ब्रह्मवैवर्तपुराणम् - द्वितीयं प्रकृतिखण्डम् - प्रथमोऽध्यायः

ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - प्रथमोऽध्यायः

प्रकृतिस्वरूपतद्‌भेदवर्णनम् -


नारद उवाच
गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती ।
सावित्री वै सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ॥ १ ॥
आविर्बभूव सा केन का वा सा ज्ञानिनां वरा ।
किंवा तल्लक्षणं ब्रूहि साऽभवत्पञ्चधा कथम् ॥ २ ॥
सर्वासां चरितं पूजाविधानं कथमीप्सितम् ।
अवतारं कुत्र कस्यास्तन्मां व्याख्यातुमर्हसि ॥ ३ ॥
नारायण उवाच
प्रकृतेर्लक्षणं वत्स को वा वक्तुं क्षमो भवेत् ।
किंचित्तथाऽपि वक्ष्यामि यच्छ्रुतं धर्मवक्त्रतः ॥ ४ ॥
प्रकृष्टवाचकः प्रश्च कृतिश्च सृष्टिवाचकः ।
सृष्टौ प्रकृष्टा या देवी प्रकृतिः सा प्रकीर्तिता ॥ ५ ॥
गुणे प्रकृष्टसत्त्वे च प्रशब्दो वर्तते श्रुतौ ।
मध्यमे कृश्च रजसि तिशब्दस्तमसि स्मृतः ॥ ६ ॥
त्रिगुणात्मस्वरूपा या सर्वशक्तिसमन्विता ।
प्रधाना सृष्टिकरणे प्रकृतिस्तेनकथ्यते ॥ ७ ॥
प्रथमे वर्तते प्रश्च कृतिः स्यात्सृष्टिवाचकः ।
सृष्टेराद्या च या देवी प्रकृतिः सा प्रकीर्तिता ॥ ८ ॥
योगेनाऽऽत्मा सृष्टिविधौ द्विधारूपोबभूवसः ।
पुमांश्च दक्षिणार्धाङ्गो वामाङ्गःप्रकृतिः स्मृतः ॥ ९ ॥
सा च ब्रह्मस्वरूपा स्यान्माया नित्या सनातनी ।
यथाऽऽत्मा च तथा शक्तिर्यथाऽग्नौ दाहिका स्मृता ॥ १० ॥
अत एव हि योगीन्द्रः स्त्रीपुंभेदं न मन्यते ।
सर्वं ब्रह्ममयं ब्रह्मञ्छश्वत्पश्यति नारद ॥ ११ ॥
स्वेच्छामयस्येच्छया च श्रीकृष्णस्य सिसृक्षया ।
साऽविर्बभूव सहसा मूलप्रकृतिरीश्वरी ॥ १२ ॥
तदाज्ञया पञ्चविधा सृष्टिकर्मणि भेदतः ।
अथ भक्तानुरोधाद्वा भक्तानुग्रहविग्रहा ॥ १३ ॥
गणेशमाता दुर्गा या शिवरूपा शिवप्रिया ।
नारायणी विष्णुमाया पूर्णब्रह्मस्वरूपिणी ॥ १४ ॥
ब्रह्मादिदेवैर्मुनिभिर्मनुभिः पूजिता सदा ।
सर्वाधिष्ठातृदेवी सा ब्रह्मरूपा सनातनी ॥ १५ ॥
यशोमङ्गलवर्मश्रीसत्यपुण्यप्रदायिनी ।
मोक्षहर्षप्रदात्रीयं शोकदुःखार्तिनाशिनी ॥ १६ ॥
शरणागतदीनार्तपरित्राणपरायणा ।
तेजःस्वरूपा परमा तदधिष्ठातृदेवता ॥ १७ ॥
सर्वशक्तिस्वरूपा च शक्तिरीशस्य संततम् ।
सिद्धेश्वरी सिद्धरूपा सिद्धिदा सिद्धिदेश्वरी ॥ १८ ॥
बुद्धिर्निद्रा क्षुत्पिपासा छाया तन्द्रा दया स्मृतिः ।
जातिः क्षान्तिश्च शान्तिश्च कान्तिर्भ्रान्तिश्च चेतना ॥ १९ ॥
तुष्टिः पुष्टिस्तथा लक्ष्मीर्वृत्तिर्माता तथैव च ।
सर्वशक्तिस्वरूपा सा कृष्णस्य परमात्मनः ॥ २० ॥
उक्तः श्रुतौ श्रुतगुणश्चातिस्वल्पो यथाऽऽगमम् ।
गुणोऽस्त्यनन्तोऽनन्ताया अपरां च निशामय ॥ २१ ॥
शुद्धसत्त्वस्वरूपा या पद्मा च परमात्मनः ।
सर्वसंपत्स्वरूपा या तदधिष्ठातृदेवता ॥ २२ ॥
कान्ता दान्ताऽतिशान्ता च सुशीला सर्वमङ्गला ।
लोभान्मोहात्कामरोषान्मदाहंकारतस्तथा ॥ २३ ॥
त्यक्ताऽनुरक्ता पत्युश्च सर्वाद्या च पतिव्रता ।
प्राणतुल्या भगवतः प्रेमपात्री प्रियंवदा ॥ २४ ॥
सर्वसस्यात्मिका सर्वजीवनोपायरूपिणी ।
महालक्ष्मीश्च वैकुण्ठे पतिसेवापरायणा ॥ २५ ॥
स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु ।
गृहे च गृहलक्ष्मीश्च मर्त्यानां गृहिणां तथा ॥ २६ ॥
सर्वेषु प्राणिद्रव्येषु शोभारूपा मनोहरा ।
प्रीतिरूपा पुण्यवतां प्रभारूपा नृपेषु च ॥ २७ ॥
वाणिज्यरूपा वणिजां पापिनां कलहङ्करी ।
दयामयी भक्तमाता भक्तानुग्रहकारिका ॥ २८ ॥
चपले चपला भक्तसम्पदो रक्षणाय च ।
जगज्जीवन्मृतं सर्वं यया देव्या विना मुने ॥ २९ ॥
शक्तिर्द्वितीया कथिता वेदोक्ता सर्वसंमता ।
सर्वपूज्या सर्ववन्द्या चान्यां मत्तो निशामय ॥ ३० ॥
वाग्बुद्धिविद्याज्ञानाधिदेवता परमात्मनः ।
सर्वविद्यास्वरूपा या सा च देवो सरस्वती ॥ ३१ ॥
सुबुद्धिः कविता मेधा प्रतिभा स्मृतिदा नृणाम् ।
नानाप्रकारसिद्धान्तभेदार्थकल्पनाप्रदा ॥ ३२ ॥
व्याख्याबोधस्वरूपा च सर्वसन्देहभञ्जनी ।
विचारकारिणी ग्रन्थकारिणो शक्तिरूपिणी ॥ ३३ ॥
सर्वसंगीतसंधानतालकारणरूपिणी ।
विषयज्ञानवाग्‌रूपा प्रतिविश्वं च जीविनाम् ॥ ३४ ॥
ययाविना च विश्वौघो मूकोमृतसमः सदा ।
व्याख्यामुद्राकरा शान्ता वीणापुस्तकधारिणी ॥ ३५ ॥
शुद्धसत्त्वस्वरूपा या सुशीला श्रीहरिप्रिया ।
हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभा ॥ ३६ ॥
जपन्ती परमात्मानं श्रीकृष्णं रत्‍नमालया ।
तपःस्वरूपा तपसां फलदात्री तपस्विनी ॥ ३७ ॥
सिद्धिविद्यास्वरूपा च सर्वसिद्धिप्रदा सदा ।
देवी तृतीया गदिता श्रीयुक्ता जगदम्बिका ॥ ३८ ॥
यथागमं यथाकिंचिदपरां संनिबोध मे ।
माता चतुर्णां वेदानां वेदाङ्गानां च च्छन्दसाम् ॥ ३९ ॥
संध्यावन्दनमन्त्राणां तन्त्राणां च विचक्षणा ।
द्विजातिजातिरूपा च जपरूपा तपस्विनी ॥ ४० ॥
ब्राह्मण्यतेजोरूपा च सर्वसंस्कारकारिणी ।
पवित्ररूपा सावित्री गायत्री ब्रह्मणः प्रिया ॥ ४१ ॥
तीर्थानि यस्या संस्पर्श दर्शं वाञ्छन्ति शुद्धये ।
शुद्धस्फटिकसंकाशा शुद्धसत्त्वस्वरूपिणी ॥ ४२ ॥
परमानन्दरूपा च परमा च सनातनी ।
परब्रह्मस्वरूपा च निर्वाणपददायिनी ॥ ४३ ॥
ब्रह्मतेजोमयी शक्तिस्तदधिष्ठातृदेवता ।
यत्पादरजसा पूतं जगत्सर्वं च नारद ॥ ४४ ॥
देवी चतुर्थी कथिता पञ्चमीं वर्णयामि ते ।
प्रेमप्राणाधिदेवी या पञ्चप्राणस्वरूपिणी ॥ ४५ ॥
प्राणाधिकप्रियतमा सर्वाद्या सुन्दरी वरा ।
सर्वसौभाग्ययुक्ता च मानिनो गौरवान्विता ॥ ४६ ॥
वामार्धाङ्गस्वरूपा च सुगुणैस्तेजसा समा ।
परावरा सर्वमाता परमाद्या सनातनी ॥ ४७ ॥
परमानन्दरूपा च धन्या मान्या च पूजिता ।
रासक्रीडाधिदेवी च कृष्णस्य परमात्मनः ॥ ४८ ॥
रासमण्डलसम्भूता रासमण्डलमण्डिता ।
रासेश्वरी सुरसिका रासावासनिवासिनी ॥ ४९ ॥
गोलोकवासिनी देवी गोपीवेषविधायिका ।
परमाह्लादरूपा च सन्तोषामर्षरूपिणी ॥ ५० ॥
निर्गुणा च निराकारा निर्लिप्ताऽऽत्मस्वरूपिणी ।
निरीहा निरहंकारा भक्तानुग्रहविग्रहा ॥ ५१ ॥
वेदानुसारध्यानेन विज्ञेया सा विचक्षणैः ।
दृष्टिर्दृष्टा सहस्रेषु सुरेन्द्रैर्मुनिपुंगवैः ॥ ५२ ॥
वह्निशुद्धांशुकाधाना रत्‍नालंकारभूषिता ।
कोटिचन्द्रप्रभाजुष्टश्रीयुक्ता भक्तविग्रहा ॥ ५३ ॥
श्रीकृष्णभक्तदास्यैकदायिनी सर्वसंपदाम् ।
अवतारे च वाराहे वृषभानुसुता च या ॥ ५४ ॥
यत्पादपद्मसंस्पर्शपवित्रा च वसुंधरा ।
ब्रह्मादिभिरदृष्टा या सर्वदृष्टा च भारते ॥ ५५ ॥
स्त्रिरत्‍नसारसंभूता कृष्णवक्षःस्थलोज्ज्वला ।
यथा धने नवधने लोला सौदामिनी मुने ॥ ५६ ॥
षष्टिवर्षसहस्राणि प्रतप्तं ब्रह्मणा पुरा ।
यत्पादपद्मनखरदृष्टये चाऽन्त्यशुद्धये ॥ ५७ ॥
स्वप्नेऽपि नैव दृष्टा स्यात्प्रत्यक्षे तु च का कथा ।
तेनैव तपसा दृष्टा भूरिवृन्दावने वने ॥ ५८ ॥
कथिता पञ्चमी देवी सा राधा परिकीर्तिता ।
अंशरूपा कलारूपा कलाशांशसमुद्‌भवा ॥ ५९ ॥
प्रकृतेः प्रतिविश्वं च रूपं स्यात्सर्वयोषितः ।
परिपूर्णतमाः पञ्चविधा देव्यः प्रकीर्तिताः ॥ ६० ॥
या या प्रधानांशरूपा वर्णयामि निशामय ।
प्रधानांशस्वरूपा च गङ्गा भुवनपावनी ॥ ६१ ॥
विष्णुपादाब्जसंभूता द्रवरूपा सनातनी ।
पापिपापेध्मदाहाय ज्वलदिन्धनरूपिणी ॥ ६२ ॥
दर्शनस्पर्शनस्नानपानैर्निर्वाणदायिनी ।
गोलोकस्थानगमनसुसोपानस्वरूपिणी ॥ ६३ ॥
पवित्ररूपा तीर्थानां सरितां च परा वरा ।
शंभुमौलिजटामेरुमुक्तापङ्क्तिस्वरूपिणी ॥ ६४ ॥
तपःसंपादिनी सद्यो भारते च तपस्विनाम् ।
शङ्खपद्मक्षीरनिभा शुद्धसत्त्वस्वरूपिणी ॥ ६५ ॥
निर्मला निरहंकारा साध्वी नारायणप्रिया ।
प्रधानांशस्वरूपा च तुलसी विष्णुकामिनी ॥ ६६ ॥
विष्णुभूषणरूपा च विष्णुपादस्थिता सती ।
तपः संकल्पपूजादि सद्यः संपादनी मुने ॥ ६७ ॥
सारभूता च पुष्पाणां पवित्रा पुण्यदा सदा ।
दर्शनस्पर्शनाभ्यां च सद्यो निर्वाणदायिनी ॥ ६८ ॥
कलौ कलुषशुष्केध्मदाहनायाग्निरूपिणी ।
यत्पादपद्मसंस्पर्शात्सद्यःपूता वसुंधरा ॥ ६९ ॥
यत्स्पर्शदर्शं वाञ्छन्ति तीर्थानामात्मशुद्धये ।
यया विना च विश्वेषु सर्वं कर्मास्ति निष्फलम् ॥ ७० ॥
मोक्षदा या मुमुक्षूणां कामिनां सर्वकामदा ।
कल्पवृक्षस्वरूपा च भारते वृक्षरूपिणी ॥ ७१ ॥
त्राणाय भारतानां च प्रजानां परदेवता ।
प्रधानांशस्वरूपा च मनसा कश्यपात्मजा ॥ ७२ ॥
शंकरप्रियशिष्या च महाज्ञानविशारदा ।
नागेश्वरस्यानन्तस्य भगिनी नागपूजिता ॥ ७३ ॥
नागेश्वरी नागमाता सुन्दरी नागवाहिनी ।
नागेन्द्रगणयुक्ता सा नागभूषणभूषिता ॥ ७४ ॥
नागेन्द्रवन्दिता सिद्धयोगिनी नागवासिनी ।
विष्णुभक्ता विष्णुरूपा विष्णुपूजापरायणा ॥ ७५ ॥
तपःस्वरूपा तपसां फलदात्री तपस्विनी ।
दिव्यं त्रिलक्षवर्षं च तपस्तप्तं यया हरेः ॥ ७६ ॥
तपस्विनीषु पूज्या च तपस्विषु च भारते ।
सर्पमन्त्राधिदेवी च ज्वलन्तो ब्रह्मतेजसा ॥ ७७ ॥
ब्रह्मस्वरूपा परमा ब्रह्मभावनतत्परा ।
जरत्कारुमुनेः पत्‍नी कृष्णशम्भुपतिव्रता ॥ ७८ ॥
आस्तीकस्य मुनेर्माता प्रवरस्य तपस्विनाम् ।
प्रधानांशस्वरूपा या देवसेना च नारद ॥ ७९ ॥
मातृका सा पूज्यतमा सा च षष्ठी प्रकीर्तिता ।
शिशूनां प्रतिविश्वं तु प्रतिपालनकारिणी ॥ ८० ॥
तपस्विनी विष्णुभक्ता कार्तिकेयस्य कामिनी ।
षष्ठांशरूपा प्रकृतेस्तेन षष्ठी प्रकीर्तिता ॥ ८१ ॥
पुत्रपौत्रप्रदात्री च धात्री च जगतां सदा ।
सुन्दरी युवती रम्या सततं भर्तुरन्तिके ॥ ८२ ॥
स्थाने शिशुनां परमा वृद्धरूपा च योगिनी ।
पूजा द्वादशमासेषु यस्याः षष्ठ्यास्तु संततम् ॥ ८३ ॥
पूजा च सूतिकागारे परषष्ठदिने शिशोः ।
एकविंशतितमे चैव पूजा कल्याणहेतुकी ॥ ८४ ॥
शश्वन्नियमिता चैषा नित्या काम्याऽप्यतः परा ।
मातृरूपा दयारूपा शश्वद्‌रक्षणकारिणी ॥ ८५ ॥
जले स्थले चान्तरिक्षे शिशूनां स्वप्नगोचरा ।
प्रधानांशस्वरूपा या देवी मङ्गलचण्डिका ॥ ८६ ॥
प्रकृतेर्मुखसंभूता सर्वमङ्गलदा सदा ।
सृष्टौ मङ्गलरूपा च संहारे कोपरूपिणी ॥ ८७ ॥
तेन मङ्गलचण्डी सा पण्डितैः परिकीर्तिता ।
प्रतिमङ्गलवारेषु प्रतिविश्वेषु पूजिता ॥ ८८ ॥
पञ्चोपचारैर्भक्त्या च योषिद्‌भिः परिपूजिता ।
पुत्रपौत्रधनैश्वर्ययशोमङ्गलदायिनी ॥ ८९ ॥
शोकसंतापपापार्तिदुःखदारिद्यनाशिनी ।
परितुष्टा सर्ववाञ्छाप्रदात्री सर्वयोषिताम् ॥ ९० ॥
रुष्टा क्षणेन संहर्तुं शक्ता विश्वं महेश्वरी ।
प्रधानांशस्वरूपा च काली कमललोचना ॥ ९१ ॥
दुर्गाललाटसंभूता रणे शुम्भनिशुम्भयोः ।
दुर्गार्धांशस्वरूपा स्याद् गुणैः सा तेजसा समा ॥ ९२ ॥
कोटिसूर्यप्रभाजुष्टदिव्यसुन्दरविग्रहा ।
प्रधाना सर्वशक्तीनां वरा बलवती परा ॥ ९३ ॥
सर्वसिद्धिप्रदा देवी परमा सिद्धियोगिनी ।
कृष्णभक्ता कृष्णतुल्या तेजसा विक्रमैर्गुणैः ।
कृष्णभावनया शश्वत्कृष्णवर्णा सनातनी ॥ ९४ ॥
ब्रह्माण्डे सकलं हर्तुं शक्ता निःश्वासमात्रतः ।
रणं दैत्यैः समं तस्याः क्रीडया लोकरक्षया ॥ ९५ ॥
धर्मार्थकाममोक्षांश्च दातुं शक्ता सुपूजिता ।
ब्रह्मादिभिः स्तूयमाना मुनिभिर्मनुभिर्नरैः ॥ ९६ ॥
प्रधानांशस्वरूपा च प्रकृतिश्च वसुंधरा ।
आधारभूता सर्वेषां सर्वसस्यप्रसूतिका ॥ ९७ ॥
रत्‍नाकारा रत्‍नगर्भा सर्वरत्‍नाकराश्रया ।
प्रजादिभिः प्रजेशैश्च पूजिता वन्दिता सदा ॥ ९८ ॥
सर्वोपजीवरूपा च सर्वसंपद्‌विधायिनी ।
यया बिना जगत्सर्वं निराधारं चराचरम् ॥ ९९ ॥
प्रकृतेश्च कला या यास्ता निबोध मुनीश्वर ।
यस्य यस्य च याः पत्न्यस्ताः सर्वा वर्णयामि ते ॥ १०० ॥
स्वाहादेवी वह्निपत्‍नी त्रिषु लोकेषु पूजिता ।
यया विना हविर्दत्तं न ग्रहीतुं सुराः क्षमाः ॥ १०१ ॥
दक्षिणा यज्ञपत्‍नी च दीक्षा सर्वत्र पूजिता ।
यया विना च विश्वेषु सर्वं कर्म च निष्फलम् ॥ १०२ ॥
स्वधा पितॄणां पत्‍नी च मुनिभिर्मनुभिर्नरैः ।
पूजिता पैतृकं दानं निष्फलं च यया विना ॥ १०३ ॥
स्वस्तिदेवी वायुपत्‍नी प्रतिविश्वेषु पूजिता ।
आदानं च प्रदानं च निष्फलं च यया विना ॥ १०४ ॥
पुष्टिर्गणपतेः पत्‍नी पूजिता जगतीतले ।
यया विना परिक्षीणाः पुमांसो योषितोऽपि च ॥ १०५ ॥
अनन्तपत्‍नी तुष्टिश्च पूजिता वन्दिता सदा ।
यया विना न संतुष्टाः सर्वलोकाश्च सर्वतः ॥ १०६ ॥
ईशानपत्‍नी संपत्तिः पूजिता च सुरैर्नरैः ।
सर्वे लोका दरिद्राश्च विश्वेषु च यया विना ॥ १०७ ॥
धृतिः कपिलपत्‍नी च सर्वैः सर्वत्र पूजिता ।
सर्वे लोका अधीराः स्युर्जगत्सु च यया विना ॥ १०८ ॥
यमपत्‍नी क्षमा साध्वी सुशीला सर्वपूजिता ।
समुन्मत्ताश्च रुद्राश्च सर्वे लोका यया विना ॥ १०९ ॥
क्रीडाधिष्ठातृदेवी सा कामपत्‍नी रतिः सती ।
केलिकौतुकहीनाश्च सर्वे लोका यथा विना ॥ ११० ॥
सत्यपत्‍नी सती मुक्तिः पूजिता जगतां प्रिया ।
यया विना भवेल्लोको बन्धुतारहितः सदा ॥ १११ ॥
मोहपत्‍नी दया साध्वी पूजिता च जगत्प्रिया ।
सर्वलोकाश्च सर्वत्र निष्ठुराश्च यया विना ॥ ११२ ॥
पुण्यपत्‍नी प्रतिष्ठा सा पुण्यरूपा च पूजिता ।
यया विना जगत्सर्वं जीवन्मृतसमं मुने ॥ ११३ ॥
सुकर्मपत्‍नी कीर्तिश्च धन्या मान्या च पूजिता ।
यया विना जगत्सर्वं यशोहीनं मृतं यथा ॥ ११४ ॥
क्रिया उद्योगपत्‍नी च पूजिता सर्वसंगता ।
यया विना जगत्सर्वमुच्छिन्नमिव नारद ॥ ११५ ॥
अधर्मपत्‍नी मिथ्या सा सर्वधूतैश्च पूजिता ।
यया विना जगत्सर्वमुच्छिन्नं विधिनिर्मितम् ॥ ११६ ॥
सत्ये अदर्शना या च त्रेतायां सूक्ष्मरूपिणी ।
अर्धावयवरूपा च द्वापरे संहृता ह्रिया ॥ ११७ ॥
कलौ महाप्रगल्भा च सर्वत्र व्याप्तिकारणात् ।
कपटेन सह भ्रात्रा भ्रमत्येव गृहे गृहे ॥ ११८ ॥
शान्तिर्लज्जा च भार्ये द्वे सुशीलस्य च पूजिते ।
याभ्यां विना जगत्सर्वमुन्मत्तमिव नारद ॥ ११९ ॥
ज्ञानस्य तिस्रो भार्याश्च बुद्धिर्मेधा स्मृतिस्तथा ।
याभिर्विना जगत्सर्वं मूढं मृतसमं सदा ॥ १२० ॥
मूर्तिश्च धर्मपत्‍नी सा कान्तिरूपा मनोहरा ।
परमात्मा च विश्वौघा निराधारा ययाविना ॥ १२१ ॥
सर्वत्र शोभारूपा च लक्ष्मीर्मूर्तिमती सती ।
श्रीरूपा मूर्तिरूपा च मान्या धन्या च पूजिता ॥ १२२ ॥
कालाग्निरुद्रपत्‍नी च निद्रा या सिद्धयोगिनाम् ।
सर्वलोकाः समाच्छन्ना मायायोगेन रात्रिषु ॥ १२३ ॥
कालस्य तिस्रो भार्याश्च संध्या रात्रिर्दिनानिच ।
याभिर्विना विधात्रा च संख्यां कर्तुं न शक्यते ॥ १२४ ॥
क्षुत्पिपासे लोभभार्ये धन्ये मान्ये च पूजिते ।
याभ्यां व्याप्तं जगत्क्षोभयुक्तं चिन्तितमेव च ॥ १२५ ॥
प्रभा च दाहिकाचैव द्वे भार्ये तेजसस्तथा ।
याभ्यां विना जगत्स्रष्टुं विधाता च नहीश्वरः ॥ १२६ ॥
कालकन्ये मृत्युजरे प्रज्वरस्य प्रिये प्रिये ।
याभ्यां जगत्समुच्छिन्नं विधात्रा निर्मिते विधौ ॥ १२७ ॥
निद्राकन्या च तन्द्रा सा प्रीतिरन्यासुखप्रिये ।
याभ्यां व्याप्तं जगत्सर्वं विधिपुत्र विधेर्विधौ ॥ १२८ ॥
वैराग्यस्य च द्वे भार्ये श्रद्धा भक्तिश्च पूजिते ।
याभ्यां शश्वज्जगत्सर्वं जीवन्मुक्तमिदं मुने ॥ १२९ ॥
अदितिर्देवमाता च सुरभिश्च गवां प्रसूः ।
दितिश्च दैत्यजननी कद्रूश्च विनता दनुः ॥ १३० ॥
उपयुक्ताःसृष्टिविधावेताश्च प्रकृतेः कलाः ।
कलाश्चान्याः सन्ति बह्व्यस्तासु काश्चिन्निबोध मे ॥ १३१ ॥
रोहिणी चन्द्रपत्‍नी च संज्ञा सूर्यस्य कामिनी ।
शतरूपा मनोर्भार्या शचीन्द्रस्य च गेहिनी ॥ १३२ ॥
तारा बृहस्पतेर्भार्या वसिष्ठस्याप्यरुन्धती ।
अहल्या गौतमस्त्री स्यादनसूयाऽत्रिकामिनी ॥ १३३ ॥
देवहूतिः कर्दमस्य प्रसूतिर्दक्षकामिनी ।
पितॄणां मानसी कन्या मेनका साऽम्बिकाप्रसूः ॥ १३४ ॥
लोपामुद्रा तथाऽऽहूतिः कुबेरस्य तु कामिनी ।
वरुणानी यमस्त्री च बलेर्विन्ध्यावलीति च ॥ १३५ ॥
कुन्ती च दमयन्ती च यशोदा देवकी सती ।
गान्धारी द्रौपदी शैब्या सावित्री सत्यवत्प्रिया ॥ १३६ ॥
वृषभानुप्रिया साध्वी राधामाता कलावती ।
मन्दोदरी च कौसल्या सुभद्रा कैकयी तथा ॥ १३७ ॥
रेवती सत्यभामा च कालिन्दी लक्ष्मणा तथा ।
मित्रविन्दा नाग्नजिती तथा जाम्बवती परा ॥ १३८ ॥
लक्ष्मणा रुक्मिणी सीता स्वयं लक्ष्मीः प्रकीर्तिता ।
कला योजनगंधा च व्यासमाता महासती ॥ १३९ ॥
बाणपुत्री तथोषा च चित्रलेखा च तत्सखी ।
प्रभावती भानुमती तथा मायावती सती ॥ १४० ॥
रेणुका च भृगोर्माता हलिमाता च रोहिणी ।
एकाऽनंशा च दुर्गा सा श्रीकृष्णभगिनी सती ॥ १४१ ॥
बह्व्यः सन्ति कलाश्चैव प्रकृतेरेव भारते ।
या याश्च ग्रामदेव्यस्ताः सर्वाश्च प्रकृतेः कलाः ॥ १४२ ॥
कलांशांशसमुद्‌भूताः प्रतिविश्वेषु योषितः ।
योषितामपमानेन प्रकृतेश्च पराभवः ॥ १४३ ॥
ब्राह्मणी पूजिता येन पतिपुत्रवती सती ।
प्रकृतिः पूजिता तेन वस्त्रालंकारचन्दनैः ॥ १४४ ॥
कुमारी चाष्टवर्षीया वस्त्रालंकारचन्दनैः ।
पूजिता येन विप्रस्य प्रकृतिस्तेन पूजिता ॥ १४५ ॥
सर्वाः प्रकृतिसंभूता उत्तमाधममध्यमाः ।
सत्त्वांशाश्चोत्तमा ज्ञेयाः सुशीलाश्च पतिव्रताः ॥ १४६ ॥
मध्यमा रजसश्चांशास्ताश्च भोग्याः प्रकीर्तिताः ।
सुखसंभोगवत्यश्च स्वकार्ये तत्पराः सदा ॥ १४७ ॥
अधमास्तमसश्चांशा अज्ञातकुलसंभवाः ।
दुर्मुखाः कुलटा धूर्ताः स्वतन्त्राः कलहप्रियाः ॥ १४८ ॥
पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः ।
प्रकृतेस्तमसश्चाशाः पुंश्चल्यः परिकीर्तिताः ॥ १४९ ॥
एवं निगदितं सर्वं प्रकृतेर्भेदपञ्चकम् ।
ताः सर्वाः पूजिताः पृथ्व्यां पुण्यक्षेत्रे च भारते ॥ १५० ॥
पूजिता सुरथेनाऽऽदौ दुर्गा दुर्गार्तिनाशिनी ।
द्वितीया रामचन्द्रेण रावणस्य वधार्थिना ॥ १५१ ॥
तत्पश्चाज्जगतां माता त्रिषु लोकेषु पूजिता ।
जाताऽऽदौ दक्षपत्‍न्यां च निहन्तुं दैत्यदानवान् ॥ १५२ ॥
ततो देहं परित्यज्य यज्ञे भर्तुश्च निन्दया ।
जज्ञे हिमवतः पत्‍न्यां लेभे पशुपतिं पतिम् ॥ १५३ ॥
गणेशश्च स्वयं कृष्णः स्कन्दो विष्णुकलोद्‌भवः ।
बभूवतुस्तौ तनयौ पश्चात्तस्याश्च नारद ॥ १५४ ॥
लक्ष्मीर्मङ्‍गलभूपेन प्रथमं परिपूजिता ।
त्रिषु लोकेषु तत्पश्चाद्‌देवतामुनिमानवः ॥ १५५ ॥
सावित्री प्रथमं चापि भक्त्या वै परिपूजिता ।
तत्पश्चात्‌त्रिषु लोकेषु देवतामुनिमानवैः ॥ १५६ ॥
आदौ सरस्वती देवी ब्रह्मणा परिपूजिता ।
तत्पश्चात्त्रिषु लोकेषु देवतामुनिमानवैः ॥ १५७ ॥
प्रथमं पूजिता राधा गोलोके रासमण्डले ।
पौर्णमास्यां कार्तिकस्य कृष्णेन परमात्मना ॥ १५८ ॥
गोपिकाभिश्च गोपैश्च बालिकाभिश्च बालकैः ।
गवां गणैः सुरगणैस्तत्पश्चान्मायया हरेः ॥ १५९ ॥
तदा ब्रह्मादिभिर्देवैर्मुनिभिर्मनुभिस्तथा ।
पुष्पधूपादिभिर्भक्त्या पूजिता वन्दिता सदा ॥ १६० ॥
पृथिव्यां प्रथमं देवी सुयत्‍नेन च पूजिता ।
शंकरेणोपदिष्टेन पुण्यक्षेत्रे च भारते ॥ १६१ ॥
त्रिषु लोकेषु तत्पश्चादाज्ञया परमात्मनः ।
पुष्पधूपादिभिर्भक्त्या पूजिता मुनिभिः सुरैः ॥ १६२ ॥
कला या या सुसंभूताः पूजितास्ताश्च भारते ।
पूजिता ग्रामदेव्यश्च ग्रामे च नगरे मुने ॥ १६३ ॥
एवं ते कथितं सर्वं प्रकृतेश्चरितं शुभम् ।
यथागमं लक्षणं च किं भूयः श्रोतुमिच्छसि ॥ १६४ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारायणनारदसंवादे
प्रकृतिस्वरूपतद्‌भेदवर्णन नाम प्रथमोऽध्यायः ॥ १ ॥


GO TOP