुमीशं च संहर्तारं च तत्क्षणम् ॥ ४७ ॥
श्रीकृष्ण उवाच
सृष्टिं स्रष्टुं गच्छ वत्स नाभिपद्मोद्‌भवो भव ।
महाविराड् लोमकूपे क्षुद्रस्य च विधेः शृणु ॥ ४८ ॥
गच्छ वत्स महादेव ब्रह्ममालोद्‌भवो भव ।
अंशेन च महाभाग स्वयं च रुचिरं तपः ॥ ४९ ॥
इत्युक्त्वा जगतां नाथो विरराम विधेः सुत ।
जगाम नत्वा तं ब्रह्मा शिवश्च शिवदायकः ॥ ५० ॥
महाविराड्लोमकूपे ब्रह्माण्डे गोलके जले ।
स बभूव विराट् क्षुद्रो विराडंशेन सांप्रतम् ॥ ५१ ॥
श्यामो युवा पीतवासाः शयानो जलतल्पके ।
ईषद्धासः प्रसन्नास्यो विश्वरूपी जनार्दनः ॥ ५२ ॥
तन्नाभिकमले ब्रह्मा बभूव कमलोद्‌भवः ।
संभूय पद्मदण्डं च बभ्राम युगलक्षकम् ॥ ५३ ॥
नान्तं जगाभ दण्डस्य पद्मनाभस्य पद्मजः ।
नाभिजस्य च पद्मस्य चिन्तामाप पितामहः ॥ ५४ ॥
स्वस्थानं पुनरागत्य दध्यौ कृष्णपदाम्बुजम् ।
ततो ददर्श क्षुद्रं तं ध्यानेन दिव्यचक्षुषा ॥ ५५ ॥
शयानं जलतल्पे च ब्रह्याण्डगोलकावृते ।
यल्लोमकूपे ब्रह्माण्डं तं च तत्परमीश्वरम् ॥ ५६ ॥
श्रीकृष्णं चापि गोलोकं गोपगोपीसमन्वितम् ।
तं संस्तूय वरं प्राप ततः सृष्टिं चकार सः ॥ ५७ ॥
बभूवुर्ब्रह्मणः पुत्रा मानसाः सनकादयः ।
ततो रुद्राः कपालाच्च शिवस्यैकादश स्मृताः ॥ ५८ ॥
बभूव पाता विष्णुश्च क्षुद्रस्य वामपार्श्वतः ।
चतुर्भुजश्च भगवाञ्श्वेतद्वीपनिवासकृत् ॥ ५९ ॥
क्षुद्रस्य नाभिपद्मे च ब्रह्मा विश्वं ससर्ज सः ।
स्वर्गं मृत्युं च पातालं त्रिलोकं सचराचरम् ॥ ६० ॥
एवं सर्वं लोमकूपे विश्वं प्रत्येकमेव च ।
प्रतिविश्वं क्षुद्रविराड्ब्रह्मविष्णुशिवादयः ॥ ६१ ॥
इत्येवं कथितं वत्स कृष्णसंकीर्तनं शुभम् ।
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥ ६२ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
विश्वब्रह्माण्डवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥


GO TOP