ब्रह्मवैवर्तपुराणम्
प्रथमं ब्रह्मखण्डम् - चतुर्विंशोऽध्यायः
ब्रह्मनारदोक्तसंसारसुखासुखवर्णनम् -
श्रीब्रह्मोवाच
त्वं गच्छ तपसे वत्स किं मे संसारकर्मणि ।
अहं यास्यामि गोलोकं विज्ञातुं कृष्णमीश्वरम् ॥ १॥
सनकश्च सनन्दश्च तृतीयश्च सनातनः ।
सनत्कुमारो वैरागी चतुर्थः पुत्र एव च ॥२॥
यती हंसी चारुणिश्च वोढुः पञ्चशिखस्तथा ।
पुत्रास्तपस्विनः सर्वे किं मे संसारकर्मणि ॥३॥
वचस्करो मरीचिर्म अङ्गिराश्च भृगुस्तथा ।
रुचिरत्रिः कर्दमश्च प्रचेताश्च क्रतुर्मनुः ॥४॥
वसिष्ठो वशगः शश्वत्सर्वेषु च सुतेषु च ।
अन्येऽविवेकिनोऽसाध्याः किं ते संसारकर्मणि ॥५॥
निबोध वत्स वक्ष्यामि वेदोक्तं वचनं शुभम् ।
पारम्पर्यक्रमपरं चतुर्वर्गफलप्रदम् ॥६॥
धर्मार्थकाममोक्षांश्च सर्वे वाञ्छन्ति पण्डिताः ।
वेदप्रणिहितानेतान्सभासु मुनिशंसितान् ॥७॥
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ।
आदौ विप्रो यज्ञसूत्रं परिधाय सुखं सुखी ॥८॥
समधीत्य ततो वेदान्ददाति गुरुदक्षिणाम् ।
ततः प्रकृष्टकुलजां सुविनीतां समुद्वहेत् ॥९॥
सा साध्वी कुलजा या च पतिसेवासु तत्परा ।
सद्वंशे दुर्विनीता च संभवेन्न कदाचन ।
आकरे पद्मरागाणां जन्म काचमणेः कुतः ॥१०॥
असद्वंशप्रसूता या पित्रोर्दोषेण नारद ।
दुर्विनीता च सा दुष्टा स्वतन्त्रा सर्वकर्मसु ॥ ११॥
न वत्स दुष्टाः सर्वाश्च योषितः कमलाकलाः ।
स्वर्वेश्यांशाश्च कुलटा असद्वंशसमुद्भवाः ॥१२॥
निर्गुणं स्वामिनं साध्वी सेवते च प्रशंसति ।
न सेवते च कुलटा प्रियं निन्दति सद्गुणम् ॥ १३॥
साधुः सद्वंशजां कन्यां प्रयत्नेन परिग्रहेत् ।
तस्यां पुत्रान्समुत्पाद्य वृद्धस्तु तपसे व्रजेत् ॥ १४॥
वरं हुतवहे वासः सर्पवक्त्रे च कण्टके ।
एतेभ्यो दुःखदो वासः स्त्रिया दुर्मुखया सह ॥ १५॥
मत्तोऽधीतस्त्वया वेदो मह्यं च गुरुदक्षिणाम् ।
पुत्र देहीदमेवेह कुरु दारपरिग्रहम् ॥१६॥
वत्स त्वं कुलजातां च पूर्वपत्नीं च मालतीम् ।
विवाहं कुरु कल्याण कल्याणे च दिनेऽनघ ॥१७॥
मनुवंशोद्भवस्येह सृञ्जयस्य गृहे सती ।
त्वत्कृते जन्म लब्ध्वा च कुरुते भारते तपः ॥१८॥
गृह्णिष्व परमां रत्नमालां च कमलाकलाम् ।
भारते न भवेद्व्यर्थं जनानां तपसः फलम् ॥ १९॥
आदौ भवेद्गृही लोको वानप्रस्थस्ततः परम् ।
ततस्तपस्वी मोक्षाय क्रम एष श्रुतौ श्रुतः ॥२०॥
वैष्णवानां हरेरर्चा तपस्या च श्रुतौ श्रुता ।
वैष्णव त्वं गृहे तिष्ठ कुरु कृष्णपदार्चनम् ॥२१॥
अन्तर्बाह्ये हरिर्यस्य तस्य किं तपसा सुत ॥२२॥
नान्तर्बाह्ये हरिर्यस्य तस्य किं तपसा फलम् ।
तपसा हरिराराध्यो नान्यः कश्चन विद्यते ॥२३॥
यत्र तत्र कृतं कृष्णसेवनं परमं तपः ।
वत्स मद्वचनेनैव गृहे स्थित्वा हरिं भज ॥२४॥
गृही भव मुनिश्रेष्ठ गृहीणां सर्वदा सुखम् ।
कामिन्यां सुखसंभोगः स्वर्गभोगसमो मतः ॥२५॥
तद्दर्शनमुपस्पर्शं वाञ्छन्त्येव मुमुक्षवः ।
सर्वस्पर्शसुखात्स्त्रीणामुपस्पर्शसुखं वरम् ॥२६॥
ततः सुखतमे पुत्रदर्शनस्पर्शने मुने ।
सर्वेभ्यः प्रेयसी कान्ता प्रिया तेन प्रकीर्तिता ॥२७॥
पुत्रप्रयोजना कान्ता शतकान्ताप्रियः सुतः ।
नास्ति पुत्रात्परो बन्धुर्नास्ति पुत्रात्परः प्रियः ॥२८॥
सर्वेभ्यो जयमन्विच्छेत्पुत्रादेकात्पराजयम् ।
न चाऽऽत्मनोऽप्रियोऽर्थश्च तस्मादपि सुतः प्रियः ॥२९॥
अतः प्रियतमे पुत्रे न्यसेदात्मपरं धनम् ।
इत्येवमुक्त्वा स ब्रह्मा विरराम च शौनक ।
उवाच वचनं तातं नारदो ज्ञानिनां वरः ॥३०॥
नारद उवाच
स्वयं विज्ञाय सर्वार्थं स्वपुत्रं वेददर्शने ।
प्रवर्तयत्यसन्मार्गे स दयालुः कथं पिता ॥३१॥
जलबुद्बुदवत्सर्वं संसारमतिनश्वरम् ।
जलरेखा यथा मिथ्या तथा ब्रह्मञ्जगत्त्रयम् ॥३२॥
विहाय हरिदास्यं च विषये यन्मनश्चलम् ।
दुर्लभं मानवं जन्म मा भूत्तन्निष्फलं क्वचित् ॥३३॥
का वा कस्य प्रिया पुत्रो बन्धुः को वा भवार्णवे ।
कर्मोर्मिभिर्योजना च तदपायो वियोजना ॥३४॥
सुकर्म कारयेद्यो हि तन्मित्रं स पिता गुरुः ।
दुर्बुद्धिं जनयेद्यो हि स रिपुः स्यात्कथं पिता ॥३५॥
इत्येवं कथितं तात वेदबीजं यथागमम् ।
ध्रुवं तथाऽपि कर्तव्यं तवाऽऽज्ञापरिपालनम् ॥३६॥
आदौ यास्यामि भगवन्नरनारायणाश्रमम् ।
नारायणकथां श्रुत्वा करिष्ये दारसंग्रहम् ॥३७॥
इत्येवमुक्त्वा स मुनिर्विरराम पितुः पुरः ।
पुष्पवृष्टिस्तदुपरि तत्क्षणेन बभूव ह ॥३८॥
क्षणं पितुः पुरः स्थित्वा नारदो मुनिसत्तमः ।
उवाच च पुनर्वेदं वचनं मङ्गलप्रदम् ॥३९॥
नारद उवाच
देहि मे कृष्णमन्त्रं च यन्मनोवाञ्छितं मम ।
तत्संबन्धि च यज्ज्ञानं यत्र तद्गुणवर्णनम् ॥४०॥
ततः पश्चात्करिष्यामि त्वत्प्रीत्या दारसंग्रहम् ।
मानसे परिपूर्णे च कार्यं कर्तुं पुमान्सुखी ॥४१॥
नारदस्य वचः श्रुत्वा प्रहृष्टः कमलोद्भवः ।
उवाच पुनरेवेदं पुत्रं ज्ञानविदां वरः ॥४२॥
ब्रह्मोवाच
पत्युर्मन्त्रं पितुर्मन्त्रं न गृह्णीयाद्विचक्षणः ।
विविक्ताश्रमिणां चैव न मन्त्रः सुखदायकः ॥४३॥
निषेकाल्लभ्यते मन्त्रो गुरुर्भर्ता च कामिनी ।
विद्या सुखं भयं दुःखं पुरुषैः स्वेच्छया न च ॥४४॥
महेश्वरस्तव गुरुः प्राक्तनो नः पुरातनः ।
गच्छ वत्स शिवं शान्तं शिवदं ज्ञानिनां गुरुम् ॥४५॥
तत एव भवान्मन्त्रं ज्ञानं लब्ध्वा पुरातनात् ।
नारायणकथां श्रुत्वा शीघ्रमागच्छ मद्गृहम् ॥४६॥
इत्युक्त्वा जगतां धाता विरराम च शौनक ।
प्रणम्य पितरं भक्त्या शिवलोकं ययौ मुनिः ॥४७॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे
ब्रह्मनारदोक्तसंसारसुखासुखवर्णनं नाम चतुर्विंशोऽध्यायः ॥२४॥
GO TOP
|