ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - एकोनत्रिंशोऽध्यायः

नारायणं प्रति नारदप्रश्नः -


सौतिरुवाच
ददर्शाऽऽश्रममाश्चर्यं देवर्षिर्नारदस्तथा ।
ऋषेर्नारायणस्यैव बदरीवनसंयुतम् ॥ १॥
नानावृक्षलताकीर्णं पुंस्कोकिलरुतश्रुतम् ।
शरभेन्द्रैः केसरीन्द्रैर्व्याघ्रौघैः परिवेष्टितम् ॥२॥
ऋषीन्द्रस्य प्रभावेण हिंसाभयविवर्जितम् ।
महारण्यमगम्यं च स्वर्गादपि मनोहरम् ॥३॥
(त्रिषष्टिकोटिसिद्धौघैरावृतं सूर्यवर्चसम् ।
ऋषीन्द्राणां च पञ्चाशत्कोटिभिश्चान्वितं मुदा ॥
विद्याधराणां नृत्यं तत्पश्यन्तं सस्मितं द्विज ।
गन्धर्वकृष्णसंगीतं श्रुतवन्तं मनोहरम् ॥)
सिद्धेन्द्राणां मुनीन्द्राणामाश्रमाणां त्रिकोटिभिः ।
आवृतं चन्दनारण्यंः पारिजातवनान्वितम् ॥४॥
ददर्श तमृषीन्द्रं च सभामध्ये मनोहरम् ।
रत्‍नसिंहासनस्थं च वसन्तं योगिनां गुरुम् ॥५॥
जपन्तं परमं ब्रह्म कृष्णमात्मानमीश्वरम् ।
प्रणनाम च तं दृष्टा ब्रह्मपुत्रश्च शौनक ॥५॥
उत्थाय सहसाऽऽलिङ्ग्य युयुजे परमाशिषम् ।
प्रपच्छ कुशलं स्नेहाच्चकारातिथिपूजनम् ॥७॥
रत्‍नसिंहासने रम्ये वासयामास नारदम् ।
निवसन्नासने रम्ये वर्त्मश्रमविवर्जितः ॥८॥
उवाच तमृषिश्रेष्ठं भगवन्तं सनातनम् ।
अधीत्य वेदान्सर्वाश्च पितुः स्थाने सुदुर्गमान् ॥९॥
ज्ञानं संप्राप्य योगीन्द्रान्मन्त्रं वै शंकराद्विभो ।
मनोमे नहि तृप्नोति दुर्निवारं च चञ्चलम् ॥ १०॥
दृष्टं मया त्वत्पदाब्जं मनसा प्रेरितेन च ।
किंचिज्ज्ञानविशेषं च लब्धुमिच्छामि सांप्रतम् ॥ ११॥
यत्र कृष्णगुणाख्यानं जन्ममृत्युजरापहम् ॥ १२॥
ब्रह्मविष्णुशिवाद्याश्च सुरेन्द्राश्च सुरा विभो ।
कं चिन्तयन्ति मुनयो मनवश्च विचक्षणाः ॥ १३॥
कस्मात्सृष्टिश्च भवति कुत्र वा संप्रलीयते ।
को वा सर्वेश्वरो विष्णुः सर्वकारणकारकः ॥ १४॥
तस्येश्वरस्य किं रूपं कर्म वा किं जगत्पते ।
विचार्य मनसा सर्वं तद्‌भवान्वक्तुमर्हति ॥ १५॥
नारदस्य वचः श्रुत्वा प्रहस्य भगवानृषिः ।
कथां कथितुमारेभे पुण्यां भुवनपावनीम् ॥ १६॥
इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डं सौतिशौनकसंवादे
नारायणं प्रति नारदप्रश्नो नामैकोनत्रिंशोऽध्यायः ॥२९॥


GO TOP