ब्रह्मवैवर्तपुराणम् - प्रथमं ब्रह्मखण्डम् - आष्टाविंशोऽध्यायः

ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - अष्टाविंशोऽध्यायः

ब्रह्मस्वरूपवैकुण्ठादिवर्णनं, नारदप्रस्थानम् -


नारद उवाच
श्रुतं सर्वं जगन्नाथ त्वत्प्रसादाज्जगद्‌गुरो ।
भवान्ब्रह्मस्वरूपं च वद ब्रह्मनिरूपणम् ॥ १॥
प्रभो किं ब्रह्म साकारं किं निराकारमीश्वर ।
किं तद्विशेषणं किंवाऽप्यविशेषणमेव च ॥२॥
किंवा दृश्यमदृश्यं वा लिप्तं देहिषु किं न वा ।
किंवा तल्लक्षणं शस्तं वेदे वा किं निरूपितम् ॥३॥
ब्रह्मातिरिक्ता प्रकृतिः किंवा ब्रह्मस्वरूपिणी ।
प्रकृतेर्लक्षणं किंवा सारभूतं श्रुतौ श्रुतम् ॥४॥
प्राधान्यं कस्य सृष्टौ च द्वयोर्मध्ये वरं परम् ।
विचार्य मनसा सर्वं सर्वज्ञ वद मां ध्रुवम् ॥५॥
नारदस्य वचः श्रुत्वा पञ्चवक्त्रः प्रहस्य च ।
भगवान्कर्तुमारेभे परब्रह्मनिरूपणम् ॥६॥
महादेव उवाच
यद्यत्पृष्टं त्वया वत्स निगूढं ज्ञानमुत्तमम् ।
सुदुर्लभं च वेदेषु पुराणेषु च नारद ॥७॥
अहं ब्रह्मा च विष्णुश्च शेषो धर्मो महान्विराट् ।
सर्वं निरूपितं ब्रह्मन्नस्माभिः श्रुतिभिर्मुने ॥८॥
यद्विशेषणयुक्तं च दृश्यं प्रत्यक्षमेव च ।
तन्निरूपितमस्माभिर्वेदे वेदविदां वर ॥९॥
वैकुण्ठे च पुरा पृष्टे धर्मेण ब्रह्मणा तदा ।
यदुवाच हरिः किंचिन्निबोध कथयामि ते ॥ १०॥
सारभूतं च तत्त्वानामज्ञानान्धकलोचनम् ।
द्वैधभ्रमतमोध्वंससुप्रकृष्टप्रदीपकम् ॥ ११॥
परमात्मस्वरूपं च परं ब्रह्म सनातनम् ।
सर्वदेहस्थितं साक्षिस्वरूपं देहि कर्मणाम् ॥ १२॥
प्राणाः पञ्च स्वयं विष्णुर्मनो ब्रह्मा प्रजापतिः ।
सर्वज्ञानस्वरूपोऽहं शक्तिः प्रकृतिरीश्वरी ॥ १३॥
आत्माधीना वयं सर्वे स्थिते तस्मिन्वयं स्थिताः ।
गते गताश्च परमे नरदेवमिवानुगाः ॥ १४॥
जीवस्तत्प्रतिबिम्बं च सर्वभोगी हि कर्मणाम् ।
यथाऽर्कचन्द्रयोर्बिम्बं जलपूर्णघटेषु च ॥ १५॥
बिम्बं घटेषु भग्नेषु प्रलीनं चन्द्रसूर्ययोः ।
तथा लयप्रसङ्‍गे स जीवो ब्रह्मणि लीयते ॥ १६॥
एकमेव परं ब्रह्म शेषे वत्स भवक्षये ।
वयं प्रलीनास्तत्रैव जगदेतच्चराचरम् ॥ १७॥
तच्च ज्योतिःस्वरूपं च मण्डलाकारमेव च ।
ग्रीष्ममध्याह्नमार्तण्डकोटिकोटिसमप्रभम् ॥ १८॥
आकाशामिव विस्तीर्णं सर्वव्यापकमव्ययम् ।
सुखदृश्यं यथा चन्द्रबिम्बं योगिभिरेव च ॥ १९॥
वदन्ति योगिनस्तत्तु परं ब्रह्म सनातनम् ।
दिवानिशं च ध्यायन्ते सत्यं तत्सर्वमङ्गःलम् ॥ २०॥
निरीहं स निराकारं परमात्मानमीश्वरम् ।
स्वेच्छामयं स्वतन्त्रं च सर्वकारणकारणम् ॥ २१ ॥
परमानन्दरूपं च परमानन्दकारणम् ।
परं प्रधानं पुरुषं निर्गुणं प्रकृतेः परम् ॥ २२॥
तत्रैव लीना प्रकृतिः सर्वबीजस्वरूपिणी ।
यथाऽग्नौ दाहिका शक्तिः प्रभा सूर्ये यथा मुने ॥ २३॥
यथा ददुग्धे च धावल्यं जले शैत्यं यथैव च ।
यथा शब्दश्च गगने यथा गन्धः क्षितौ सदा ॥ २४॥
तथा हि निर्गुणं ब्रह्म निर्गुणा प्रकृतिस्तथा ।
सृष्ट्युन्मुखेन तद्‌बह्म चांशेन पुरुषः स्मृतः ॥ २५ ॥
स एव सगुणो वत्स प्राकृतो विषयी स्मृतः ।
त्रिगुणा सा हि तत्रैव परस्येच्छामयी स्मृता ॥ २६॥
यथा मृदा कुलालश्च घटं कर्तुं क्षमं सदा ।
तथा प्रकृत्या तद्‍ब्रह्म सृष्टिं स्रष्टुं क्षमो मुने ॥ २७ ॥
स्वर्णेन कुण्डलं कर्तुं स्वर्णकारो क्षमं यथा ।
तथा ब्रह्म तया सार्द्धं सृष्टिं कर्तुमिहेश्वरः ॥ २८ ॥
कुलालसृष्टा न च मृन्नित्या चैव सनातनी ।
न स्वर्णकारसृष्टं तत्स्वर्णं वा नित्यमेव च ॥ २९॥
नित्यं तत्परमं ब्रह्म नित्या च प्रकृतिः स्मृता ।
द्वयोः समं च प्राधान्यमिति केचिद्वदन्ति हि ॥ ३० ॥
मृदं स्वर्णं समाहर्तुं कुलालस्वर्णकारकौ ।
न समर्थौ च मृत्स्वर्णं तयोराहरणे क्षमम् ॥३१ ॥
तस्मात्तत्प्रकृतेर्ब्रह्म परमेव च नारद ।
इति केचिद्वदन्त्येवं द्वयोर्वै नित्यता ध्रुवम् ॥ ३२ ॥
केचिद्वदन्ति तद्‌ब्रह्म स्वयं च प्रकृतिः पुमान् ।
ब्रह्मातिरिक्तप्रकृतिर्वदन्तीति च केचन ॥ ३२ ॥
तद्‌ब्रह्म परमं धाम सर्वकारणकारणम् ।
तद्‌ब्रह्मलक्षणं ब्रह्मन्निदं किंचिच्छ्रुतौ श्रुतम् ॥ ३४॥
ब्रह्म चाऽऽत्मा च सर्वेषां निर्लिप्तं साक्षिरूपि च ।
सर्वव्यापी च सर्वादि लक्षणं च श्रुतौ श्रुतम् ॥ ३५ ॥
तद्‌ब्रह्म शक्तिः प्रकृतिः सर्वबीजस्वरूपिणी ।
यतस्तच्छक्तिमद्‌ब्रह्म चेदं प्रकृतिलक्षणम् ॥ ३६ ॥
तेजोरूपं च तद्‌ब्रह्म ध्यायन्ते योगिनः सदा ।
वैष्णवास्तन्न मन्यन्ते मद्‌भक्ताः सूक्ष्मबुद्धयः ॥३७॥
तत्तेजः कस्य नाऽऽश्चर्यं ध्यायन्ते पुरुषं विना ।
कारणेन विना कार्यं कुतो वा प्रभवेद्‌भुवि ॥ ३८॥
ध्यायन्ते वैष्णवास्तस्मात्तत्र रूपं मनोहरम् ।
स्वेच्छामयस्य पुंसश्च साकारस्याऽऽत्मनः सदा ॥ ३९ ॥
तत्तेजोमण्डलाकारे सूर्यकोटिसमप्रभे ।
नित्य स्थलं च प्रच्छन्नं गोलोकाभिधमेव च ॥४० ॥
लक्षकोट्यां योजनानां चतुरस्रं मनोहरम् ।
रत्‍नेन्द्रसारनिर्माणैर्गोपीभिश्चाऽऽमृतं सदा ॥४१ ॥
सुदृश्यं वर्तुलाकारं यथा चन्द्रस्य मण्डलम् ।
नानारत्‍नैश्च खचितं निराधारं तदिच्छया ॥४२ ॥
ऊर्ध्वं च नित्यं वैकुण्ठात्पञ्चाशत्कोटियोजनम् ।
गोगोपगोपीसंयुक्तं कल्पवृक्षसमन्वितम् ॥४३ ॥
कामधेनुभिराकीर्णं रासमण्डलमण्डितम् ।
वृन्दावनवनाच्छन्नं विरजावेष्टितं मुने ॥४४॥
शतशृङ्‍गैः शातकुम्भैः सुदीप्तं श्रीमदीप्सितम् ।
लक्षकोट्या परिमितैराश्रमैः सुमनोहरैः ॥४५॥
शतमन्दिरसंयुक्तमाश्रमं सुमनोहरम् ।
रत्‍नप्राकारपरिखाविचित्रेण विराजितम् ॥४६॥
अमूल्यरत्‍ननिर्माणं लक्षमन्दिरसुन्दरम् ।
आश्रमं चतुरस्रं च चन्द्रबिम्बाकृतं वरम् ॥४७॥
गोलोकमध्यदेशस्थमतीव सुमनोहरम् ।
प्राकारपरिखायुक्तं पारिजातवनान्वितम् ॥४८॥
कौस्तुभेन्द्रेण मणिना राजितं परमोज्ज्वलम् ।
हीरसारसुसंक्लृप्तसोपानैश्चातिसुन्दरैः ॥४९॥
मणीन्द्रसाररचितैः कपाटैर्दर्पणान्वितैः ।
नानाचित्रविचित्राढ्यैराश्रमं च सुसंस्कृतम् ॥५०॥
षोडशद्वारसंयुक्तं सुदीप्तं रत्‍नदीपकैः ।
रत्‍नसिंहासने रम्ये महार्घमणिनिर्मिते ॥५१॥
नानाचित्रविचित्राढ्ये वसन्तं वरमीश्वरम् ।
नवीननीरदश्यामं किशोरवयसं शिशुम् ॥ ५२॥
शरन्मध्यान्हामार्तण्डप्रभामोचकलोचनम् ।
शतपार्वणपूर्णेन्दुशुभदीप्तिमदाननम् ॥५३॥
कोटिकन्दर्पलावण्यलीलानिन्दितमन्मथम् ।
कोटिचन्द्रप्रभाजुष्टं पुष्टं श्रीयुक्तविग्रहम् ॥५४॥
सस्मितं मुरलीहस्तं सुप्रशस्तं सुमङ्गलम् ।
परमोत्तमपीतांशुकयुगेन समुज्ज्वलम् ॥५५॥
चन्दनोक्षितसर्वाङ्गं कौस्तुभेन विराजितम् ।
आजानुमालतीमालावनमालाविभूषितम् ॥५६॥
त्रिभङ्गभङ्ग्यसंयुक्तं मणिमाणिक्यभूषितम् ।
मयूरपुच्छचूडं च सद्‌रत्‍नमुकुटोज्ज्वलम् ॥५७॥
रत्‍नकेयूरवलयरत्‍नमञ्जीररञ्जितम् ।
रत्‍नकुण्डलयुग्मेन गण्डस्थलसुशोभितम् ॥५८॥
मुक्तापङ्‍क्तिसदृक्षामदशनं सुमनोहरम् ।
पक्वबिम्बाधरोष्ठं च नासिकोन्नतिशोभनम् ॥५९॥
दीक्षितं गोपिकाभिश्च वेष्टिताभिः समन्ततः ।
स्थिरयौवनयुक्ताभिः सस्मिताभिश्च सादरम् ॥६०॥
भूषिताभिश्च सद्‌रत्‍ननिर्मितैर्भूषणैः परम् ।
सुरेन्द्रैश्च मुनीन्द्रैश्च मुनिभिर्मानवेन्द्रकैः ॥६१॥
ब्रह्मविष्णुशिवानन्तधर्माद्यैर्वन्दितं मुदा ।
भक्तप्रियं भक्तनाथं भक्तानुग्रहकारकम् ॥६२॥
रासेश्वरं सुरसिकं राधावक्षःस्थलस्थितम् ।
एवं रूपमरूपं तं मुने ध्यायन्ति वैष्णवाः ॥६३॥
सततं ध्येयमस्माकं परमात्मानमीश्वरम् ।
अक्षरं परमं ब्रह्म भगवन्तं सनातनम् ॥६४॥
स्वेच्छामयं निर्गुणं च निरीहं प्रकृतेः परम् ।
सर्वाधारं सर्वबीजं सर्वज्ञं सर्वमेव च ॥६५॥
सर्वेश्वरं सर्वपूज्यं सर्वसिद्धिकरं परम् ।
स एव भगवानादिर्गोलोके द्विभुजः स्वयम् ॥६६॥
गोपवेषश्च गोपालैः पार्षदैः परिवेष्टितः ।
परिपूर्णतमः श्रीमान् श्रीकृष्णो राधिकेश्वरः ॥६७॥
सर्वान्तरात्मा सर्वत्र प्रत्यक्षः सर्वगः स्मृतः ।
कृषिश्च सर्ववचनो नकारश्चाऽऽत्मवाचकः ॥६८॥
सर्वात्मा च परं ब्रह्म तेन कृष्णः प्रकीर्तितः ।
कृषिश्च सर्ववचनो नकारश्चाऽऽदिवाचकः ॥६९॥
सर्वादिपुरुषो व्यापी तेन कृष्णः प्रकीर्तितः ।
स एवांशेन भगवान्वैकुण्ठे च चतुर्भुजः ॥७०॥
चतुर्भुजैः पार्षदैस्तैरावृतः कमलापतिः ।
स एव कलया विष्णुः पाता च जगतां प्रभुः ॥७१॥
श्वेतद्वीपे सिन्धुकन्यापतिरेव चतुर्भुजः ।
एतत्ते कथितं सर्वं परब्रह्मस्वरूपकम् ॥७२॥
अस्माकं चिन्तनीयं च सेव्यं वन्दितमीप्सितम् ।
इत्युक्त्वा शंकरस्तत्र विरराम च शौनक ॥७३॥
गन्धर्वराजस्तोत्रेण तुष्टुवे तं च नारदः ।
मुनिस्तोत्रेण संतुष्टो भगवानादिरच्युतः ॥७४॥
ज्ञानं मृत्युंजयस्तस्मै प्रददौ वरमीप्सितम् ।
मुनीन्द्रस्तं संप्रणम्य प्रहृष्टवदनेक्षणः ॥७५॥
तदाज्ञया पुण्यरूपं ययौ नारायणाश्रमम् ॥७६॥
इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डं सौतिशौनकसंवादे
ब्रह्मस्वरूपवैकुण्ठादिवर्णनं नारदप्रस्थानं नामाष्टाविंशोऽध्यायः ॥२८॥


GO TOP