ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - सप्तविंशोऽध्यायः

शिवोपदेशभक्ष्याभक्ष्यादिविवरणम् -


नारद उवाच
भक्ष्यं किं वाऽप्यभक्ष्यं च द्विजानां गृहिणां प्रभो ।
यतीनां वैष्णवानां च विधवाब्रह्मचारिणाम् ॥१॥
किं कर्तव्यमकर्तव्यमभोग्यं भोग्यमेव वा ।
सर्वं कथय सर्वज्ञ सर्वेश सर्वकारण ॥२॥
महेश्वर उवाच
कश्चित्तपस्वी विप्रश्च निराहारो चिरं मुनिः ।
कश्चित्समीरणाहारी फलाहारी च कश्चन ॥३॥
अन्नाहारी यथाकाले गृही च गृहिणीयुतः ।
येषामिच्छा च या ब्रह्मन्‌रुचीनां विविधा गतिः ॥४॥
हविष्यान्नं ब्राह्मणानां प्रशस्तं गृहिणां सदा ।
नारायणोच्छिष्टमिष्टमभक्ष्यमनिवेदितम् ॥५॥
अन्नं विष्ठा जलं मूत्रं यद्विष्णोरनिवेदितम् ।
विण्मूत्रं सर्वथा प्रोक्तमन्नं च हरिवासरे ॥६॥
ब्राह्मणः कामतोऽन्नं च यो भुङ्क्ते हरिवासरे ।
त्रैलोक्यजनितं पापं सोऽपि भुङ्‍क्ते न संशयः ॥७॥
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं च नारद ।
गृहिभिब्रह्मिणैरन्नं संप्राप्ते हरिवासरे ॥८॥
गृही शैवश्च शाक्तश्च ब्राह्मणो ज्ञानदुर्बलः ।
प्रयाति कालसूत्रं च भुक्त्वा च हरिवासरे ॥९॥
कृमिभिः शालिमानैश्च भक्षितस्तत्र तिष्ठति ।
विण्मूत्रभोजनं कृत्वा यावदिन्द्राश्चतुर्दश । १०॥
जन्माष्टमीदिने रामनवमीदिवसे हरेः ।
शिवरात्रौ च यो भुङ्‍क्ते सोऽपि द्विगुणपातकी ॥ ११॥
उपवासासमर्थश्च फलं मूलं जलं पिबेत् ।
नष्टे शरीरे स भवेदन्यथा चाऽऽत्मघातकः ॥ १२॥
सकृद्‌भुङ्‍क्ते हविष्यान्नं विष्णोनैवेद्यमेव च ।
न भवेत्प्रत्यवायी स चोपवासफलं लभेत् ॥ १३॥
एकादश्यामनाहारी गृही विप्रश्च भारते ।
स च तिष्ठति वैकुण्ठे यावद्वै ब्रह्मणो वयः ॥ १४॥
गृहिणां शैवशाक्तानामिदमुक्तं च नारद ।
विशेषतो वैष्णवानां यतीनां ब्रह्मचारिणाम् ॥ १५॥
नित्यनैवेद्यभोजी यः श्रीविष्णोः स हि वैष्णवः ।
नित्यं शतोपवासानां जीवन्मुक्तफलं लभेत् ॥ १६॥
वाञ्छन्ति तस्य संस्पर्श तीर्थान्यखिलदेवताः ।
आलापं दर्शनं चैव सर्वपापप्रणाशनम् ॥ १७॥
द्विस्विन्नमन्नं पृथुकं शुद्धं देशविशेषके ।
नात्यचतशस्तं विप्राणां भक्षणे न निवेदने ॥ १८॥
अभक्ष्यं वै यतीनां च विधवाब्रह्मचारिणाम् ।
ताम्बूलं च यथा ब्रह्मन्तथैतद्वस्तु न ध्रुवम् ॥ १९॥
ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचारिणाम् ।
तपस्विनां च विप्रेन्द्र गोमांससदृशं स्मृतम् ॥२०॥
सर्वेषां ब्राह्मणानां यदभक्ष्यं शृणु नारद ।
यदुक्तं सामवेदे च हरिणा चाऽऽह्निकक्रमे ॥२१॥
ताम्रपात्रे पयःपानमुच्छिष्टे घृतभोजनम् ।
दुग्धं लवणसार्धं च सद्यो गोमांसभक्षणम् ॥२२॥
नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु ।
ऐक्षवं ताम्रपात्रस्थं सुरातुल्यं न संशयः ॥२३॥
उत्थाय वामहस्तेन यस्तोयं पिबति द्विजः ।
सुरापी च स विज्ञेयः सर्वधर्मबहिष्कृतः ॥२४॥
अनिवेद्यं हरेरन्नं भुक्तशेषं च नित्यशः ।
पीतशेषजलं चैव गोमांससदृशं मुने ॥२५॥
वानिङ्गणफलं चैव गोमांसं कार्तिके स्मृतम् ।
माघे च मूलकं चैव कलम्बीशयने तथा ॥२६॥
श्वेतवणं च तालं च मसूरं मत्स्यमेव च ।
सर्वेषां ब्राह्मणानां च त्याज्यं सर्वत्र देशके ॥२७॥
मत्स्यांश्च कामतो भुक्त्वासोपवासस्त्र्यहं वसेत् ।
प्रायश्चित्तं ततः कृत्वा शुद्धिमाप्नोति वाडवः ॥२८॥
प्रतिपत्सु च कूष्माण्डमभक्ष्यं ह्यर्थनाशनम् ।
द्वितीयायां च बृहतीं भोजनेन स्मरेद्धरिम् ॥२९॥
अभक्ष्यं च पटोलं च शत्रुवृद्धिकरं परम् ।
तृतीयायां चतुर्थ्यां च मूलकं धननाशनम् ॥३०॥
कलङ्ककारणं चैव पञ्चम्यां बिल्वभक्षणम् ।
तिर्यग्योनिं प्रापयेत्तु षष्ठ्या वै निम्बभक्षकम् ॥३१॥
रोगवृद्धिकरं चैव नराणां तालभक्षणम् ।
सप्तम्यां च तथा तालं शरीरस्य च नाशकम् ॥३२॥
नारीकेलफलं भक्ष्यमष्टम्यां बुद्धिनाशकम् ।
तुम्बी नवम्यां गोमांसं दशम्यां च कलम्बिका ॥३३॥
एकादश्यां तथा शिम्बी द्वादश्यां पूतिका तथा ।
त्रयोदश्यां च वार्ताकी न भक्ष्या पुत्रनाशनम् ॥ ३४॥
चतुर्दश्यां माषभक्ष्यं महापापकरं परम् ।
पञ्चदश्यां तया मांसमभक्ष्यं गृहिणां मुने ॥ ३५ ॥
गृहिणां प्रोक्षितं मांसं भक्ष्यमन्यदिनेषु च ।
प्रातःस्नाने तथा श्राद्धे पार्वणे व्रतवासरे ॥ ३६॥
प्रशस्तं सार्षपं तैलं पक्वतैलं च नारद ।
कुहूपूर्णेन्दुसंक्रान्तिचतुर्दश्यष्टमीषु च ॥ ३७॥
रवौ श्राद्धे व्रताहे च पृष्टं स्त्रीतिलतैलकम् ।
मांसं च रक्तशाकं च कांस्यपात्रे च भोजनम् ॥३८॥
निषिद्धं शयनं चैव कूर्ममांसं च मन्त्रितम् ।
निषिद्धं सर्ववर्णानां दिवा स्वस्त्रीनिषेवणम् ॥३९ ॥
रात्रौ च दधिभक्ष्यं च शयनं संध्ययोर्दिने ।
रजस्वलास्त्रीगमनमेतन्नरककारणम् ॥४०॥
उदक्यवीरयोरन्नं पुंश्चल्यलभक्षकम् ।
शूद्रान्नं याजकान्नं च शूद्रश्राद्धान्नमेव च ॥४१ ॥
अभक्ष्यान्नं च विप्रर्षे यदन्नं वृषलीपतेःव् । ब्रह्मन्वार्धुषिकान्नं च गणकान्नभमक्षकम् ॥४२ ॥
अग्रदानिद्विजान्नं च चिकित्साकारकस्य च ।
हस्तचित्राहरौ तैलमग्राह्यं चाप्यभक्षकम् ॥४३ ॥
मूले मृगे भाद्रपदे मांसं गोमांसतुल्यकम् ।
मघायां कृत्तिकायां वै चोत्तरासु च नारद ॥४४॥
करोति मैथुनं यो हि कुम्भिपाकं स च व्रजेत् ।
रोाहिण्यां च विशाखायां मैत्रे चैवोत्तरासु च ।
अमायां कृत्तिकायां च द्विजैः क्षौरं विवर्जितम् ॥४५ ॥
कृत्वा तु मैथुनं क्षौरं यो देवांस्तर्पयेत्पितॄन्न् ।
रुधिरं तद्‌भवेत्तोयं दाता च नरकं व्रजेत् ॥४६॥
यत्कर्तव्यमकर्तव्यं यद्‌भोज्यं यदभोज्यकम् ।
सर्वं तुभ्यं निगदितं किं भूयः श्रोतुमिच्छसि ॥४७॥
इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डं सौतिशौनकसंवादे नारदं प्रति
शिवोपदेशभक्ष्याभक्ष्यादिविवरणं नाम सप्तविंशोऽध्यायः ॥२७॥


GO TOP