ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - द्वितीयोऽध्यायः

देवदेव्युत्पत्तिः -


नारद उवाच
समासेन श्रुतं सर्वं देवीनां चरितं विभो ।
विबोधनार्थं बोधस्य व्यासतो वक्तुमर्हसि ॥ १ ॥
सृष्टिराद्या सृष्टिविधौ कथमाविर्बभूव ह ।
कथं वा पञ्चधा भूता वद वेदविदां वर ॥ २ ॥
भूता या याश्च कलया तया त्रिगुणया भवे ।
व्यासेन तासां चरितं श्रोतुमिच्छामि सांप्रतम् ॥ ३ ॥
तासां जन्मानुकथनं ध्यानं पूजाविधिं परम् ।
स्तोत्रं कवचमैश्वर्यं शौर्यं वर्णय मङ्गलम् ॥ ४ ॥
नारायण उवाच
नित्यात्मा च नभो नित्यं कालो नित्यो दिशो यथा ।
विश्वेषां गोलकं नित्यं नित्यो गोलोक एव च ॥ ५ ॥
तदेकदेशो वैकुण्ठो लम्बभागः स नित्यकः ।
तथैव प्रकृतिर्नित्या ब्रह्मलीना सनातनी ॥ ६ ॥
यथाऽग्नौ दाहिका चन्द्रे पद्मे शोभा प्रभा रवौ ।
शश्वद्युक्ता न भिन्नासा तथा प्रकृतिरात्मनि ॥ ७ ॥
विना स्वर्णं स्वर्णकारः कुण्डलं कर्तुमक्षमः ।
विना मृदा कुलालो हि घटं कर्तुं नहीश्वरः ॥ ८ ॥
न हि क्षमस्तथा ब्रह्मा सृष्टिं स्रष्टुं तया विना ।
सर्वशक्तिस्वरूपा सा तया स्याच्छक्तिमान्सदां ॥ ९ ॥
ऐश्वर्यवचनःशक्तिः पराक्रम च वाचकः ।
तत्स्वरूपा तयोर्दात्री या सा शक्तिः प्रकीर्तिता ॥ १० ॥
समृद्धिबुद्धिसंपत्तियशसां वचनो भगः ।
तेन शक्तिर्भगवती भगरूपा च सा सदा ॥ ११ ॥
तया युक्तः सदाऽऽत्मा च भगवांस्तेन कथ्यते ।
स च स्वेच्छामयः कृष्णः साकारश्च निराकृतिः ॥ १२ ॥
तेजोरूपं निराकारं ध्यायन्ते योगिनः सदा ।
वदन्ति ते परं ब्रह्म परमात्मानमीश्वरम् ॥ १३ ॥
अदृश्यं सर्वद्रष्टारं सर्वज्ञं सर्वकारणम् ।
सर्वदं सर्वरूपान्तमरूपं सर्वपोषकम् ॥ १४ ॥
वैष्णवास्तं न मन्यन्ते तद्‌भक्ताः सूक्ष्मदर्शिनः ।
वदन्ति इति ते कस्य तेजस्तेजस्विनं विना ॥ १५ ॥
तेजोमण्डलमध्यस्थं ब्रह्मतेजस्विनं परम् ।
स्वेच्छामयं सर्वरूपं सर्वकारणकारणम् ॥ १६ ॥
अतीव सुन्दरं रूपं बिभ्रतं सुमनोहरम् ।
किशोरवयसं शान्तं सर्वकान्तं परात्परम् ॥ १७ ॥
नवीननीरदाभासं रासैकश्यामसुन्दरम् ।
शरन्मध्याह्नपद्मौघशोभामोचकलोचनम् ॥ १८ ॥
मुक्तासारमहास्वच्छदन्तपङ्क्तिमनोहरम् ।
मयूरपुच्छचूडं च मालतीमाल्यमण्डितम् ॥ १९ ॥
सुनासं सस्मितं शश्वद्‌भक्तानुग्रहकारकम् ।
ज्वलदग्निविशुद्धैकपीतांशुकसुशोभितम् ॥ २० ॥
द्विभुजं मुरलीहस्तं रत्‍नभूषणभूषितम् ।
सर्वाधारं च सर्वेशं सर्वशक्तियुतं विभुम् ॥ २१ ॥
सर्वेश्वर्यप्रदं सर्वं स्वतन्त्रं सर्वमङ्गलम् ।
परिपूर्णतमं सिद्धं सिद्धिदं सिद्धिकारणम् ॥ २२ ॥
ध्यायन्ते वैष्णवाः शश्वदेवंरूपं सनातनम् ।
जन्ममृत्युजराव्याधिशोकभीतिहरं परम् ॥ २३ ॥
ब्रह्मणो वयसा यस्य निमेष उपचर्यते ।
स चाऽऽत्मा परमं ब्रह्म कृष्ण इत्यभिधीयते ॥ २४ ॥ ।
कृषिस्तद्‌भक्तिवचनो नश्च तद्‌दास्यवाचकः ।
भक्तिदास्यप्रदाता यः स कृष्णः परिकीर्तितः ॥ २५ ॥
कृषिश्च सर्ववचनो नकारो बीजवाचकः ।
सर्वबीजं परं ब्रह्म कृष्ण इत्यभिधीयते ॥ २६ ॥
असंख्यब्रह्मणां पाते कालेऽतीतेऽपि नारद ।
यद्‌गुणानां नास्ति नाशस्तत्समानो गुणेन च ॥ २७ ॥
स कृष्णः सर्वसृष्ट्यादौ सिसृक्षुस्त्वेक एव च ।
सृष्ट्युन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः ॥ २८ ॥
स्वेच्छामयःस्वेच्छया च द्विधारूपो बभूव ह ।
स्त्रीरूपा वामभागांशाद्‌दक्षिणांशः पुमान् स्मृतः ॥ २९ ॥
तां ददर्श महाकामी कामाधारः सनातनः ।
अतीव कमनीयां च चारुचम्पकसंनिभाम् ॥ ३० ॥
पूर्णेन्दुबिम्बसदृशनितम्बयुगलां पराम् ।
सुचारुकदलीस्तम्भसदृशश्रोणिसुन्दरीम् ॥ ३१ ॥
श्रीयुक्तश्रीफलाकारस्तनयुग्ममनोरमाम् ।
पुष्ट्या युक्तां सुललितां मध्यक्षीणां मनोहराम् ॥ ३२ ॥
अतीव सुन्दरीं शान्तां सस्मितां वक्रलोचनाम् ।
वह्निशुद्धांशुकाधानां रत्‍नभूषणभूषिताम् ॥ ३३ ॥
शश्वच्चक्षुश्चकोराभ्यां पिबन्ती संततं मुदा ।
कृष्णस्य सुन्दरमुखं चन्द्रकोटिविनिन्दकम् ॥ ३४ ॥
कस्तूरीबिन्दुभिः सार्धमधश्चन्दनबिन्दुना ।
समं सिन्दूरबिन्दुं च भालमध्ये च बिभ्रतीम् ॥ ३५ ॥
सुवक्रकबरीभारं मालतीमाल्यभूषितम् ।
रत्‍नेन्द्रसारहारं च दधतीं कान्तकामुकीम् ॥ ३६ ॥
कोटिचन्द्रप्रभाजुष्टपुष्टशोभासमन्विताम् ।
गमने राजहंसीं तां दृष्ट्या खञ्जनगञ्जनीम् ॥ ३७ ॥
मतिमात्रं तया सार्धं रासेशो रासमण्डले ।
रासोल्लासेषु रहसि रासक्रीडां चकार ह ॥ ३८ ॥
नानाप्रकारशृङ्गारं शृङ्गारो मूर्तिमानिव ।
चकार सुखसंभोगो यावद्वै ब्रह्मणो वयः ॥ ३९ ॥
ततः स च परिश्रान्तस्तस्या योनौ जगत्पिता ।
चकार वीर्याधानं च नित्यानन्दः शुभक्षणे ॥ ४० ॥
गात्रतो योषितस्तस्याः सुरतान्ते च सुव्रत ।
निःससार श्रमजलं श्रान्तायास्तेजसा हरेः ॥ ४१ ॥
महासुरतखिन्नाया निःश्वासश्च बभूव ह ।
तदाधारश्रमजलं तत्सर्वं विश्वगोलकम् ॥ ४२ ॥
स च निःश्वासवायुश्च सर्वाधारो बभूव ह ।
निःश्वासवायुः सर्वेषां जीविनां च भवेषु च ॥ ४३ ॥
बभूव मूर्तिमद्वायोर्वामाङ्गात्प्राणवल्लभा ।
तत्पत्‍नी सा च तत्पुत्राः प्राणाः पञ्च च जीविनाम् ॥ ४४ ॥
प्राणोऽपानः समानश्चैवोदानो व्यान एव च ।
बभूवुरेव तत्पुत्रा अधः प्राणाश्च पञ्च च ॥ ४५ ॥
धर्मतोयाधिदेवश्च बभूव वरुणो महान् ।
तद्वामाङ्‌गाच्च तत्पत्‍नी वरुणानी बभूव सा ॥ ४६ ॥
अथ सा कृष्णशक्तिश्च कृष्णाद्‌गर्भं दधार ह ।
शतमन्वन्तरं यावज्ज्वलन्ती ब्रह्मतेजसा ॥ ४७ ॥
कृष्णप्राणाधिदेवी सा कृष्णप्राणाधिकप्रिया ।
कृष्णस्य सङ्गिनी शश्वत्कृष्णवक्षःस्थलस्थिता ॥ ४८ ॥
शतमन्वन्तरातीतकाले परमसुन्दरी ।
सुषावाण्डं सुवर्णाभं विश्वाधार लयं परम् ॥ ४९ ॥
दृष्ट्‍वा चाण्डं हि सा देवी हृदयेन विदूयता ।
उत्ससर्ज च कोपेन तदण्डं गोलके जले ॥ ५० ॥
दृष्ट्‍वा कृष्णश्च तत्त्यागं हाहाकारं चकार ह ।
शशाप देवी देवेशस्तत्क्षणं च यथोचितम् ॥ ५१ ॥
यतोऽपत्यं त्वया त्यक्तं कोपशीले सुनिष्ठुरे ।
भव त्वमनपत्याऽपि चाद्यप्रभृति निश्चितम् ॥ ५२ ॥
या यास्त्वदंशरूपाश्च भविष्यन्ति सुरस्त्रियः ।
अनपत्या ताः सर्वास्त्वत्समा नित्ययौवनाः ॥ ५३ ॥
एतस्मिन्नन्तरे देवोजिह्वाग्रात्सहसा ततः ।
आविर्बभूव कन्यैका शुक्लवर्णा मनोहरा ॥ ५४ ॥
पीतवस्त्रपरिधाना वीणापुस्तकधारिणी ।
रत्‍नभूषणभूषाढ्या सर्वशास्त्राधिदेवता ॥ ५५ ॥
अथ कालान्तरे सा च द्विधारूपा बभूव ह ।
वामार्धाङ्‍गा च कमला दक्षिणार्धा च राधिका ॥ ५६ ॥
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव ह ।
दक्षिणार्धः स्याद्‌द्विभुजो वामार्धश्च चतुर्भुजः ॥ ५७ ॥
उवाच वाणीं श्रीकृष्णस्त्वमस्य भव कामिनी ।
अत्रैव मानिनी राधा नैव भद्रं भविष्यति ॥ ५८ ॥
एवं लक्ष्मीं संप्रददौ तुष्टो नारायणाय वै ।
संजगाम च वैकुण्ठं ताभ्यां सार्धं जगत्पतिः ॥ ५९ ॥
अनपत्ये च ते द्वे च यतो राधांशसंभवे ।
नारायणाङ्गादभवन्पार्षदाश्च चतुर्भुजाः ॥ ६० ॥
तेजसा वयसा रूपगुणाभ्यां च समा हरेः ।
बभूवुः कमलाङ्गाच्च दासीकोट्यश्च तत्समाः ॥ ६१ ॥
अथ गोलोकनाथस्य लोम्नां विवरतो मुने ।
आसन्नसंख्यगोपाश्च वयसा तेजसा समाः ॥ ६२ ॥
रूपेण सुगुणेनैव वेषाद्वा विक्रमेण च ।
प्राणतुल्याः प्रियाः सर्वे बभूवु पार्षदा विभोः ॥ ६३ ॥
राधाङ्‌गलोमकूपेभ्यो बभूवुर्गोपकन्यकाः ।
राधातुल्याश्च सर्वास्ता नान्यतुल्याः प्रियंवदाः ॥ ६४ ॥
रत्‍नभूषणभूषाढ्याः शश्वत्सुस्थिरयौवनाः ।
अनपत्याश्च ताः सर्वाः पुंसः शापेन संततम् ॥ ६५ ॥
एतस्मिन्नन्तरे विप्र सहसा कृष्णदेहतः ।
आविर्बभूव सा दुर्गा विष्णुमाया सनातनी ॥ ६६ ॥
देवी नारायणीशाना सर्वशक्तिस्वरूपिणी ।
बुद्ध्यधिष्ठातृदेवो सा कृष्णस्य परमात्मनः ॥ ६७ ॥
देवीनां बीजरूपा च मूलप्रकृतिरीश्वरी ।
परिपूर्णतमा तेजःस्वरूपा त्रिगुणात्मिका ॥ ६८ ॥
तप्तकाञ्चनवर्णाभा सूर्यकोटिसमप्रभा ।
ईषद्धासप्रसन्नास्या सहस्रभुजसंयुता ॥ ६९ ॥
नानाशस्त्रास्त्रनिकरं बिभ्रती सा त्रिलोचना ।
वह्निशुद्धांशुकाधाना रत्‍नभूषणभूषिता ॥ ७० ॥
यस्याश्चांशांशकलया बभूवुः सर्वयोषितः ।
सर्वविश्वस्थिता लोका मोहिता मायया यया ॥ ७१ ॥
सर्वैश्वर्यप्रदात्री च कामिनां गृहमेधिनाम् ।
कृष्णभक्तिप्रदात्री च वैष्णवानां च वैष्णवी ॥ ७२ ॥
मुमुक्षूणां मोक्षदात्री सुखिनां सुखदायिनी ।
स्वर्गेषु स्वर्गलक्ष्मीः सा गृहलक्ष्मीर्गृहेष्वसौ ॥ ७३ ॥
तपस्विषु तपस्या च श्रीरूपा सा नृपेषु च ।
या चाग्नौ दाहिकारूपा प्रभारूपा च भास्करे ॥ ७४ ॥
शोभास्वरूपा चन्द्रे च पद्मेषु च सुशोभना ।
सर्वशक्तिस्वरूपा या श्रीकृष्णे परमात्मनि ॥ ७५ ॥
यया च शक्तिमानात्मा यया वै शक्तिमज्जगत् ।
यया विना जगत्सर्वं जीवन्मृतमिव स्थितम् ॥ ७६ ॥
या च संसारवृक्षस्य बीजरूपा सनातनी ।
स्थितिरूपा बुद्धिरूपा फलरूपा च नारद ॥ ७७ ॥
क्षुत्पिपासा दया श्रद्धा निद्रा तन्द्रा क्षमा धृतिः ।
शान्तिर्लज्जा तुष्टिपुष्टिभ्रान्तिकान्त्यादिरूपिणी ॥ ७८ ॥
सा च संस्तूय सर्वेशं तत्पुरः समुपस्थितः ।
रत्‍नसिंहासनं तस्यै प्रददौ राधिकेश्वरः ॥ ७९ ॥
एतस्मिन्नन्तरे तत्र सस्त्रीकश्च चतुर्मुखः ।
पद्मनाभनाभिपद्मान्निःससार पुमान्मुने ॥ ८० ॥
कमण्डलुधरः श्रीमांस्तपस्वी ज्ञानिनां वरः ।
चतुर्मुखस्तं तुष्टाव प्रज्वलन्ब्रह्मतेजसा ॥ ८१ ॥
सुदती सुन्दरी श्रेष्ठा शतचन्द्रसमप्रभा ।
वह्निशुद्धांशुकाधाना रत्‍नभूषणभूषिता ॥ ८२ ॥
रत्‍नसिंहासने रम्ये स्तुता वै सर्वकारणम् ।
उवास स्वामिना सार्धं कृष्णस्य पुरतो मुदा ॥ ८३ ॥
एवस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः ।
वामार्धाङ्गो महादेवो दक्षिणो गोपिकापतिः ॥ ८४ ॥
शुद्धस्फटिकसंकाशः शतकोटिरविप्रभः ।
त्रिशूलपट्टिशधरो व्याघ्रचर्मधरो हरः ॥ ८५ ॥
तप्तकाञ्चनवर्णाभजटाभारधरः परः ।
भस्मभूषणगात्रश्च सस्मितश्चन्द्रशेखरः ॥ ८६ ॥
दिगम्बरो नीलकण्ठः सर्वभूषणभूषितः ।
बिभ्रद्‌दक्षिणहस्तेन रत्‍नमालां सुसंस्कृताम् ॥ ८७ ॥
प्रजपन्पञ्चवक्त्रेण ब्रह्मज्योतिः सनातनम् ।
सत्यस्वरूपं श्रीकृष्णं परमात्मानमीश्वम् ॥ ८८ ॥
कारणं कारणानां च सर्वमङ्गलमङ्गलम् ।
जन्ममृत्युजराव्याधिशोकभीतिहरं परम् ॥ ८९ ॥
संस्तूय मृत्योर्मृत्युं तं जातो मृत्युंजयाभिधः ।
रत्‍नसिंहासने रम्ये समुवास हरेः पुरः ॥ ९० ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारायणनारदसंवादे
देवदेव्युत्पत्तिर्नाम द्वितीयाऽध्यायः ॥ २ ॥


GO TOP