ब्रह्मवैवर्तपुराणम् - प्रथमं ब्रह्मखण्डम् - त्रिंशोऽध्यायः

ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - त्रिंशोऽध्यायः

भगवत्स्तुतितत्स्वरूयमायास्वरूपवर्णनम् -


श्रीनारायण उवाच
लम्बोदरो हरिरुमापतिरादिशेष-
    ब्रह्मादयः सुरगणा मनवो मुनीन्द्राः
वाणीशिवात्रिपथगाकमलादिकाश्च
    संचिन्तयेद्‌भगवतश्चरणारविन्दम् ॥ १॥
संसारसागरमतीव गभीरघोरं
    दावाग्निसर्पपरिवेष्टितचेष्टिताङ्गम् ।
संलङ्घ्य गन्तुमभिवाञ्छति यो हि दास्यं
    संचिन्तयेद्‌भगवतश्चरणारविन्दम् ॥२॥
गोवर्धनोद्धरणकीर्तिरतीवखिन्ना
    भूर्धारिता च दशनाग्रत एव चाऽऽर्द्रा ।
विश्वानि लोमविवरेषु बिभर्तुरादेः
    संचिन्तयेद्‌भगवतश्चरणारविन्दम् ॥३॥
वेदाङ्गवेदमुखनिःसृतकीर्तिरंशै-
    र्वेदाङ्गवेदजनकस्य हरेर्विधातुः ।
जन्मान्तकादिभयशोकविदीर्णदेहः
    संचिन्तयेद्‌भगवतश्चरणारविन्दम् ॥४॥
गोपाङ्गनावदनपङ्कजषट्पदस्य
    रासेश्वरस्य रसिकारमणस्य पुंसः ।
वृन्दावने विहरतो व्रजवेषविष्णोः
    सचिन्तयेद्‌भगवतश्चरणारविन्दम् ॥५॥
चक्षुर्निमेषपतितो जगतां विधाता
    तत्कर्म वत्स कथितुं भुवि कः समर्थः ।
त्वं चापि नारदमुने परमादरेण
    संचिन्तनं कुरु हरेश्चरणारविन्दम् ॥६॥
यूयं वयं तस्य कलाकलांशाः
    कलाकलांशा मनवो मुनीन्द्राः ।
कलाविशेषा भवपाद्ममुख्या
    महान्विराड् यस्य कलाविशेषः ॥७॥
सहस्रशीर्षा शिरसः प्रदेशे
    बिभर्ति सिद्धार्थसमं च विश्वम्।
कूर्मे च शेषो मशको गजे यथा
    कूर्मश्च कृष्णस्य कलाकलांशः ॥८॥
गोलोकनाथस्य विभोर्यशोऽमलं
    श्रुतौ पुराणे नहि किंचन स्फुटम् ।
न पाद्ममुख्याः कथितुं समर्थाः
    सर्वेश्वरं तं भज पाद्मपुत्र ॥९॥
विश्वेषु सर्वेषु च विश्वधाम्नः
    सन्त्येव शश्वद्विधिविष्णुरुद्राः ।
तेषां च संख्याः श्रुतयश्च देवाः
    परं न जानन्ति तमीश्वरं भज ॥ १०॥
करोति सृष्टिं स विधेर्विधाता
    विधाय नित्यां प्रकृतिं जगत्प्रसूम् ।
ब्रह्मादयः प्राकृतिकाश्च सर्वे
    भक्तिप्रदां श्रीं प्रकृतिं भजन्ति ॥ ११॥
ब्रह्मस्वरूपा प्रकृतिर्न भिन्ना
    यया च सृष्टिं कुरुते सनातनः ।
स्त्रियश्च सर्वा कलया जगत्सु
    माया च सर्वे च तया विमोहिताः ॥ १२॥
नारायणी सा परमा सनातनी
    शक्तिश्च पुंसः परमात्मनश्च ।
आत्मेश्वरश्चापि यया च शक्तिमां-
    स्तया विना स्रष्टुमशक्त एव ॥ १३॥
गत्वा विवाहं कुरु वत्स सांप्रतं
    कर्तुं प्रयुक्तश्च पितुर्निदेशः ।
गुरोर्निदेशप्रतिपालको भवेः
    सर्वत्र पूज्यो विजयी च संततम् ॥ १४॥
स्वपत्‍नीं पूजयेद्यो हि वस्त्रालंकारचन्दनैः ।
प्रकृतिस्तस्य संतुष्टा यथा कृष्णो द्विजार्चने ॥ १५॥
सा च योषित्स्वरूपा च प्रतिविश्वेषु मायया ।
योषितामपमानेन पराभूता च सा भवेत् ॥१६॥
दिव्या स्त्री पूजिता येन पतिपुत्रवती सती ।
प्रकृतिः पूजिता तेन सर्वमङ्गलदायिनी ॥ १७॥
मूलप्रकृतिरेका सा पूर्णब्रह्मस्वरूपिणी ।
सृष्टौ पञ्चविधा सा च विष्णुमाया सनातनी ॥ १८॥
प्राणाधिष्ठातृदेवी या कृष्णस्य परमात्मनः ।
सर्वासां प्रेयसी कान्ता सा राधापरिकीर्तिता ॥ १९॥
नारायणप्रिया लक्ष्मीः सर्वसंपत्स्वरूपिणी ।
वागधिष्ठातृदेवी या सा च पूज्या सरस्वती ॥२०॥
सावित्री वेदमाता च पूज्यरूपा विधेः प्रिया ।
शंकरस्य प्रिया दुर्गा यस्याः पुत्रो गणेश्वरः ॥२१॥
इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डं सौतिशौनकसंवादे
भगवत्स्तुतितत्स्वरूयमायास्वरूपवर्णनं नाम त्रिंशोऽध्यायः ॥३०॥


GO TOP