ब्रह्मवैवर्तपुराणम् - प्रथमं ब्रह्मखण्डम् - त्रयोविंशोऽध्यायः

ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - त्रयोविंशोऽध्यायः

ब्रह्मनारदसंवादः -


सौतिरुवाच
स्रष्टा सृष्टिविधानेन नियोज्य सर्वबालकान् ।
नारदं प्रेरयामास सृष्टिं कर्तुं च शौनक ॥१॥
हितं सत्यं वेदसारं परिणामसुखावहम् ।
उवाच नारदं ब्रह्मा वेदवेदाङ्गपारगम् ॥२॥
ब्रह्मोवाच
एहि वत्स कुलश्रेष्ठ नारद प्राणवल्लभ ।
ज्ञानदीपशिखाज्ञानतिमिरक्षयकारक ॥३॥
सर्वेषामपि वन्द्यानां जनकः परमो गुरुः ।
विद्यादाता मन्त्रदाता द्वौ समौ च पितुः परौ ॥४॥
तवाहं जनकः पुत्र विद्यादाता च पालकः ।
ममाऽऽज्ञया च मत्प्रीत्या कुरु दारपरिग्रहम् ॥५॥
स च शिष्यः सोऽपि पुत्रो यश्चाऽऽज्ञां पालयेद्‌गुरोः ।
न क्षेमं तस्य मूढस्य यो गुरोरवचस्करः ॥६॥
स पण्डितः स च ज्ञानी स क्षेमी स च पुण्यवान् ।
गुरोर्वचस्करो यो हि क्षेमं तस्य पदे पदे ॥७॥
सर्वेषामाश्रमाणां च प्रधानः पुण्यवान्गृही ।
स्त्रीपुत्रपौत्रयुक्तं च मन्दिरं तपसः फलम् ॥८॥
पितरः पूर्वकाले च तिथिकाले च देवताः ।
सर्वे गृहस्थमायान्ति निपानमिव धेनवः ॥९॥
नित्य नैमित्तिकं काम्यं कुर्वन्ति गृहिणः सदा ।
इह एतत्सुखं पुण्यं स्वर्गभोगः परत्र च ॥१०॥
जीवन्मुक्तो गृहस्थश्च स्वधर्मपरिपालकः ।
यशस्वी पुण्यवांश्चैव कीर्तिमान्धनवान्सुखी ॥ ११॥
यशस्वी कीर्तिमान्यो हि मृतो जीवति संततम् ।
यशःकीर्तिविहीनो हि जीवन्नपि मृतो हि सः ॥ १२॥
ब्रह्मणो वचनं श्रुत्वा नारदो मुनिसत्तमः ।
उवाच विनयं भीतः शुष्ककण्ठौष्ठतालुकः ॥ १३॥
नारद उवाच
एकदा वाग्विरोधेन चोभयोस्तातपुत्रयोः ।
हानिर्बभूव दैवेन महती वाऽयशस्करी ॥ १४॥
मया प्राप्य च त्वच्छापाद्‌गान्धर्वं शौद्रमेव च ।
जन्म कर्म च मच्छापात्त्वमपूज्यो भवे भव ॥ १५॥
बभूव शापो मुक्तो मे काले ते भविता विधे ।
दोषाय कल्पते शश्वद्विरोधो न गुणाय च ॥ १६॥
स पिता स गुरुर्बन्धुः स पुत्रः स अधीश्वरः ।
यः श्रीकृष्णपादपद्मे दृढां भक्तिं च कारयेत् ॥ १७॥
असद्वर्त्मनि चाज्ञानाद्‌गच्छन्ति यदि बालकाः ।
निवर्तयति तानेव स पिता करुणानिधिः ॥ १८॥
कारयित्वा कृष्णपादे भक्तित्यागं च यः पिता ।
अन्यस्मिन्विषये पुत्रं स किं हन्त प्रवर्तयेत् ॥ १९॥
दारग्रहो हि दुःखाय केवलं न सुखाय च ।
तपःस्वर्गभक्तिमुक्तिकर्मणां व्यवधायकः ॥२०॥
योषितस्त्रिविधा ब्रह्मन्गृहिणां मूढचेतसाम् ।
साध्वी भोग्या च कुलटास्ताः सर्वाःस्वार्थतत्पराः ॥२१॥
परलोकभिया साध्वी तथेह यशसाऽऽत्मनः ।
कामस्तेहाच्च कुरुते भर्तुः सेवां च संततम् ॥२२॥
भोग्या भोगार्थिनी शश्वत्कामस्तेहेन केवलम् ।
कुरुते कान्तसेवां च न च भोगीदृते क्षणम् ॥२३॥
वस्त्रालंकारसंभोगसुस्निग्धाहारमुत्तमम् ।
यावत्प्राप्नोति सा भोग्या तावच्च वशगा प्रिया ॥२४॥
कुलाङ्गारसमा नारी कुलटा कुलनाशिनो ।
कपटात्कुरुते सेवां स्वामिनो न च भक्तितः ॥२५॥
सदा पुंयोगमाशंसुर्मनसा मदनातुरा ।
आहारादधिकं जारं प्रार्थयन्ती नवं नवम् ॥२६॥
जारार्थे स्वपतिं तात हन्तुमिच्छति पुंश्चली ।
तस्यां यो विश्वसेन्मूढो जीवनं तस्य निष्फलम् ॥२७॥
कथिता योषितः सर्वा उत्तमाधममध्यमाः ।
स्वात्मारामा विजानन्ति मनस्तासां न पण्डिताः ॥२८॥
हृदयं क्षुरधाराभं शरत्पद्मोत्सवं मुखम् ।
सुधासमं सुमधुरं वचनं स्वार्थसिद्धये ॥२९॥
प्रकोपे विषतुल्यं च विश्वासे सर्वनाशनम् ।
दुर्ज्ञेयं तदभिप्रायं निगूढं कर्म केवलम् ॥३०॥
सदा तासामविनयः प्रबलं साहसं परम् ।
दोषोत्कर्षश्छलोत्कर्षः शश्वन्माया दुरत्यया ॥३१॥
पुंसश्चाष्टगुणः कामः शश्वत्कामो जगद्‌गुरो ।
आहारो द्विगुणो नित्यं नैष्ठुर्यं च चतुर्गुणम् ॥३२॥
कोपः पुंसः षड्गुणश्च व्यवसायश्च निश्चितम् ।
यत्रेमे दोषनिवहाः काऽऽस्था तत्र पितामह ॥३३॥
का क्रीडा किं सुखं पुंसो विण्मूत्रमलवेश्मनि ।
तेजः प्रणष्टं संभोगे दिवाऽऽलापे यशःक्षयः ॥३४॥
धनक्षयोऽतिप्रीतौ चाप्यासक्तौ च वपुःक्षयः ।
साहित्ये पौरुषं नष्टं कलहे माननाशनम् ।
सर्वनाशश्च विश्वासे ब्रह्मन्नारीषु किं सुखम् ॥३५॥
यावद्धनी च तेजस्वी सश्रीको योग्यतापरः ।
पुमान्नारीं वशीकर्तुं समर्थस्तावदेव हि ॥३६॥
रोगिणं निर्धनं वृद्धं योषिद्वै प्रेक्षतेऽप्रियम् ।
लोकाचारभयात्तस्मै ददात्याहारमल्पकम् ॥३७॥
इत्येवं कथितं सर्वं ब्रह्मन्नात्मागमो यथा ।
सर्वं जानासि सर्वज्ञ स्वात्मारामेश्वरो भवान् ॥३८॥
अनुग्रहं कुरु विभो विदायं देहि सांप्रतम् ।
कृष्णभक्तिं प्रार्थयामि त्वयि कल्पतरोः परे ॥३९॥
इत्युक्त्वा नारदस्तत्र धृत्वा तातपदाम्बुजम् ।
आज्ञां ययाचे पितरं गन्तु तपसि मङ्गले ॥४०॥
कृताञ्जलिपुटो भूत्वा भक्तिनम्रात्मकंधरः ।
कृत्वा प्रदक्षिणं नत्वा ब्रह्माणं गन्तुमुद्यतः ॥४१॥
गच्छन्तं तनयं दृष्ट्वा विधाता जगतां मुने ।
रुरोदोच्चैर्मुक्तकण्ठं महासांसारिको यथा ॥४२॥
करे धृत्वा समालिङ्ग्य चुचुम्ब च पुनः पुनः ।
चिरं वक्षसि कृत्वा च वासयामास जानुनि ॥४३॥
स्वात्मारामेश्वरो ब्रह्मा योगीन्द्राणां गुरोर्गुरुः ।
भेदं सोढुं न शक्तोऽभूद्विच्छेदो दुःसहो नृणाम् ॥४४॥
कातरः पुत्रभेदेन मोहितो विष्णुमायया ।
शोकार्तो वक्तुमारेभे सुतं संबोध्य शौनक ॥४५॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे
ब्रह्मखण्डे ब्रह्मनारदसंवादो नाम त्रयोविंशोऽध्यायः ॥२३॥


GO TOP