ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - पञ्चविंशोऽध्यायः

कैलासं प्रति नारदागमनम् -


सौतिरुवाच
क्षणेन विप्रप्रवरो मुदाऽन्वितो     जगाम शंभोः सदनं मनोहरम् ।
उर्ध्वं ध्रुवाद्योजनलक्षमीप्सितं
    महार्हरत्‍नौघविनिर्मितं महत् ॥ १॥
निराश्रये योगबलेन शंभुना
    धृतं विचित्रं विविधालयान्वितम् ।
दृष्टं सुपुण्याशयसाधकैर्वरै-
    र्मुनीन्द्रवर्यैः परिपूरितं शुभम् ॥२॥
मयूखशून्यं रविचन्द्रयोर्मुने
    हुताशनैर्वेष्टितमेव केवलम् ।
प्राकाररूपैरतिरिक्तवर्धितै-
    रुच्चैरसंख्याप्रमितैः शिखोज्ज्वलैः ॥३॥
पुरं वरं योजनलक्षविस्तृतं
    त्रिकोटिरत्‍नेन्द्रगृहान्वितं सदा ।
विराजितं हीरकसारनिर्मितै-
    श्चित्रैर्विचित्रैर्विविधैर्मनोहरैः ॥४॥
माणिक्यमुक्तामणिदर्पणैर्युतं
    न स्वप्नदृष्टं द्विज विश्वकर्मणः ।
आकल्पमेकैः शिवसेवितैर्जनै-
    र्निषेवितं संततमेव शौनक ॥५॥
सिद्धैर्नियुक्तं शतकोटिलक्षकै-
     स्त्रिकोटिलक्षैश्च युतं स्वपार्षदैः ।
युक्तं त्रिलक्षैर्विकटैश्च भैरवैः
     क्षेत्रैश्चतुर्लक्षशतैश्च वेष्टितम् ॥६॥
सुरद्रुमैर्वेष्टितमेव संततं
    मन्दारवृक्षप्रवरैः सुपुष्पितैः ।
विराजितं सुन्दरकामधेनुभि-
    र्यथा बलाकाशतकैर्नभस्तलम् ॥७॥
दृष्ट्वा मुनिर्विस्मयमाप मानसे
    किं नात्र चित्रं सुरयोगिनां गुरौ ।
लोकं त्रिलोकाच्च विलक्षणं परं
    भीमृत्युरोगार्तिजराहरं वरम् ॥८॥
दूरे सभामण्डलमध्यगं शिवं
    ददर्श शान्तं शिवदं मनोहरम् ।
पद्मत्रिनेत्रं विधुपञ्चवक्त्रकं
    गङ्गाधरं निर्मलचन्द्रशेखरम् ॥९॥
प्रतप्तहेमाभजटाधरं विभुं
    दिगम्बरं शुभ्रमनन्तमक्षरम् ।
मन्दाकिनीपुष्करबीजमालया
    कृष्णेति नामैव मुदा जपन्तम् ॥ १०॥
सुनीलकण्ठं भुजगेन्द्रमण्डितं
    योगीन्द्रसिद्धेन्द्रमुनीन्द्रवन्दितम् ।
सिद्धेश्वरं सिद्धविधानकारणं
    मृत्युञ्जयं कालयमान्तकारकम् ॥ ११॥
प्रसन्नहास्यास्यमनोहरं वरं
    विश्वाश्रयाणां शिवदं वरप्रदम् ।
सदाऽऽशुतोषं भवरोगवर्जितं
    भक्तप्रियं भक्तजनैकबन्धुम् ॥ १२॥
गत्वा समीपं मुनिरेष शूलिनं
    ननाम मूर्ध्ना पुलकाङ्कविग्रहः ।
वीणां त्रितन्त्रीं क्वणयन्पुनर्जगौ
    कृष्णं स तुष्टाव कलं सुकण्ठः ॥ १३॥
दृष्ट्‍वा मुनीन्द्रप्रवरं च सस्मितं
    विधेः सुतं वेदविदां वरिष्ठम् ।
योगीन्द्रसिद्धेन्द्रमहर्षिभिः सह
    हर्षेण पीठादुदपश्यदीश्वरः ॥ १४॥
ददौ च तस्मै मुनये ससभ्रमा-
    दालिङ्गनं चाऽऽशिषमासनादिकम् ।
पप्रच्छ भद्रागमनप्रयोजनं
    तपोधनं तं तपसां च शौनक ॥१५॥
सद्‌रत्‍नसिंहासनसुन्दरे पर-
    श्चोवास शंभुर्वरपार्षदैः सह ।
नोवास धातुस्तनयः कृताञ्जलि-
    स्तुष्टाव भक्त्या प्रणतः प्रभुं द्विज ॥ १६॥
गन्धर्वराजेन कृतेन नारदः
    स्तोत्रेण रम्येण शुभप्रदेन च ।
स्तुत्वा प्रणामं पुनरेव कृत्वा
    भवाज्ञयोवास भवस्य वामतः ॥१७॥
चकार तत्रैव निवेदनं शिवे
    मनोऽभिलाषं निजकामपूरके ।
श्रुत्वा मुनेस्तद्वचनं कृपानिधि-
    र्द्रुतं प्रतिज्ञाय चकार चोमिति ॥ १८॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे
कैलासं प्रति नारदागमनं नाम पञ्चविंशोऽध्यायः ॥२५॥


GO TOP