ब्रह्मवैवर्तपुराणम्
प्रथमं ब्रह्मखण्डम् - षड्विंशोऽध्यायः
शिवनारदसंवाद आह्निकनिरूपणम् -
सौतिरुवाच
हरिस्तोत्रं च कवचं मन्त्रं पूजाविधिं परम् ।
हरं ययाचे देवर्षिर्ध्यानं च ज्ञानमेव च ॥ १॥
स्तोत्रं च कवचं मन्त्रं ध्यानं पूजाविधिं तथा ।
तत्प्राक्तनीयज्ञानं च ददौ तस्मै महेश्वरः ॥२॥
सर्वं प्राप्य मुनिश्रेष्ठः परिपूर्णमनोरथः ।
उवाच प्रणतो भक्त्या गुरुं प्रणतवत्सलम् ॥३॥
नारद उवाच
आह्निकं ब्राह्मणानां च वद वेदविदां वर ।
स्वधर्मपालनं नित्यं यतो भवति नित्यशः ॥४॥
श्रीमहेश्वर उवाच
ब्राह्मे मुहूर्ते चोत्थाय ब्रह्मरन्ध्रस्थपङ्कजे ।
सूक्ष्मे सहस्रपत्रे स्वे निर्मले ग्लानिवर्जिते ॥५॥
रात्रिवासं परित्यज्य गुरुं तत्रैव चिन्तयेत् ।
व्याख्यामुद्राकरं प्रीतं सस्मितं शिष्यवत्सलम् ॥६॥
प्रसन्नवदनं शान्तं परितुष्टं निरन्तरम् ।
साक्षाद्ब्रह्मस्वरूपं च परमं चिन्तयेत्सदा ॥७॥
ध्यात्वैवं गुरुमाराध्य हृत्पद्मे निर्मले सिते ।
सहस्रपत्रे विस्तीर्णे देवमिष्टं विचिन्तयेत् ॥८॥
यस्य देवस्य यद्ध्यानं यद्रूपं तद्विचिन्तयेत् ।
गृहीत्वा तदनुज्ञां च कर्तव्यं समयोचितम् ॥९॥
आदौ ध्यात्वा गुरुं नत्वा संपूज्य विधिपूर्वकम् ।
पश्चात्तदाज्ञामादाय ध्यायेदिष्टं प्रपूजयेत् ॥ १०॥
गुरुप्रदर्शितो देवो मन्त्रः पूजाविधिर्जपः ।
न देवेन गुरुर्दृष्टस्तस्माद्देवाद्गुरुः परः ॥ ११॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुः प्रकृतिरीशाद्या गुरुश्चन्द्रोऽनलो रविः ॥ १२॥
गुरुर्वायुश्च वरुणो गुरुर्माता पिता सुहृत् ।
गुरुरेव परं ब्रह्म नास्ति पूज्यो गुरोः परः ॥ १३॥
अभीष्टदेवे रुष्टे च समर्थो रक्षणे गुरुः ।
न समर्था गुरौ रुष्टे रक्षणे सर्वदेवताः ॥ १४॥
यस्य तुष्टो गुरुः शश्वज्जयस्तस्य पदे पदे ।
यस्य रुष्टो गुरुस्तस्य सर्वनाशश्च सर्वदा ॥ १५॥
न संपूज्य गुरुं देवं यो मूढः पूजयेद्भ्रमात् ।
ब्रह्महत्याशतं पापी लभते नात्र संशयः ॥ १६॥
सामवेदे च भगवानित्युवाच हरिः स्वयम् ।
तस्मादभीष्टदेवाच्च गुरुः पूज्यतमः परः ॥ १७॥
गुरुमिष्टं स्वयं ध्यात्वा स्तुत्वा वै साधको मुने ।
निर्मलं स्थलमासाद्य विण्मूत्रं ह्युत्सृजेन्मुदा ॥ १८॥
जलं जलसमीपं च सरन्ध्रं प्राणिसंनिधिम् ।
देवालयसमीपं च वृक्षमूलं च वर्त्म च ॥ १९॥
हलोत्कर्षस्थलं चैव सस्यक्षेत्रं च गोष्ठकम् ।
नदीकन्दरगर्भं च पुष्पोद्यानं च पङ्किलम् ॥२०॥
ग्रामाद्यभ्यन्तरं चैव नृणां गृहसमीपकम् ।
शंकुं सेतु शरवणं श्मशानं वह्निसंनिधिम् ॥२१॥
क्रीडास्थलं महारण्यं मञ्चकाधःस्थलं तथा ।
वृक्षच्छायायुतं स्थानमन्तःप्राण्यवपर्णकम् ॥२२॥
दूर्वास्थानं कुशस्थानं वल्मीकस्थानमेव च ।
वृक्षारोपणभूमिं च कार्यार्थं च परिष्कृतम् ॥२३॥
एतत्सर्वं परित्यज्य सूर्यतापविवर्जितम् ।
कृत्वा गर्तं पुरीषं च मूत्रं च परिवर्जयेत् ॥२४॥
पुरीषमूत्रोत्सर्गं च दिवा कुर्यादुदङ्मुखः ।
पश्चिमाभिमुखो रात्रौ संध्यायां दक्षिणामुखः ॥२५॥
मौनी धृत्वा च निःश्वासं यथा गन्धो न संचरेत् ।
त्यक्त्वा मृदा समाच्छाद्य शौचं कुर्याद्विचक्षणः ॥२६॥
कृत्वा तु लोष्टशौचं च जलशौचं ततः परम् ।
मृद्युक्तं तज्जलं चैव तत्प्रमाणं निशामय ॥२७॥
एकां लिङ्गे मृदं दद्याद्वामहस्ते चतुष्टयम् ।
उभयोर्हस्तयोर्द्वे तु मूत्रशौचं प्रकीर्तितम् ॥२८॥
मूत्रशौचं द्विगुणितं मैथुनानन्तरं यदि ।
मैथुनानन्तरं यद्वा मूत्रशौचं चतुर्गुणम् ॥२९॥
एका लिङ्गे गुदे तिस्रस्तथा वामकरे दश ।
उभयोः सप्त दातव्याः पादः षष्ठेन शुध्यति ॥३०॥
पुरीषशौचं विप्राणां गृहिणामिदमेव च ।
विधवानां द्विगुणितं शौचमेव प्रकीर्तितम् ॥३१॥
वैष्णवानां यतीनां च ब्रह्मर्षेर्ब्रह्मचारिणाम् ।
चतुर्गुणं च गृहिणां तेषां शौचं प्रकीर्तितम् ॥३२॥
नो यावदुपनीयेत द्विजः शूद्रस्तथाऽङ्गना ।
गन्धलेपक्षयकरं तेषां शौचं प्रकीर्तितम् ॥३३॥
शौचं क्षत्रविशोश्चैव द्विजानां गृहिणां समम् ।
द्विगुणं वैष्णवादीनां मुनीनां परिकीर्तितम् ॥३४॥
न्यूनाधिकं न कर्त्तव्यं शौचं शुद्धिमभीप्सता ।
प्रायश्चित्तं प्रयुज्येत विहितातिक्रमे कृते ॥३५॥
शौचं तन्नियमं मत्तः सावधानं निशामय ।
मृच्छौचे च शुचिविप्रोऽप्यशुचिश्च व्यतिक्रमे ॥३६॥
वल्मीकमूषिकोत्खातां मृदमन्तर्जलां तथा ।
शौचावशिष्टां गेहाच्च नाऽऽदद्याल्लेपसंभवाम् ॥३७॥
अन्तःप्राण्यवपर्णां च हलोत्खातां विशेषतः ।
कुशमूलोत्थितां चैव दूर्वामूलोत्थितां तथा ॥३८॥
अश्वत्थमूलान्नीतां च तथैव शयनोत्थिताम् ।
चतुष्पथाच्च गोष्ठानां गोष्पदानां तथैव च ॥३९॥
सस्यस्थलानां क्षेत्राणामुद्यानानां मृदं त्यजेत् ।
स्नातो वाऽप्यथवाऽस्नातो विप्रः शौचेन शुद्ध्यति ॥४०॥
शौचहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
कृत्वा शौचमिदं विप्रो मुखं प्रक्षालयेत्सुधीः ॥४१॥
आदौ षोडश गण्डूषैर्मुखशुद्धिं विधाय च ।
दन्तकाष्ठेन दन्तांश्च तत्पश्चात्परिमार्जयेत् ॥४२॥
पुनः षोडशगण्डूषैर्मुखशुद्धिं समाचरेत् ।
दन्तमार्जनकाष्ठानां नियमं शृणु नारद ॥४३॥
निरूपितं सामवेदे हरिणा चाऽऽह्निकक्रमे ।
अपामार्गं सिंधुवारमाम्रं च करवीरकम् ॥४४॥
खदिरं च शिरीषं च जातिपुन्नागशालकम् ।
अशोकमर्जुनं चैव क्षीरिवृक्षं कदम्बकम् ॥४५॥
जम्बूकं बकुलं तोक्मं पलाशं च प्रशस्तकम् ।
बदरीं पारिभद्रं च मन्दारं शाल्मलिं तथा ॥४६॥
वृक्षं कण्टकयुक्तं च लतादि पारिवर्जयेत् ।
पिप्पलं च प्रियालं च तिन्तिडीकं च तालकम् ॥४७॥
खर्जूरं नारिकेलं च तालं च परिवर्जयेत् ।
दन्तशौचविहीनश्च सर्वशौचविहीनकः ॥४८॥
शौचहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
कृत्वा शौचं शुचिर्विप्रो धृत्वा धौते च वाससी ॥४९॥
प्रक्षाल्य पादावाचम्य प्रातःसंध्यां समाचरेत् ।
एवं त्रिसंध्यं सन्ध्यां च कुरुते कुलजो द्विजः ॥५०॥
स स्नातः सर्वतीर्थेषु त्रिसध्यं यः समाचरेत् ।
संध्यात्रितयहीनः स्यादनर्हः सर्वकर्मसु ॥५१॥
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ।
नोपतिष्ठति यः पूर्वां नोपास्ते यस्तुपश्चिमाम् ॥५२॥
स शूद्रवद्बहिः कार्यः सर्वस्माद्द्विजकर्मणः ।
पूर्वा संध्यां परित्यज्य मध्यमां पश्चिमां तथा ॥५३॥
ब्रह्महत्यामात्महत्यां प्रत्यहं लभते द्विजः ।
एकादशीविहीनो यः संध्याहीनश्च यो द्विजः ॥५४॥
कल्पं व्रजेत्कालसूत्रं यथा हि वृषलीपतिः ।
प्रातः संध्यां विधायैवं गुरुमिष्टं सुरं रविम् ॥५५॥
ब्रह्माणमीशं विष्णुं च मायां पद्मां सरस्वतीम् ।
प्रणम्य गुरुभाज्यं च दर्पणं मधु काञ्चनम् ॥५६॥
स्पृष्ट्वा स्नानादिकं काले कुर्यात्साधकसत्तमः ।
पुष्करिण्यां तु वाप्यां वा यदा स्नानं समाचरेत् ॥५७॥
समुद्धृत्य पञ्च पिण्डानादौ धर्मी विचक्षणः ।
नद्यां नदे कन्दरे वा तीर्थे वा स्नानमाचरेत् ।५८॥
कुर्यात् स्नात्वा तु संकल्पं ततः स्नानं पुनर्मुने ।
श्रीकृष्णप्रीतिकामश्च वैष्णवानां महात्मनाम् ॥५९॥
संकल्पो गृहिणां चैव कृतपातकनाशनः ।
विप्रः कृत्वा तु संकल्पं मृदं गात्रे प्रलेपयेत् ॥६०॥
वेदोक्तमन्त्रेणानेन देहशुद्धिकृते नरः ।
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ॥६१॥
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ।
उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥६२॥
आरुह्य मम गात्राणि सर्वं पापं प्रमोचय ।
पुण्यं देहि महाभागे स्नानानुज्ञां कुरुष्व माम् ॥६३॥
इत्युक्त्वा च जले नाभिप्रमाणे मन्त्रपूर्वकम् ।
चतुर्हस्तप्रमाणां च कृत्वा मण्डलिकां शुभाम् ॥६४॥
तीर्थान्यावाहयेत्तत्र हस्तं दत्त्वा तपोधन ।
यानि यानि च तीर्थानि सर्वाणि कथयामि ते ॥६५॥
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन्संनिधिं कुरु ॥६६॥
नलिनी नन्दिनी सीता मालिनी च महापगा ।
विष्णुपादाब्जसंभूता गङ्गा त्रिपथगामिनी ॥६७॥
पद्मावती भोगवती स्वर्णरेखा च कौशिकी ।
दक्षा पृथ्वी च सुभगा विश्वकाया शिवाऽमृता ॥६८॥
विद्याधरी सुप्रसन्ना तथा लोकप्रसाधिनी ।
क्षेमा च वैष्णवी शान्ता शान्तिदा गोमती सती ॥६९॥
सावित्री तुलसी दुर्गा महालक्ष्मीः सरस्वती ।
कृष्णप्राणाधिका राधा लोपामुद्रा दिती रतिः ॥७०॥
अहल्या चादितिः संज्ञा स्वधा स्वाहाऽप्यरुन्धती ।
शतरूपा देवहूतिरित्याद्याः संस्मरेत्सुधीः ॥७१॥
स्मृत्वा स्नात्वा महापूतः कुर्यात्तु तिलकं बुधः ।
बाह्वोर्मूले ललाटे च कण्ठदेशे च वक्षसि ॥७२॥
स्नानं दानं तपो होमो देवता पितृकर्म च ।
तत्सर्वं निष्फलं याति ललाटे तिलकं विना ॥७३॥
ब्राह्मणस्तिलकं कृत्वा कुर्यात्संध्यां च तर्पणम् ।
नमस्कृत्य सुरान्भक्त्या गृहं गच्छेन्मुदाऽन्वितः ॥७४॥
प्रक्षाल्य पादौ यत्नेन धृत्वा धौते च वाससी ।
मन्दिरं प्रविशेत्प्राज्ञ इत्याह हरिरेव च ॥७५॥
विना पादक्षालनं यः स्नात्वा विशति मन्दिरम् ।
तस्य स्नानादिकं नष्टं जपहोमादिपञ्चकम् ॥७६॥
परिधाय स्निग्धवस्त्रं गृहं च प्रविशेद्गृही ।
रुष्टा लक्ष्मीर्गृहाद्याति शापं दत्त्वा सुदारुणम् ॥७७॥
जङ्घोर्ध्वतश्च यो विप्रःपादौ प्रक्षालयेद्यदा ।
तावद्भवति चाण्डालो यावद्गङ्गां न पश्यति ॥७८॥
उपविश्याऽऽसने ब्रह्मञ्छुचिराचम्य साधकः ।
पूजां कुर्यात्तु वेदोक्तो भक्तियुक्तो हि संयतः ॥७९॥
शालग्रामे मणौ मन्त्रे प्रतिमायां जले स्थले ।
गोपृष्ठे वा गुरौ विप्रे प्रशस्तमर्चनं हरेः ॥८०॥
सर्वेषु शस्ता पूजा च शालग्रामे च नारद ।
सुराणामेव सर्वेषां यत्राधिष्ठानमेव च ॥८१॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
शालग्रामोदकेनैव योऽभिषेकं समाचरेत् ॥८२॥
शालग्रामजलं भक्त्या नित्यमश्नाति यो नरः ।
जीवन्मुक्तः स च भवेद्यात्यन्ते कृष्णमन्दिरम् ॥८३॥
शालग्रामशिलाचक्रं यत्र तिष्ठति नारद ।
सचक्रो भगवांस्तत्र सर्वतीर्थानि निश्चितम् ॥८४॥
तत्र यो हि मृतो देही ज्ञानाज्ञानेन दैवतः ।
रत्ननिर्मितयानेन स याति श्रीहरेः पदम् ॥८५॥
शालग्रामं विनाऽन्यत्र कः साधुः पूजयेद्धरिम् ।
कृत्वा तत्र हरेः पूजां परिपूर्ण फलं लभेत् ॥८६॥
पूजाधारश्च कथितः श्रूयतां पूजनक्रमः ।
हरेः पूजां बहुमतां कथयामि यथागमम् ॥८७॥
कश्चिद्ददाति हरये चोपचारांश्च षोडश ।
सुन्दराणि पवित्राणि नित्यं भक्त्या च वैष्णवः ॥८८॥
कश्चिद्द्वादश वस्तूनि पञ्च वस्तूनि कश्चन ।
येषामेव यथा शक्तिर्भक्तिर्मूलं च पूजने ॥८९॥
आसनं वसनं पाद्यमर्घ्यमाचमनीयकम् ।
पुष्पं चन्दनधूपं च दीपं नैवैद्यमुत्तमम् ॥९०॥
गन्धं माल्यं च शय्यां च ललितां सुविलक्षणाम् ।
जलमन्नं च ताम्बूलं साधारं देयमेव च ॥९१॥
गन्धान्नतल्पताम्बूलं विना द्रव्याणि द्वादश ।
पाद्यार्घ्यजलनैवेद्यपुष्पाण्येतानि पञ्च च ॥९२॥
सर्वाण्येतानि मूलेन दद्यात्साधकसत्तमः ।
गुरूपदिष्टं मूलं च प्रशस्तं सर्वकर्मसु ॥९३॥
आदौ कृत्वा भूतशुद्धिं प्राणायामं ततः परम् ।
अङ्गप्रत्यङ्गयोर्न्यासं मन्त्रन्यासं ततः परम् ॥९४॥
वर्णन्यासं विनिर्वर्त्य चार्घ्यपात्रं विनिर्दिशेत् ।
त्रिकोणमण्डलं कृत्वा तत्र कूर्मं प्रपूजयेत् ॥९५॥
जलेनाऽऽपूर्य शङ्खं च तत्र संस्थापयेद्द्विजः ।
जलं संपूज्य विधिवत्तीर्थान्यावाहयेत्ततः ॥९६॥
पूजोपकरणं तेन जलेन क्षालयेत्पुनः ।
ततो गृहीत्वा पुष्पं च कृत्वा योगासनं शुचिः ॥९७॥
ध्यानेन गुरुदत्तेन ध्यायेत्कृष्णमनन्यधीः ।
ध्यात्वा पाद्यादिकं सर्वं दद्यान्मूलेन साधकः ॥९८॥
अङ्गप्रत्यङ्गदेवं च तन्त्रोक्तं पूजयेद्धरिम् ।
मूलं जप्त्वा यथाशक्ति देवे मन्त्रं समर्पयेत् ॥९९॥
दत्त्वोपहारं विविधं स्तुत्वा च कवचं पठेत् ।
ततः कृत्वा परीहारं मूर्ध्ना च प्रणमेद्भुवि ॥ १००॥
कृत्वा वै देवपूजां च यज्ञं कुर्याद्विचक्षणः ।
श्रौतस्मार्ताग्नियुक्तं च बलिं दद्यात्ततो मुने ॥ १०१॥
नित्यश्राद्धं यथाशक्ति दानं वित्तानुरूपकम् ।
कृत्वा कृती स विहरेत्क्रम एष श्रुतौ श्रुतः ॥ १०२॥
इति ते कथितं सर्वं वेदोक्तं सूत्रमुत्तमम् ।
आह्निकस्य च विप्राणां किं भूयः श्रोतुमिच्छसि ॥ १०३॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे
शिवनारदसंवाद आह्निकनिरूपणं नाम षड्विंशोऽध्यायः ॥२६॥
GO TOP
|